महाबलिप्रशस्तिगीतं संस्कृतेsपि।

कोल्लम्- श्रावणोत्सवकाले केरलीयानां मावेलिप्पाट्ट् इति महाबलिप्रशस्तिगीतं संस्कृतेन गायन्त्यौ द्वे बालिके जनानां मनांसि हठादाकर्षतः। माबलिशासनकाले देशे मानवास्सर्वे समाना एव इति अद्वैतायाः अतिथेश्च गानं श्रुत्वा मलयालभाषाकुतुकिनः चकितचित्ताः जायन्ते।
अद्वैता अतिथी च युगलबालिके स्तः। दशमकक्ष्या छात्रे भवतः एते। पालक्कुलङ्ङर भगिन्यौ इति प्रथिते एते। संगीते अतुल्यप्रतिभे एते अस्मिन् वर्षे संस्कृतमावेलि गानेन साकं जनान् अभिमुखीकुर्वतः।
एरणाकुलं जिल्ला शिक्षकप्रशिक्षण संस्थायाम् अध्यापकत्वेन वृत्तिं कुर्वन् वृत्तिविरतः मुत्तलपुरं मोहन्दास् वर्यः एव मावेलिगानं संस्कृतेन अनूदितवान्।
Leave a Reply