Category Archives: News Updates

विश्वे एकमात्रस्य संस्कृतदिनपत्रस्य सम्पादकः के.वी. सम्पत् कुमार् दिवङ्गतः।

मैसूरु- मैसूरु नगरात् प्रकाशमानायाः सुधर्मा नामिकायाः संस्कृतदैनिक्याः सम्पादकः के.वी. सम्पत् कुमार् वर्यः दिवङ्गतः। हृदयाघातकारणात् मैसूरुस्थायां वसत्यामेव तस्यान्त्यं सञ्जातम्। स ६४ वयस्कः आसीत्।

संस्कृपत्रिकासम्पादनं परिगणय्य २०२० तमे वर्षे पद्मश्री पुरस्कारेण अयं समादृतः।

१९७० तमे वर्षे स्वपित्रा पण्डित् वरदराज अय्यङ्कार् वर्येण समारब्धा सुधर्मा विश्वे एकमात्रा संस्कृतदैनिकी भवति।

ओण्लैन् कक्ष्याणां कार्यक्षमतायै अध्यापकप्रशिक्षणेषु परिवर्तनं विधास्यति – शिक्षामन्त्री।

तिरुवनन्तपुरम्- विद्यालयेषु प्रवर्तमानान् ओण्लैन् अध्ययनकार्यक्रमान् फलप्रदान् कर्तुम् अध्यापकप्रशिक्षणेषु परिवर्तनानि आय़ोजयितुम् उद्दिश्यते इति शिक्षामन्त्री वि.शिवन् कुट्टीवर्यः अवदत्। के.एस्.टी.ए. इति अध्यापकसंघस्य  वूट्टिलोरु विद्यालयम्(गृहे एव विद्यालयः) इति पद्धत्याः राज्यस्तरीयम् उद्घाटनम् अङ्कीयोपकरणानां वितरणोद्घाटनं च विधास्यन् भाषमाणः आसीत् मन्त्रिवर्यः।

    सर्वेषां छात्राणाम् आधिजालिककक्ष्यायां भागं गृहीतुं अङ्कीयोपकरणालां लभ्यतायै यतते। अङ्कीयकक्ष्याणां न्यूनता अवगता। अध्यापकस्य छात्राणां च मध्ये मिथः आशयविनिमयम् आवश्यकं तदनुरूपेण अचिरादेव अङ्कीयकक्ष्या सक्षमा स्यात् इत्यपि मन्त्री अवदत्।

कविः एस्. रमेशन् नायर् दिवंगतः।

तिरुवनन्तपुरम्- विख्यातः केरलीयकविः एस्. रमेशन् नायर् वर्यः कालयवनिकान्तर्गतः। स ७१ वयस्कः आसीत्। कोविड् बाधया चिकित्सायां तिष्ठन्नेव स निरगात्।

१९४८ मेय् ३ दिनाङ्के कन्याकुमारि जिल्लायां कुमारपुरे अयं भूजातः अभवत्। सरयूतीर्थं, अलकनन्द स्वातिमेघं, जन्मपुराणं, सूर्यहृदयं, अग्रे पश्यामि, वनमाला इत्यादि कवितासमाहाराः, नैकानि नाटकानि, बालसाहित्यं, तिरुक्कुरल्, चिलप्पतिकारं इत्यादीनां विवर्तनम्, च भवति महाशयस्यास्य रचनाः। शताधिकानां चलचित्राणां कृते गीतानि च असौ अरचयत्।

पुत्तेषन् पुरस्कारः, कवनकौतुकं पुरस्कारः, गुरु चेङ्ङन्नूर् स्मारक साहित्यपुरस्कारं च अयमलभत।
तिरुक्करल् विवर्तनस्य कृते तिरुवनन्तपुरं तमिल् सङ्घस्य उल्लूर् स्मारक पुरस्कारः, तमिल् नाटु सर्वकारस्य विशिष्टसाहित्यपुरस्कारश्च अनेन अवाप्तः।

ओण्लैन् कक्ष्या इतः परम् अनुस्यूता स्यात्, निर्धनानां छात्राणां कृते नूतनया परियोजनया सह मम्मूट्टी।

कोच्ची- पेशलदूरवाण्याः अभावेन अध्ययनं स्थगितानां छात्राणां कृते स्मार्ट-फोण् दानार्थं विख्यातः चलच्चित्रनटः मम्मूट्टीवर्यः काचन परियोदना समारब्धवान्। गृहेषु विना उपयोगं न्यस्ताः पेशलदूरवाण्यः सञ्चय्य इयं समस्या परिहर्तुं शक्यते इति तेन उक्तम्।

स्मार्ट फोण् विना पठितुमशक्ताः बहवः छात्राः भवेयुः। युष्माकं गृहे अधुना अनुपयुज्यमानाः पेशलदूरवाण्यः, टाब्लट्, अंगसंगणकः इत्यादयः तेभ्यः उपकारप्रदाः स्युः। विश्वे यत्र कुत्रापि स्थित्वा तानि प्रत्यर्पयितुं शक्यन्ते। तानि गुणभोकितृभ्यः प्रापयिष्यति नूनम् इति मम्मूटिट अवदत्।
एतानि स्पीड् आन्ट् सेफ् कोरियर् द्वारा प्रेषयितुं शक्यते। एतदर्थं प्रेषणमूल्यं न दातव्यम्। दातारः मोबैल् केयर् आन्ट् शेयर् कार्यालयं प्रति एतानी प्रेषयेयुः। ततः एतानि अवश्यानुसारं छात्रेषु वितरिष्यति।

तया – इति संस्कृतचलच्चित्रम्।

केरलीय नम्पूतिरुकुलं बहोः कालात् सवर्णतायाः तद्वारा जातायाः सामाजिकसमस्यायाः च मुद्रणत्वेनैव सूचितम् आसीत्। तदानीं हीनाः अवगणिताः वा जीविताः भवन्ति तत्रस्थानां नारीणाम्।

गृहान्तर्भागे हुतं तासां जीवितं बाह्यलोकः नाजानत्।स्त्रीणां जीवनं सुसम्पन्नं भवेत् इति तीव्रया आशया एव वी.टी. भट्टतिरिप्पाट् प्रभृतयः तत्कुलजाः कुलनवीकरणार्थं परिश्रमं कृतवन्तः आसन्। तात्रिक्कुट्टी इति तत्कुलजा महिला स्मार्तविचारा कल्पिता इति इतिहाससम्भव एव।

नाटकं चलच्चित्रं प्रभृतिषु कलारूपेषु तात्रिक्कुट्टीति महिलायाः जीवनम् आविष्कृतं वर्तते। तस्याः जीवने स्वतन्त्रः व्यत्यस्तश्च वीक्षणकोणः तया इति चलच्चित्रे दृश्यवत्कृतः अस्ति। इतः पर्यन्तं श्रुत्वा पठित्वा च ज्ञातात् तात्रिक्कुट्याः जीवनात् भिन्नं भवति तया इति चलच्चित्रे। स्वबुद्धिसामर्थ्येन कुलान्तर्गतान् नीचान् सा पर्यत्यजत्। तस्याः प्रतिकारचिन्ता न केवलं तस्याः कृते अपि च स्वकुलान्तर्गतानां स्त्रीणां कृते आसीत्। समाजे उन्नतान् इति स्वयं अहंकृतं नम्पूतिरिकुलं स्त्रीणां प्रति सूचितं विवेचनं सामाजिकवैरुध्यमेव । तस्य वैरुध्यस्य मौलिकम् आविष्कारं भवति *तया* इति चलच्चित्रम्।

जी. प्रभा महोदयः कथा, पटकथा सम्भाषणं निदेशनं च निर्वहति। गोकुलं गोपालन् वर्यः निर्माता भवति। नेटुमुटि वेणुः, बाबु नम्पूतिरिः, नेल्लियोट् वासुदेवन् नम्पूतिरिः, दिनेश् पणिक्कर्, अनुमोल्, रेवती सुब्ह्मण्यं प्रभृतयः अभिनेतारश्च भवन्ति।

जालाधारिताध्ययनार्थम् अन्तर्जाललभ्यता- सेवनदातृभिः सह अद्य चर्चा

रुवनन्तपुरम्- अन्तर्जालसेवनदातृभिः सह मुख्यमन्त्रिणः चर्चा अद्य भविष्यति। प्रातः दशवादने आधिजालिकी भवति चर्चा। अङ्कीयशिक्षारंगे जालसंयोगसमस्यां चर्चितुमेव अधिवेशनम्।

अन्तर्जालस्य वेगसमस्या भूरिशान् छात्रान् बाधते इति विविधेभ्यः निरीक्षणेभ्यः व्यक्तं भवति स्म। ग्रामीणक्षेत्रे गिरिवर्गक्षेत्रे च एषा समस्या अधिका इत्य़तः अधुना परिहारार्थम् अधिवेशनम् आयोजयति।

सर्वेभ्यो आन्तरजालसंयोगे लब्धे एव आधिजालिकाध्ययनं प्रति पूर्णतया प्रवेशनं भविता इति सर्वकारः असूचयत्। छात्राणाम् अध्ययनाय आवश्यकी अन्तर्जालसुविधा न्यूनशुल्कं निश्शुल्कं वा प्रदेयमिति सर्वकारस्य अभ्यर्थनायमपि अद्य निर्णयः भविष्यतीति सूच्यते।

राष्ट्रे प्रतिरोधकौषधनयः परिवर्त्यते।

नवदिल्ली- राष्ट्रे प्रतिरोधकौषधनयः परिवर्त्यते इति प्रधानमन्त्रिणा उक्तम्। एतदनुसारं १८ वयसः ऊर्धं सर्वेभ्यो निःशुल्कं प्रतिरोधकौषधं दीयते। एष प्रक्रमः जूण् २१ दिनाङ्के आरब्स्यते। विदेशेभ्यो वाक्सिन् स्वीकृत्य केन्द्रसर्वकारः राज्येभ्यो निःशुल्कं दीयते इत्यपि प्रधानमन्त्रिणा निगदितम्।

२५ प्रतिशतं वाक्सिन् निजीय चिकित्सालयेभ्यः दीयते। एतत् राज्यसर्वकाराणां निरीक्षणे एव स्यात्। ७५प्रतिशतं वाक्सिन् केन्द्रसर्वकारस्य निरीक्षणे राज्येभ्यो वितीर्यते।

गत शतकाभ्यन्तरे राष्ट्रे समापन्ना महाविपत् भवति कोविड् १९। अस्माकं राष्ट्रं एकमनस्कया तां महामारीं प्रतिरोद्धुं उत्सहते इति मोदीवर्यैण सूचितम्। रोगस्यास्य द्वितीयतरङ्गे प्राणवायोः दौर्लभ्यं परिहर्तुं वयं सक्षमाः आसन्।

कोविड् महामारीं नियन्त्रयितुम् उत्तमोपायं भवति कोविड् मानदण्डानां पालनम्। कोविडं प्रतिरोद्धुं सुरक्षाकवचं भवति वाक्सिन्। विश्वे जनानाम् आनुपातिकत्वेन वाक्सिन् नोत्पाद्यते। यदि वयं वाक्सिन् उत्पादने प्रवृत्ताः नाभविष्यत् तर्हि राष्ट्रस्य स्थितिः दयनीया अभविष्यत् इत्यपि तेन उक्तम्।

बालानां कृते पृथक् वाक्सिनस्य निर्माणं पुरो गच्छतीत्यपि प्रधानमन्त्रिणा राष्ट्रमभ्संबुध्य अवदत्।

जालाधारितकक्ष्यायाः अन्तर्जालदत्तसामग्रीव्यये भारत-सञ्चार-निगमस्य साहाय्यम्।

तृशूर्- जालाधारित(ओण्लैन्)कक्ष्यासु अन्तर्जालदत्तसामग्री उपभोगःअधिकः इत्यतः रक्षितारः क्लेशमनुभवन्ति। तत्परिहारार्थं बी.एस्.एन्.एल्. इति संस्था उपायमन्विष्यति। छात्राणां कृते विशेषाचयरूपेण अधिकदत्तांशदानम् लक्ष्यीकृत्य संस्थायाः केरलघटकः दिल्लीस्थं समामेलनकार्यालयं प्रति निर्देशरूपं पत्रं प्रैषयत्।

ओण्लैन् शिक्षारंगे केरलानाम् प्रामाण्यम् अभिनन्दनार्ह एव, तत् प्रोत्साहयितुं भारत-सञ्चार-निगमः सदा सहैव स्थास्यतीति केरलघटकस्य मुख्यप्रबन्धकः विनोद् वर्यः अवदत्।
छात्रेषु जङ्गमदूरवाण्यां दत्तांशम् उपभोक्तुकामानां तथा FTTH इति सङ्केतद्वारा दत्तांशमुपभोक्तुकामानाञ्च गुणप्रदरूपेणैव परियोजनांं विदधाति। छात्राणां कृते पृथक् आचयरूपेणैव एष निर्देशः भविष्यति।

अधुना दत्तांशस्य पुनःपूरणेन प्रतिदिनं होराद्वयपर्यन्तमपि ओण्लैन् कक्ष्याप्रवेशः असाध्यः इत्यतः रक्षाकर्तारः छात्राश्च महान्तं क्लेशमनुभवन्ति। तस्यपरिहारं अचिरेण साध्यं भविष्यतीति अनेन प्रत्याशा भवति।

अजित् प्रसाद् वर्यः कोविडेनापहृतः।

केरल-संस्कृताध्यापक-फेडरेशन् इति शिक्षकसंघस्य सर्वकारीयविभागे महासचिवः तथा कोल्लं कुलत्तूपुषा सर्वकारीण-उच्चतरविद्यालये अध्यापकश्च श्रीमान् पी.जी. अजित् प्रसाद् वर्यः कालयवनिकामगात्। कोविड् बाधया एकस्मिन् निजीय चिकित्सालये चिकित्सायामासीत्।

संस्कृतभाषायाः कृते जीवन् स आजीवं संस्कृतप्रचारणे, संस्कृताध्यापकानां समस्यादूरीकरणे च बद्धश्रद्धः आसीत्। संघस्य सचिव इत्यतः सर्वकाराधिकारिभिः नितरां सम्पर्केण स संस्कृतक्षेत्रे अविस्मरणीयः अभवत्। शास्तांकोट्टा डी.बी. कलालयात् स्नातकोत्तरबिरुदं सम्पाद्य स संस्कृतशिक्षकक्षेत्रं प्रविष्टवान्। संस्कृतपाठपुस्तकसंरचनायां स भागभागभवत्। कैट् विक्टेस् नालिकाद्वारा संस्कृतपाठस्य संप्रेषणाय नितरां स प्रयतितवान्। तस्य देहवियोगः संस्कृतक्षेत्रे महानष्ट एव।
महाशयस्यास्य निर्याणे नववाणीसंघस्य अनुशोचनम् अर्पयामः।

चिप्को आन्दोलननायकः सुन्दर्लाल् बहुगुण वर्यः दिवमगात्।

नवदिल्ली- भारते श्रद्देयः परिस्थितिप्रवर्तकः तथा चिप्को आन्दोलनस्य नायकः, अहिंसा सत्यग्रहः इत्यादीनां गान्धीचिन्तानाम् अनुकर्ता च सुन्दर् लाल् बहुगुण वर्यः कालयवनिकामगात्।

हिमालयसानुषु वनसंरक्षणार्थं बहुकालं स रणमकरोत्। चिप्को आन्दोलनद्वारा जनैः सह आराष्ट्रं परिस्थितिसमस्याविषये प्रक्षोभकार्यक्रमान् व्यतनोत्। वननशीकरणं, जलबन्धः, भूखननं इत्यादि विषये आसीत् तस्यवप्रक्षोभः।

२००९ तमे वर्षे पद्मविभूषण् पुरस्कारेण राष्ट्रं तम् अभ्यनन्दयत्। कोविड् बाधया ऋषिकेशे आसीत् तस्य मृत्युः।