Category Archives: News Updates

राष्ट्रीय-चलच्चित्रपुरस्काराः घोषिताः। कैरलीचलच्चित्ररंगाय एकादशपुरस्काराः।

दिल्ली- सप्तषष्टितमः राष्ट्रीय-चलच्चित्रपुरस्काराः घोषिताः। मलयाळचलच्चित्रेण अस्मिन् वर्षे 11 पुरस्कालिन्राः स्वायत्तीकृताः। प्रियदर्शन् वर्यस्य निदेशने  मरक्कार् अरबिक्कटलिन्टे सिंहम् इति चलच्चित्रं उत्कृष्टचलच्चित्रपुरस्कारमवाप। राहुल् रिजी नायर् वर्यस्य निदेशने कल्लनोट्टम् इति चलच्चित्रम् उत्तममलयालचलच्चित्रमिति रूपेण पुरस्कृतम्। नवागतनिदेशक इति पुरस्कारं हेलन् इति चलच्चित्रद्वारा मात्तुक्कुट्टी सेव्यर् स्वायत्तीकृतवान्।

     उत्तमछायाग्राहकपुरस्कारं जल्लिक्केट् इति चलच्चित्रस्य छायाग्राहकः गिरीष् गङ्गाधरन् अवाप्तवान्। बिरियाणी इति चलच्चित्रस्य निदेशकः सजिन् बाबू विशेषविधिकरितृपुरस्कारं प्राप्तवान्। कोलाम्पी इति चलच्चित्राय दानं रचयन् प्रभावर्मावर्यः गानकारपुरस्कारमवाप।

     उत्तम नटी कङ्कणा रणावत् भवति । मणिकर्णिका पङ्का इत्यादिषु अभिनयायैव पुरस्कारः। उत्तमनटः धनुष्, मनोज वाजपेयी च अवापतुः। असुरन् इति चित्रे अभिनयाय धनुष्, बोण्स्ले इति चलच्चित्रे अभिनयाय मनोज् वाजपेयी च पुरस्कारमवाप्तवन्तौ। उत्तमसहनटाय पुरस्कारः विजय् सेतुपतिवर्यः स्वायत्तीकृतवान्।

तमिल् नाटु प्रति गमने आर्.टि.पी.सी.आर्. साक्ष्यपत्रं नावश्यकम्।

तिरुवनन्तपुरम्- केरलात् तमिल्नाट् प्रति गच्छतां जनानां कोविड्-ऋणसाक्ष्यपत्रं अवश्यं नास्तीति तम्ल्नाट् सर्वकारः निरणयत्। पूर्वं तमिल्नाट् सर्वकारेण निर्णीतं यत् केरलात् आगच्छतां जनानां कोविड् बाधा नास्तीति ७२ होराभ्यन्तरे स्वीकृतं साक्ष्यपत्रम् आवश्यकम् इति।

एतस्य प्रतिषेधमभिलक्ष्य परिवहणसचिवः के. आर्. ज्योतिलालः तमिल् नाटु सर्वकारस्य वरिष्ठैः अधिकारिभिः सह चर्चां व्यदधात्। तदनन्तरमेव एष निर्णयः।

तमिल्नाटु सर्वकारस्य ई-पास् करगतानां जनानाम् एव बुधवासरात् प्रभृति तमिल् नाटुं प्रति प्रवेशः। परन्तु तमिल् नाटुतः केरलं प्रति यात्रायै नियन्त्रणं नास्ति। www.eregister.tnega.org इत्यस्मिन् जालपुटे ई-पास् प्राप्यर्थं पञ्जीकरणम् आवश्यकम्।

स्वतन्त्रचालनक्रमः कैट् संस्थया प्रत्यक्षेपि, अद्य प्रभृति अवचयनं साध्यं भवति।

तिरुवनन्तपुरम् –      कैट् संस्थया  ग्नु लिनक्स् लैट् 2020 इति स्वन्त्रचालनक्रमः प्रत्यक्षेपि। शिक्षायाः कृतेे केरलीय-आधारिकसंरचना एवं तान्त्रिकता(Kerala Infrastructure and Technology for Education – KITE) संस्थया विद्यालयेषु विन्यस्तस्य स्वतन्त्रचालनक्रमस्य परिष्कृतं रूपं भवतीदम्।  सर्वकारेण छात्रेभ्यो दीयमानेषु विद्याश्री अङ्गसंगणकेष्वपि एष एव क्रमः उपयुज्यते।

     स्वतन्त्र चालकक्रमम् उबुण्डूमाश्रित्य सज्जीकृते अस्मिन् आचये चालनक्रममतिरिच्य कार्यालयाचयः, भाषाभ्यः निवेशकोपकरणानि सूचनाधारप्रयोजकानि डी.टी.पी. ग्राफिक्स् छायाचित्रसम्पादनम्,  शिक्षायाः कृते जियोजिब्राप्रभृतयः चालनक्रमाः बहवः सदुपयोगाचयाश्च सन्ति। अद्य प्रभृति कैट् संस्थायाः www.kite.kereal.gov.in इति जालपुटात् अवचयनं कर्तुं शक्यते।

कोरोणिल् इति पतञ्जलेः कोविड् प्रत्यौषधगुलिका महाराष्ट्रे निरुद्धा।

मुम्बै- कोविड् रोगस्य  शमनौषधमिति प्रख्यापयन् रांदेवस्य पतञ्जलिसंस्थया आनीता कोरोणिल् इति गुलिका महाराष्ट्रे विक्रयनार्थम् अनुमतिं न दास्यतीति राज्यगृहमन्त्री अनिल् देश्मुख् अवदत्। विश्व-स्वास्थ्य-सङ्घः, भारतीयवैद्यकसंघश्च एतदौषधं नाङ्गीचक्रतुः। तादृशम् औषधं राज्ये विक्रेतुं नानुमीयते इति मन्त्री अवदत्।

     अस्य औषधस्य परीक्षणं भारतीयवैद्यकसङ्घः स्तगयत्। विश्व-स्वास्थ्य-सङघटनायाः प्रमाणपत्रं लब्धमिति वादः तया सङ्घटनया एव प्रहितः। केन्द्रीय स्वास्थ्यमन्त्री हर्षवर्धनः, यातायातमन्त्री नितिन् गड्गरी च औषधस्यास्य विणनसमारोहे भागं भजन्तावास्ताम्।

     आयुष् मन्त्रालयस्य अह्गीकारेणैव औषधविपणनमिति रांदेवस्य वादः। केन्द्रीय-औषधनियन्त्रकसंङ्घस्य अङ्गीकारः अस्तीत्यतः 158 राष्ट्रेषु ेतत् विक्रेतुं शक्यते इत्यपि रांदेवः वदति स्म। परन्तु भारतीयवैद्यकसङ्घः  एतदौषधं प्रति विरोधः प्राकटयत्। कोविड् चिकित्सार्थं कमपि पारम्परिकौषधम् अस्माभिः न निर्दिष्टम् इति विश्व स्वास्थ्य सङ्घेनापि सूचितम्।

अधिकवाचनपुस्तकानि वाचनपत्रकाणि च प्रकाशितानि।

तिरुवनन्तपुरम्- सार्वजनीनशिक्षासंरक्षणयज्ञस्य भागत्वेन  प्राथमिक-माध्यमिक तले संस्कृतम्, अरबि, उर्दू छात्राणां भाषाशेषिविवर्धनार्थं संरचितानि अधिकवाचनपुस्तकानि वाचनपत्राणि च सार्वजनीनशिक्षाविभागमन्त्री प्रोः सी. रवीन्द्रनाथवर्यः प्राकाशयत्। भाषापठनपरिपोषणपद्धत्यामन्तर्भाव्य राज्य-शैक्षिकानुसन्धान-प्रशिक्षणपरिषदा आयोजिताः पद्धत्यः भवन्ति  संस्कृतमाधुरी, अह्लन् अरबिक्, प्यारी उर्दू च।  आसां पद्धतीनां प्रशिक्षणरूपरेखा परीक्षणरूपेण राज्यस्थेषु विविधविद्यालयेषु परिषदा एव कार्यान्विता आसन्। छात्राणां भाषाशेषीः पठनाभिमुख्यं च प्रवर्धितानि इति अनुसन्धाने अवगतानि। अस्याः पद्धतेः अनुबन्धत्वेन सज्जीकृतानि  20 लधुपुस्तकानि वाचनपत्राणि च अधुना शिक्षामन्त्रिणा प्रकाशितानि।  एषु पुस्तकानि संस्कृतस्य कृते एव सन्ति।

     प्रकाशनसमारोहे एस.सी.ई.आर्.टी. निदेशकः डो. जे प्रसाद्, रिजर्च् आफीसर् पदवीस्थौ डो. ए सफीरुद्दीन्, वी.श्रीकण्डन् च भागमग्रहीताम्।

ऐक्यराष्ट्रसभायाः महासचिवपदव्याः कृते भारतवंशीया अपि मत्सररंगे।

युनैटट्   नेशन्स् – ऐक्यराष्ट्रसभायाः महासचिवस्थानाशिनी भारतवंशीया आकाङ्क्षा अरोरा अपि प्रतियोगितां विदधाति। ऐक्यराष्ट्र विकस्वरयोजनायां(UNDP) महालेखसंयोजिकारूपेण प्रवर्तमाना भवति आकाङ्क्षा अरोरा।

     स्वकीयं स्थानाशिप्रख्यापनेन समं प्रचारणप्रवर्तने अपि निरता भवति आकाङ्क्षा वर्या। मत्सदृशानां कर्मकराणां प्रवर्तनार्थं वारं प्रतीक्ष्य प्रतिपालावस्था एव अधुना भवति। विश्वः कीदृशः भवति तं तादृशं स्वीकृत्य नम्रशिरस्का भुत्वा प्रस्थातव्या इत्यवस्था इति जनानां सम्मतम् अभ्यर्थयन्ती सामाजिकमाध्यमेषु वीडियोद्वारा सा अभ्यर्थितवती। सार्धद्विनिमेषदैर्ध्ययुक्तं वीडियो चित्रं ऐक्यराष्ट्रसभायाः आस्थाने एव चित्रीकृतम्।

 

संस्कृतचलच्चित्रनिर्माणे अध्यापक-छात्रसहयोगः।

मट्टत्तूर् – केरलम्- कोविड् कारणेन अध्ययने स्थगिते संस्कृतशिक्षकाणां छात्राणां च सहयोगेन द्विहोरावधिकं संस्कृतचलच्चित्रं याथार्थ्यमभवत्।  तृशूर् जनपदस्थे मट्टत्तूर्, कोटकरा, वरन्तरप्पिल्ली, आसूर् पञ्चायत् सीमास्थिताः संस्कृतश्क्षकाः एव चलच्चित्रस्य अन्तरङ्गशिल्पिनः भवन्ति। एषु प्रदेशेष्वेव चलच्चित्रस्य छायाग्रहणमपि सम्पन्न्म्। प्रतिकृतिः इति नामधेयकस्य चलच्चित्रस्य निर्माणम्पि समाप्तप्रायमभवत्।

     सुनिल् सुगदा इति विख्यातः नटः एव प्रधानवेषं गृहाणाति। तालीपत्रग्रन्थेषु विद्यमानं विज्ञानं विदेशराष्ट्रेभ्यो दीयमानसम्बन्धी सम्भवविकास एव प्रमेयः।

     चेम्पूच्चिरा सर्वकारीण उच्चतरविद्यालयस्थः संस्कृताध्यापकः डो. निधीष् गोपी वर्यः एव कथा ,पटकथा, सम्भाषणं निदेशनं च विदधाति। गानरचना अपि स एव। आलूरे आर्.एं.एच. एस्. संस्कृताध्यारपकः पी.आर्. प्रशान्तः प्रांशुपालः लेय्सण् जोण्  इत्येतयोः संयुक्तसंरम्भमेव इदं चलच्चित्रम्।.

उत्तराखण्डे हिमशैलदुरन्तः, 13 ग्रामाः विगृहाणीताः, बहवः मृताः,

डेराडूण्- उत्तरखण्डस्थे चमोलीमण्डले नन्दादेवी ग्लासिया इति हिमशैलस्य कश्चिद्भागः स्खलितः इत्यतः सञ्जाते जलोपप्लवे 13 ग्रामाः विगृहाणीताः। ग्रामनगरयोः परस्परसम्बन्धार्थं स्थापितानां सेतूनां प्लवनकारणादेव ग्रामाः विगृहाणीताः।

     बोर्डर् रोड् ओर्गनैसेषन् इति संस्थायाः पञ्च सेतवः एव भग्नाः। एतेन विगृह्णीतेषु ग्रामेषु अवश्यवस्तूनां वितरणं उदग्रयानद्वारा विदधातुं परिश्रमं कुर्वन्ति अधिकारिणः। 17 ग्रामप्रदेशेष्वेव दुरन्तबाधा सञ्जाता। एषु 11 प्रदेशेष्वेव जनानाम् आवासः वर्तते। इतरेषु स्थिताः जनाः शैत्यारम्भे उपत्यकां प्रति प्रस्थिताः आसन्।

     जोषिमठ् इति सुप्रसिद्धे तीर्थाटनकेन्द्रे ह्यस्तने प्रातः एव हिमशैलः स्खलितःआसीत्। अनेन धौलि गङ्गा, ऋषिगङ्गा, अलकनन्दा नदीषु जलोपप्लवः सञ्जातः तपोवन्  रेनीस्थले ऋषिगङ्गा वैद्युतयोजना तथा तपोवन् विष्णुघट् वैद्युतयोजनाश्च जलोपप्लवेन भग्ने अभवताम्।

     दुरन्ते बहवः जनाः मृताः इत्यावेदयति। इतः पर्यन्तं 10 मृतदेहाः उपलब्धाः, शिष्टानां कृते मार्गणम् उर्जितं करोति।

भारत-इङ्ग्लेन्ट् क्रिक्केट् क्रीडापरम्परायाः आद्य शुभारम्भः।

चेन्नै-  भारत-इङ्ग्लेण्ड् राष्ट्रयोः मिथः क्रिक्केट् क्रीडास्पर्धा  अद्य समारभते। चेन्नैपुर्यां एं.ए. चिदम्बरं क्रीडाङ्कणे प्रातः 9.30 वादने समारभमाणा स्पर्धा स्टार् स्पोट्स् इति नालिकया तत्समयं समप्रेष्यते। अधिजालिकरूपेण होट्स्टार् नालिकायामपि स्पर्धां वीक्षितुं सुविधा अस्ति।

     भारतं इङ्ग्लेण्ट् च अस्मिन् क्रीडाङ्कणे नववारं परस्परं प्रतियोगितां व्यतनुताम्। इतः पूर्वं 2016 तमे वर्षे आसीत् प्रतियोगिता। तस्मिन् मत्सरे भारतं 75 धावनाङ्कैः विजयमवाप। इङ्ग्लेण्ट् राष्ट्रं 1985 तमे वर्षे इतः विजयमवाप। अनया क्रीटया विश्व टेस्ट् क्रिक्केट् परमपरायां अन्तिमचरणे न्यूसिलाण्टस्य प्रतियोगी कः इति निश्चेतुं शक्यते।

राष्ट्रे पद्मपुरस्काराः घोषिताः।

नवदिल्ली- ऐषमः पद्मपुरस्काराः राष्ट्रपतिना रामनाथ कोविन्द् वर्येण घोषिताः। गणतन्त्रदिवसमालक्ष्य घोषितेषु पुरस्कारेषु केरलराज्यस्य उत्कर्षता प्रतिभाति।

     चलचित्रगायिका के.एस्. चित्रा वर्या पद्मभूषण् पुरस्कारेण, चलचित्रमण्डले गायक-संगीतनिदेशक-गानरचयितृरूपेण प्रसिद्धः कैतप्रं दामोदरन् नम्पूतिरिः पद्मश्रीपुरस्कारेण च बहुमतौ।

     एस्.पि. बालसुब्रह्मण्यम् वर्याय मरणानन्तरबहुमति रूपेण पद्मविभूषणपुरस्कारः घोषितः। स अन्तर्भूय सप्तजनाः पद्मभूषणपुरस्कारेण बहुमताः।