केरले एकादशकक्ष्या प्रवेशाय नामाभिलेखनम् आगस्त २४ प्रभृति।

तिरुवनन्तपुरम्- एकादशकक्ष्या(प्लस् वण्) प्रवेशाय नामाभिलेखनम् अस्मिन् मासे २४ तमे दिनाङ्के प्रारभते। प्रक्रियेयं जालाधारिता भवति। पूर्वं श्वः समारम्भाय निश्चितं परन्तु तन्त्रांशस्य परिष्करणाय समयम् अपेक्षितम् इत्यतः स निर्णयः परिवर्तितः। ओणोत्सवात् परं परिष्कृतः तन्त्रांशः उपलब्धः स्यात् इत्यतः २४ तमे दिनाङ्के निश्चितम्।

कस्मिन्नपि क्रमे छात्राः न्यूना चेत् स क्रमः परिवर्त्य अन्यस्मै मण्डलाय दीयते। यत्र छात्रानुपातिकत्वेन क्रमाधिष्ठानं नास्ति चेत् तत्र अतिरिक्ततया अधिष्ठानं परिकल्प्यते।

One Response to केरले एकादशकक्ष्या प्रवेशाय नामाभिलेखनम् आगस्त २४ प्रभृति।

  1. Sreekumar says:

    ഉത്തമം

Leave a Reply

Your email address will not be published. Required fields are marked *