Category Archives: News Updates

भारतस्य विजयः प्रचोदनात्मक इति प्रधानमन्त्री।

नवदिल्ली-  क्लेशान् अतिजीव्य  आस्ट्रेलियाराष्ट्रस्योपरि भारतक्रिक्केट्संघेन अवाप्तः विजयः राष्ट्रस्य कृते प्रचोदनात्मक एवेति प्रधानमन्त्री नरेन्द्रमोदीवर्यः अवदत्। असमराज्यस्य तेज्पुर विश्वविद्यालयेन आयोजितस्य दीक्षान्तसमारोहस्य औपचारिकम् उद्घाटनं वी़डियो सम्मेलनद्वारा विधास्यन् भाषमाण आसीत् प्रधानमन्त्री।

     आस्ट्रेलियायां भारतेन बह्यः क्लेशाः अभिमुखीकृताः। गरीयान् पराजयः प्रधमतया अभिमुखीकृत्यापि पुनः मत्सरे तस्मात् पराजयात् उत्तीर्य प्रतियोक्तुं सन्नद्धः अभवत् भारतसंघः। प्रतिसन्धीनां मध्ये आशाभङ्गं परित्यज्य नूतनः मार्गः  अन्वेष्टव्यः एवेति नूतनः पाठः संघेन अपाठि। अत एव राष्ट्रस्थाः युवकाः अमुं विजयं आदर्शविजयरूपेण स्वीकुर्युः इति प्रधानमन्त्री युवकान् उदबोधयत्।

कोविड् प्रतिरोधकौषधस्य प्रयोगः समारब्धः

नवदिल्ली- कोविड् प्रतिरोधकौषधस्य वितरणं प्रधानमन्त्रिणा नरेन्द्रमोदीवर्येण उद्घाटितम्। दिल्लीतः वीडियो सम्मेलनद्वारा एव प्रधानमन्त्री एतत्कर्म निरवहत्। प्रतिरोधकं कदा लप्स्यते इति अन्विष्यमाणाः आसन् जनाः। अधुना तत् लभ्यमभवत्। अस्मिन्नवसरे सर्वान् पौरान् अभिनन्दामि इति प्रधानमन्त्रिणा निगदितम्।

    कोरोणा विषाणुप्रतिरोधकस्य मात्राद्वयमपि प्राधान्यमर्हति इति जनान् स्मारयामि। मात्राद्वयस्य एकमासान्तरं भवेदिति विदगाधानामभिप्रायः अस्तीत्यपि मोदीवर्येण इक्तम्।

     साधारणतया प्रतिरोधकौषधस्य निर्माणे कार्यान्वयने च वर्षाणां प्रयत्नः आवश्यकः। परन्तु एतस्मिन्नन्तरे भारतेन निर्मीतं प्रतिरोधकद्वयं सज्जमभवत्। इतरेषां प्रतिरोधकानां निर्माणं पुरो गच्छति।

     सेरम् इन्स्टिट्यूट् इति संस्थायाः कोविषील्ट् आख्यं प्रतिरोधकं,  भारत् बयोटेक् इत्यस्य कोवाक्सीन् इति प्रतिरोधकं च प्रयोक्तुम् अधुना अनुमतौ। प्रथमसोपाने स्वास्थ्यप्रवर्तकानां कृते एव प्रतिरोधकं ददाति।

कार्षिकनियमस्य अवष्टम्भनं कुरु इति सर्वकारं प्रति सर्वोच्चन्यालयस्य आदेशः।

नवदिल्ली- केन्द्रसर्वकारस्य कार्षिकनियमः अधुना प्राबल्ये न भवतु इति सर्वोच्चन्यायालयः। कृषकाणां समरं प्रति सर्वकारस्य प्रवृत्तिः न्यायालयस्य अतृप्तेः कारणमभवत्। कार्षिकसमरं विरुध्य सर्वकारस्य आवेदने परिगण्यमाने आसीत् मुख्यन्यायाधीशस्य एस्.ए. बोब्डे वर्यस्य निगमनम्।

कार्षिकनियमः सर्वकारेण घनीकर्तव्यः, अन्यथा न्यायालयेन तत्क्रियते इति मुख्यन्यायाधीशः वाचा सूचितवान्।

कैन्द्रसर्वकारस्य प्रवृत्तिं न्यायालयः अतिरूक्षं व्यमर्शयत्। समस्यापरिहारार्थं सर्वकारः न प्रभवति इति सखेदं वक्तव्यम्। नियमनिर्माणाय अवश्यपर्यालोतनाः न प्रवृत्ताः। अत एव कृषकाः समराङ्गणमागताः। अतः सर्वकारः अवश्य समस्यां परिहरेत् इत्यपि न्यायालयः अवदत्।

अतितीव्रकोविड् विषाणुसान्निध्यं केरलेष्वपि, षड्जनाः रोगग्रस्ताः इति स्वास्थ्यमन्त्री।

तिरुवनन्तपुरम्- ब्रिट्टन् राष्ट्रे दृष्टः नूतनकोविड्विषाणुः केरलेष्वपि दृष्टः इति स्वास्थ्यमन्त्रिणी के.के.शैलजावर्या अब्रवीत्। ब्रिट्टनतः प्रत्यागतेषु षट्सु जनेषु रोगबाधा स्थिरीकृता। सर्वेपि चिकित्सालये निरीक्षणे सन्ति, जागरूकता पालनीया इत्यपि तया निगदितम्।

     शरीरे त्वरितरूपेण व्याप्तुं सक्षमा भवति नूतनविषाणुः। अस्मिन् साहचर्ये विमानपत्तनेषु निरीक्षणं कर्शनं कृतम्। विदेशेभ्ये आगम्यमानाः स्वयमेव आवेदनं कृत्वा निरीक्षणे स्थातव्याः। अपि च कोविड् सुरक्षामानदण्डाः पालनीयाः इत्यपि मन्त्रीणी अवदत्।

कोविड् निवारकौषधं राष्ट्रे उपयोक्तुम् अनुमतिः।

नवदिल्ली- राष्ट्रे कोविड्  कोविड् प्रतिरोधकौषधस्य उपयोगाय औषधबलाध्यक्षः अनुमतिमदात्। आपातकाले उपयोगायैव अनुमतः। ओक्स्फर्ड् विश्वविद्यालयेन संयोज्य सिरम् इन्स्टिट्यूट् इति संस्थया विकासितं कोविषील्ड् इति निवारकौषधं, तथा भारत् बयोटेक् संस्थया विकासितं कोवाक्सिन् इति निवारकौषधं च एवमनुमतेषु अन्तर्भवतः। सोडस् काडिला इति संस्थायाः सैकोव् -डि इत्यस्य तृतीयचरणपरीक्षणायापि अनुमतिम् अदात्।

     केन्द्रीय-औषधगुणवत्ता नियन्त्रकसंधस्य (शी.डी.एस्.सी.ओ) विषयविशेषज्ञसमितिरेव कोवाक्सिन् इति निवारकस्य आपदि उपयोगाय नियन्त्रणेन सह फलोदयसूचनाम् अदात्। अनया अनुमत्या कोविड् निवारकौषधं वितरणाय सज्जं भवेत्।।

विद्यालयेषु जनुवरी प्रथमदिनाङ्के कक्ष्यायाः पुनरारम्भः, मार्गनिर्देशः घोषितः।

तिरुवनन्तपुरम् –  नूतने वर्षे विद्यालयानां पुनरुद्घाटने प्रथमवारे एकस्मिन् दीर्घपीठिकायाम् एकः छात्रः इति क्रमेण कक्ष्याः क्रमीकर्तुं निर्देशः। छात्राः मिथः द्विमीट्टर् अन्तरे तिष्ठेयुः। एकस्मिन् समये  प्रतिशतं  50 छात्राः एव अनुमिताः भवन्ति।

     रक्षाकर्तृणां सम्मतपत्रेण साकम् आगच्छति चेदेव प्रवेशः कर्तव्यः इति सार्वजनीनशिक्षानिदेशकः मारगनिरदेशे सूचयति। 10,12 वर्गयोः कृते एव कक्ष्या आरभ्यते।

अन्ये मारगनिर्देशाः एवम्-

कक्ष्याप्रकोष्ठानां द्वाराणि, दीर्घोत्पीठिकाः, मार्जन्यः इत्यादीनि द्विहोरान्तरे अणुविमुक्तानि करणीयानि।

300 अधिकं छात्राः 10.12 कक्ष्यासु सन्ति चेत् ताजृशेषु विद्यालयेषु 25 प्रतिशतं छात्राः एव एकस्मिन् समये प्रवेष्टव्याः।

एकत्र स्थित्वा भोजनं न कर्तव्यम्,  भोजनानि, शुद्धजलानि च परस्परविनिमयानि न करणीयीनि।

विद्यालयीययानेषु सुरक्षितान्तरम् अवश्यम्भावि। यानारूढसमये तापमापनम् अवश्यं करणीयम्।

मुखावरणम् अवश्यं धर्तव्यम्।

अवश्यं चेत् छात्राः शिक्षकाश्च स्वास्थयपरिशोधनां कुर्युः।

कैरल्याः प्रियतमा कवयित्री सुगतकुमारीवर्या दिवङ्गता।

तिरुवनन्तपुरम्-  मानवजीवनस्य याथार्थ्यतां हृदयस्पृग्रूपेण स्वकवितया आविष्कृतवती कैरल्याः प्रियतमा कवयित्री सुगतकुमारीवर्या नित्यतायां लीना अभवत्। कोविड् विषाणुबाधया तिरुवनन्तपुरे वैद्यकीयकलाशालाचिकित्सालये चिकित्सायामासीत्। अर्धशतकाधिकेन कालेन  स्वकीयकाव्यजीवने अशरणानां आ  श्रयरूपेण स्थिता आसीत् इयं महोदया। अपिच परिस्थिति- जनकीयप्रक्षोभेषु  समरनायिका चासीत्।

     प्रशस्तः कविः स्वतन्त्रतासंग्रामसेनानी बोधेश्वरः, तिरुवनन्तपुरं वनितााकलालये भुतपूर्वसंस्कृतप्राचार्या कार्त्यायनी अम्मा च अस्याः पितरौ। सा 1934 जनुवरी 22 दिनाङ्के भूजाता अभवत्।  तत्त्वशास्त्रे स्नातकोत्तरबिरुदं सम्पादितवती सुगतकुमारी तलिर् इति बालमासिक्याः सम्पादिका, राज्य वनिता आयोगस्य अध्यक्षा, तिरुवनन्तपुरं बालभवनस्य मेधावी चासीत्। परिस्थितिसंरक्षणाय स्वकविताद्वारा निरन्तरं रणं कुर्वती सा अगतीना स्त्रीणां कृते अत्ताणी इति भवनम्, मानसिकरोगिणां कृते परिचरणालयं, अभयग्रामं च संस्थाप्य समाजस्य मुख्यधारायं स्थिता अभवत्।

1961 आरभ्य तस्याः वह्यः कविताः प्रकाशिताः। तेषु प्रथमं मुत्तुच्चिप्पी नामिका भवति। रात्रिमषा इति कविता केन्द्र साहित्य अक्कादम्या पुरस्कृता। साहित्ये समग्रयोगदानं पुरस्कृत्य एषुत्तच्छन् पुरस्कारः. सामाजिकसेवार्थं लक्ष्मीपुरस्कारः,  केरलसाहित्य अक्कादमीपुरस्कारः. वयलार् पुरस्कारः, आशान् पुरस्कारः, ललिताम्बिका अन्त्रजनपुरस्कारः, वल्लत्तोळ् पुरस्कारः, इत्यादिभिः सा बहुमानिता अभवत्।

तीव्रव्यापनविषाणुः आशङ्का नावश्यकी इति केन्द्रीय स्वास्थ्यमन्त्रालयः, जागरुकतायां सर्वकारः।

 

नवदिल्ली- व्रिट्टन् प्रभृतिषु यूरोपीयराष्ट्रेषु तीव्रव्यापनशीलस्य विषाणोः सान्निध्ये परिभ्रमस्य आवश्यकता नास्तीति  केन्द्रीयस्वास्थ्यमन्त्रालयः। नूतनाः स्थितिगतीः अधिकृत्य गवेषकाः शास्त्रज्ञाश्च अवधानतया निरीक्षन्ते। अत्र भयस्य आवश्यकता नास्तीति स्वास्थ्यमन्त्रालयस्य़ सूचना।

    जनितकव्यतियानं प्राप्ता नूतनविषाणुः व्रिट्टने एव दृष्टाः। अपि च इट्टली, डेन्मार्क्, होलन्ट्, इत्यादिषु यूरोपीय राष्ट्रेषु, दक्षिणाफ्रिक्का, औस्ट्रेलिया  प्रभृतिष्वपि रोगबाधा दृष्टा।

     अस्मिन्नन्तरे लण्टने विषाणुव्यापनकारणात् पुनरपि पिधानं सञ्जातम्। सौदी अरेब्या  स्थल-व्योम-समुद्रसीमाः एकसप्ताहं यावत्  पिधातुं निरणयत्।

आकाशे शनिबृहस्पतिग्रहयोः सङ्गमः अद्य दृष्टिगोचरं भवति।

कोषिक्कोट्- सौरयूथे गुरुः शनिॆॆश्च बृहत्ग्रहौ भवतः। एतौ एकत्र एकरेखायामिव अवस्थीयेते अद्य। एतद्दृश्यं   सर्वेषां दृष्टिगोचरं भवति। एतयोः सामीप्यं 400 वर्षाभ्यन्तरे महासङ्गमरूपेण अद्यैव सम्भवति। इतः परं 2080 मार्च 15 दिनाङ्के एव एतद्दृश्यं भविष्यतीति विशेषता अस्ति। इतः पूर्वं 1623 तमे वर्षे एव एतौ ग्रहौ समीपमागतौ।

     ज्योतिश्शास्त्रे अयं प्रतिभासः महासङ्गमः इत्युच्यते। नग्ननेत्राभ्यां पश्यति चेत् द्वावपि ग्रहौ परस्परं सम्भूय तिष्ठतीति प्रतीयते। परं यथार्थतः एतौ 75 कोटि किलोममीट्टर् परिमिते दूरे तिष्ठतः। सूर्यास्तमयानन्तरं एतं प्रतिभासं द्रष्टुं शक्यते। गुरुग्रहस्य सूर्यपरिक्रमणकालः 12 वर्षाणि भवति। परं शनिग्रहस्य परिक्रमणाय 30 वर्षाणि अपेक्षितानि। द्वावपि पश्चिमदिशः पूर्वं प्रति परिक्रामतः। अतः प्रति विंशतिवर्षेभ्यः गुरुग्रहः आकाशे शनिग्रहमतिक्रामते।

रसना राष्ट्रियान्तर्जालसङ्गोष्ठी 2020 अद्य समारम्भः

कोषिक्कोट्- रसना- संस्कृतमासपत्रिकया संस्कृतसंवर्धनप्रतिष्ठानस्य सहयोगेन समायोज्यमाना द्विदिवसीया राष्ट्रियान्त्जालसङ्गोष्ठी अद्य प्रातः दशवादने समारभ्यते।डिसम्बर् १८,१९ दिनाङ्कयोः प्रातः दशवादनात् द्वादशवादनपर्यन्तं  सङ्गोष्ठी प्रचलिष्यति। सूम्  इति अनुप्रयोगद्वारा  भागं स्वीकर्तुं सर्वे संस्कृतानुरागिणः प्रभवन्ति। ते भागं स्वीकृत्य एनम् उद्यमं सफलं कुर्वन्तु इति रसना मासिक्याः प्रबन्धकसम्पादकः के. एम्. जनार्दनवर्यः सूचितवान्। संस्कृतमाध्यमानां नूतनप्रवणताः इति विषये भारतस्य प्रमुखाः संस्कृतपण्डिताः भाषणं करिष्यन्ति। पद्मश्री. च मू कृष्णशास्त्री, वरिष्ठः संस्कृतवार्ता-प्रवाचकः डा. बलदेवानन्द सागरः, सुधर्मा पत्रिकायाः सम्पादकः विद्वान् हेच् वी. नागराजः. महामहोपाध्यायः डा. जी. गङ्गाधरन् नायर् महोदयः, दूरदर्शनस्य वार्तावली कार्यक्रमस्य अवतारकः डा. नारायणदत्त मिश्रः अन्ये विद्वांसः च भागभाजः भविष्यन्ति।