Category Archives: News Updates

विद्यालयेषु संस्कृतदिनाचरणम्

तिरुवनन्तपुरम्- अस्मिन् वर्षे श्रावणपूर्णिमातिथिः आगस्त् मासस्य २२ तमे दिनाङ्के भवति। अतः तस्मादारभ्य एकसप्ताहपर्यन्तं राज्यस्थेषु विद्यालयेषु जालाधारितकार्यक्रमाः आयोजनीयाः इति सार्वजनीन-शिक्षानिदेशकः प्रतिवेदयति।

कार्यक्रमे/स्मिन् छात्राणां कृते गानालापः, भित्तिपत्ररचना, चित्ररचना, चित्रकथारचना, पर्यावरणसम्बन्धीनां वस्तूनां संस्कृतनामलेखनम्, शब्दकोषरचना इत्यादयः अन्तर्भवन्ति।

शिक्षा उपमण्डलेषु आगस्त् ३० दिनाङ्काभ्यन्तरे, शिक्षामण्डलेषु सेप्तम्बर् ५ दिनाङ्काभ्यन्तरे कार्यक्रमाः भवेयुः। तत्र अध्यापकानां कृते कथा,कविता,उपन्यासः, पटकथा, समस्यापूरणम् इत्यादिषु मत्सरः आयोजनीयः।

१४ मण्डलेषु सेप्तम्बर् २० दिनाङ्काभ्यन्तरे संस्कृतदिनाचरणम् आयोजनीयम्। राज्यस्तरीयसंस्कृतदिनाचरणम् ओक्टोबर् प्रथमे वारे भविष्यति।

रचनामत्सरार्थं विषयाः-
कथा – एतदेव मम जीवनस्य परिवर्तनम् अकरोत्।
कविता- शुभप्रयाणम्
उपन्यासः- संस्कृतभाषाभिरुचिवर्धनाय उपायाः।
समस्या- स्वस्थं शरीरं च मनोनिवार्यम्।
पटकथा, ह्रस्वचलच्चित्रम् इत्येतयोः विषयन्बन्धनं नास्ति , चलच्चित्रदैर्घ्यं परमतः १५ निमेषाः परिमिताः।

ओलिम्पिक्स् क्रीडायां कुन्तास्त्रप्रक्षेप विभागे भारतीयः नीरज् चोप्रः सुवर्णपदकमाप्तवान्।

 

टोक्यो- ओलिम्पिक्स क्रीडायां क्रीडकविभागे भारतस्य प्रथमः सुवर्णपदकः कुन्तास्त्रप्रक्षेपे अद्य समागतः। अनेन ओलिम्पिक्स् रंगे सुवर्णपदकमाप्तवान् प्रथमः क्रीडकः भवति नीरज् चोप्रः।

प्रथमे प्रक्षेपे चोप्रः ८७.०३ मीट्टर् दूरे कुन्तास्त्रं क्षिप्तवान्। द्वितीये प्रक्षेपे ८७.५८ मीट्टर् दूरं समासादितवान्।

अस्मिन् विभागे अन्तिमचक्रे प्रविष्टवान् प्रथमो भारतीयश्च भवति नीरज् चोप्रः।

ओलिम्पिक्स् होक्की स्पर्धायां भारतेन कांस्यपदकमवाप्तम्।

टोक्यो- ४१ वर्षानन्तरं पुरुषाणां होक्की स्पर्धायां पदकानुसूच्याम् भारतस्य नाम अङ्कितम्। उद्वेगभरिते मत्सरे जर्मनीराष्ट्रं ५-४ इति क्रीडाङकेन भारतेन पदकमवाप्तम्।

मत्सरस्य प्रथमे परिच्छेदे जर्मनी पुरो/गच्छत्। परन्तु तृतीये परिच्छेदे भारतस्य क्रीडाङ्कद्वयं विजयपथमसूचयत्। भारतस्य हार्दिक् सिंह्, हर्मन् प्रीत् सिंह्, इत्येतयोः सामर्थ्येनैव क्रीडाङकलाभः सञ्जातः।

उद्घाटनं नेतृसंघश्च नास्ति कुतिरान् सुरङ्गयोरेकः उदघाटयत्

तृशूर्- केन्द्रसर्वकारस्य निर्णयस्य पश्चात् कुतिरान् सुरङ्गयोरेकम् उद्घाटितम्। पालक्काट्तः तृशूरं प्रति मार्गस्थः सुरङ्ग एवायम्। शनिवासरे रात्रौ सार्धसप्तवादने तृशूर् मण्डलाधिकारी हरित वि कुमार् महाभागा एव गमनागमनार्थं सुरङगमार्गम् उदघाटयत्। अनेन कोच्ची-कोयम्पत्तूर् राजमार्गे यात्रासमयं न्यूनं भविष्यति।

राज्यस्थः प्रथमः सुरङ्गमार्ग एवायम्। केन्द्रिय-यातायातमन्त्री नितिन् गड्करी वर्यः ट्विट्टर् द्वारा उद्घाटनवार्तां सूचयति स्म।

ओलिम्पिक्स् क्रीडोत्सवस्य शुभारम्भः

टोक्यो- दिनेषु कोरोणाभीत्यां स्थीयमानेषु विश्वस्य प्रतीक्षां प्रदास्यन् टोक्यो ओलिम्पिक्स् क्रीडार्थं भद्रदीपः प्रज्वलितः। कोरोणायां जने पृथक् पृथक् स्थीयमाने विश्वस्य सर्वे प्रतिनिधयः एकस्मिन् स्थले प्रतियोत्स्यन्ति। एकत्वस्य सन्देशोत्तरकः उद्घाटनसमारोहः भारतसमये ४.३० वादने समारब्धः।

जपान् चक्रवर्ती हिरोणोमिया नरूहिता मुख्यातिथिः आसीत्। जपानस्य मध्यमः मुष्टियुद्धकं अरिसा सुबोट्टं पुरस्कृत्यैव समारोहः आरभत।

कोविड् महामार्यां प्राणविऩष्टेभ्यो विश्वस्य विविधभागस्थेभ्यो जनेभ्यो श्रद्धाञजलिं समार्पयत्। ततः जपानीयसंगीतेन साकं आतिथेयराष्ट्रस्य सांस्कृतिकविशेषयुक्ताः कार्यक्रमाः प्रचेलुः।

भारतसंघात् २६ क्रीडकाः उद्घाटनसमारोहे भागं गृहीताः। मुष्टियुद्धिका मेरी कों होक्की क्रीडकः मन्प्रीत् सिंह् च भारतपताकाम् अवहताम्।

राष्ट्रे 68 प्रतिशतं जनेषु कोविडं विरुध्य प्रतिरोधकं विद्यते इति सर्वेक्षणाभिवेदनम्।

नवदिल्ली-  राष्ट्रे 68 प्रतिशतं जनेषु कोविड्विरुद्धाय स्वयंप्रतिरोधकं विद्यते इति सेरो संस्थायाः सर्वेक्षणाभिवेदनम्। त्रिष्वेकं इति क्रमेण अधुनापि जनाः कोविड् भीषाम् अभिमुखीकुर्वन्तीति अभिवेदने अस्ति। चतुर्थे सेरो राष्ट्रियाभिवेदने एवायमावेदनमस्ति।

    स्वयं प्रतिरोधकं वाक्सिनद्वारा रोगबाधाद्वारा वा भवेदिति आवेदने सूचयति। 45 – 60 वयःपरिमितेष्वेव स्वयंप्रतिरोधकम्  अधिकं सूचितम्।  एतत् 77.6 प्रतिशतं भवति। 6-9 वयः परिमितेषु 57.2 प्रतिशतं, 10 -17 वयःपरिमितेषु 61.6 प्रतिशतं च स्वयं प्रतिरोधकम् आर्जितम्। एषु 62.2 प्रतिशतं जनाः वाक्सिनं न स्वीकृतवन्तः भवन्ति। वाक्सिनस्य मात्राद्वयमपि स्वीकृतेषु 13 प्रतिशतमेव जनाः स्वयंप्रतिरोधम् आर्जितवन्तः इत्यपि आवेदनं सूचयति।

ओण्लैन् अनौपचारिकसंस्कृतपठनम् @ ३६५

इरिङ्ङालक्कुटा – नटवरम्प् उच्चतरविद्यालयस्य शताब्धेः भागत्वेन २०२० जूलै प्रथमदिनादारभ्य ३६५ दिनानि विनाविघ्नं अन्तर्जालमाध्यमद्वारा आयोजित-अनौपचारिक-संस्कृताध्ययनस्य समापनं श्री शङ्कराचार्यसंस्कृतसर्वकलाशालायाः उपकुलपिना श्री धर्मराज् अटाट्ट् वर्येण कृतम्। पि.टि.ए अध्यक्षः श्री ऎम्.ए. अनिलः अध्यक्षभाषणं निरवहत्। डो.एम्.वि नटेशः मुख्यभाषणमकरोत्। प्रथमाध्यापिका श्रीमति बिन्दू, मुख्यकार्यकर्ता श्री सुरेष् बाबू, श्रिमति विजयलक्ष्मी विनयचन्द्रन्, श्री धनेष्, श्री पि.वि. मात्यू, श्री एम् नासरुद्दीन्, श्रीमती मनु पि मणी, श्री के.डि. बिजु, श्रीमति लाली, श्री सि.वि. जोस्, के.के. ताजुद्दीन् वर्याः च भाषणमकुर्वन्।  मुख्यकार्यकर्तृणा श्री सुरेष् बाबु वर्येण आयोजिते∫स्मिन् कार्यक्रमे आहत्य २०० जनाः भागं भजन्ताः आसन्।

केरले एस्.एस्.एल्.सी. परीक्षाफलं घोषितम्।

तिरुवनन्तपुरम्- २०२०-२१ अध्ययनवर्षस्य एस्.एस्.एल्.सी., टी.एच्.एस्.एल्.सी., ए.एच्.एस्.एल्. सी. परीक्षाणां परिणामः घोषितः। एस्.एस्.एल्.सी. परीक्षायां ९९.६ प्रतिशतं विजयः अस्ति।

कोविड् महामार्याः पश्चात्तले सर्वान् विघ्नान् अतिजीव्य अस्मिन् वर्षे एप्रिल् ८तः २९ पर्यन्तं परीक्षा प्रचलिता आसीत्। केरले, लक्षद्वीपे, गल्फ् मेघलायां च आहत्य २९४७ परीक्षाकेन्द्रेषु ४२२२६ छात्राः परीक्षार्थं पञ्जीकृताः, ४२१८८७ छात्राः परीक्षामलिखन् च। एषु २०६४३७ बालिकाः २१५४५० बालकाश्च भवन्ति। २००३३८ छात्राः मलयालं माध्यमे २१७९९२ छात्राः आङ्गलमाध्यमे २१५८ छात्राः कन्नटमाध्यमे १३९९ छात्राः तमिल् माध्यमे च परीक्षामलिखन्। निजीयविभागे ९९१ छात्राः सन्ति। कृपाङ्कदानं विनैव अस्मिन् वर्षे परीक्षापरिणामः घोषितः।

भिषग्वरः डो. पी.के. वारियर् वर्यः दिवङ्गतः।

मलप्पुरम्- कोट्टक्कल् आर्यवैद्यशालायाः प्रबन्धकः तथा विख्यातः भिषग्वरश्च डो. पी.के. वारियर् वर्यः ब्रह्मभूयं प्राप। स १०० वयस्कः आसीत्। वार्धक्यसहजेन आमयेन विश्रामजीविते आसीदयम्। पद्मश्रीपुरस्कारेण आदृतश्चायम्।

पुरोहितः स्टान् स्वामीवर्य परलोकमगात्।

मुम्बै- भीमा कोरेगाव् व्यवहारे गृहीत्वा कारागारं नीतः ईशो सभा वैदिकः फा. स्टान् स्वामी वर्यः अस्माल्लोकान्निरगात्। स ८४ वयस्कः आसीत्। अद्य मध्याह्ने मरणं सञ्जातमिति स्टान् स्वामीवर्यस्य अभिभाषकः मुम्बै उच्चन्यायालयं बोधितवान्। तस्य प्रतिभूत्यावेदनं परिगण्यमाने आसीत् मृत्युवृत्तान्तः।

एल्गार् परिषत्तेन सह सम्बन्धमारोप्यैव मनुष्याधिकारप्रवर्तकोयं निगृहीतः। पार्किन्सण् इत्यामयेन पीडितस्य तस्य स्वास्थ्यावस्थां अपरिगणय्यैवासीत् तस्य निग्रहः। २०२० ओक्टूबर् मासतः कारायां बद्धस्यास्य स्वास्थ्यस्थितिः अधिकं सङ्कीर्णा अभवत्।

स्वास्थ्यस्थितिं परिगणय्य मुम्बै उच्चन्यायालयस्य निर्देशानुसारं तं मुम्बैस्थं होलिफामिलि चिकित्सालयं नीतमासीत्। अस्यान्तरे कोविड् बाधा अपि सञ्जाता। चिकित्सामध्ये हृदयाघातेन तस्यावस्था सङ्कीर्णा जाता, अनेन मरणमपि सञ्जातम्।