Monthly Archives: October 2024

जलं श्रेष्ठं धनं स्मृतम् (भागः ३६३) 02-11-2024

EPISODE – 363

नूतना समस्या –

“जलं श्रेष्ठं धनं स्मृतम्”

प्रथमस्थानम्

न धनं धनमित्याहुः
जलं हि धनमुच्यते ।
येन भूतानि जीवन्ति
जलं श्रेष्ठं धनं स्मृतम् ॥

Vijayan V Pattambi

“अभिनन्दनानि”

 

जीवनाय हि भक्षणम् (भागः ३६२) 26-10-2024

EPISODE – 362

नूतना समस्या –

“जीवनाय हि भक्षणम्”

പ്രഥമസ്ഥാനം

“കേഷാഞ്ചിദ്രസികാനാന്തു
ഭക്ഷണായ ഹി ജീവനം
സാധവോ നേതി ജാനന്തി
ജീവനായ ഹി ഭക്ഷണം”

Radhakrishnan

“अभिनन्दनानि”

 

 

तुलादौ रात्रिरायता (भागः ३६१) 19-10-2024

EPISODE – 361

नूतना समस्या –

“तुलादौ रात्रिरायता”

പ്രഥമസ്ഥാനം

“പൂർവം വർഷസഹസ്രേഭ്യ:
പ്രജ്ഞൈകഗുണശാലിഭി:
പ്രോക്തം തു നിർവിശങ്കം ഹാ!
തുലാദൗ രാത്രിരായതാ”

Swathi Kishore

“അഭിനന്ദനങ്ങൾ”

 

 

रत्तन् टाट्टा वर्यः दिवङ्गतः। जीवकारुण्यप्रवर्तने विख्यातः उद्योगी आसीत्।

मुम्बै- उद्योगप्रमुखः तथा टाट्टा उद्योगस्य़ परमादरितो/ध्यक्षश्च रत्तन् टाट्टावर्यः कालकबलितः अभूत्। स ८६ वयस्कः आसीत्। मुम्बै ब्रीच् कान्डी चिकित्सालये आसीत् अस्य चरमः। वार्धक्यसहजेन आमयेन चिकित्सायामासीत्।

      जे आर् डि टाट्टा वर्यस्य दत्तकपुत्रस्य नवल् टाट्टा इत्याख्यस्य पुत्रः रत्तन् टाट्टा १९३७ डिसम्बर् २८ तमे दिनाङ्के भूजातः। मुम्बै नगरे एव प्राथमिकशिक्षा प्राप्ता। न्यूयोर्के कोर्णल् विश्वविद्यालयात् बिरुदं सम्पाद्य टेल्को इति टाट्टासङ्घस्य आदिमोद्योगकेन्द्रे १९६२ तमे वर्षे परिशीलनार्थं नियुक्तः। १९९१ तमे वर्षे टाट्टा उद्योगसङ्घस्य अध्यक्षो/भवत्। २०१२ वर्षपर्यन्तं स अध्यक्षपदमलञ्चकार।

      अनूढो/यम् उद्योगी जीवकारुण्यप्रवर्तने निरतः आसीत्। स्वदेशात् विदेशेभ्यश्च नैके पुरस्काराः तेन अवाप्ता।

जिह्वाग्रे नर्तनं कुरु (भागः ३६०) – 12-10-2024

EPISODE – 360

नूतना समस्या –

“जिह्वाग्रे नर्तनं कुरु”

प्रथमस्थानम्

“सर्वदा सत्यवाक्यानि
सर्वमित्रहितानि च ।
वक्तुं मां प्रेरयन्ती त्वं
जिह्वाग्रे नर्तनं कुरु” ॥

Narayanan Namboothiri

“अभिनन्दनानि”

४८ तमः वयलार् पुरस्कारः अशोकन् चेरुविल् महाभागाय दीयते।

तिरुवनन्तपुरम्- अष्टचत्वारिंशः वयलार् पुरस्कारः आख्यायिकाकाराय अशोकन् चेरुविल् महाशयाय प्रदीयते। काट्टूर् कटव् इति तस्य आख्यायिका एव पुरस्काराय चिता। वयलार् स्मारकनिधिरेव पुरस्कारः आयोजितः।बेन्यामिन्, प्रोफ- के एस् रविकुमार्, ग्रेसी इत्येते पुरस्कारनिर्णेतारः आसन्। केरलीय राजनैतिकमनसः आख्यानमेव काट्टूर् कटव् इत्याख्यायिका इति पुरस्कारसमितेः अभिप्रायः। ३०० परिमितानां पुस्तकानां मध्ये अन्तिमचरणे षट् पुस्तकानि परिगणितानि। तेषु उत्कृष्टा रचना भवति काट्टूर् कटव् इति पुरस्कारसमितेः निर्णयः।
वयलार् रामवर्मा महाशयस्य मृत्युदिने ओक्टोबर् मासस्य २७ तमे दिनाङ्के अनन्तपुर्यां निशागन्धि वेदिकायां पुरस्कारसमर्पणं भविता।

हिंसां सन्त्यज मानव (भागः ३५९) – 05-10-2024

EPISODE – 359

नूतना समस्या-

“हिंसां सन्त्यज मानव”

प्रथमस्थानम्

“कामिनीकाञ्चने चैव
हिंसायाः मूलकारणे ।
हित्वा हि तद्वयं पूर्णं
हिंसां सन्त्यज मानव” ॥

Sridevi

“अभिनन्दनानि”