Category Archives: News Updates

अद्य अध्यापकदिनम्, सेवानिरतान् अध्यापकान् समादरिष्यामः।

तिरुवनन्तपुरम्- अद्य सेप्तम्बर् ५ दिनाङ्कः। अयं दिवसः शिक्षकदिवसत्वेन आराष्ट्रम् आचर्यते। राष्ट्रपतिचरस्य डो एस् राधाकृष्णन् वर्यस्य जन्मदिवसमेव शिक्षकदिनत्वेन निश्चितम्।

केरलसर्वकारेण प्रतिवर्षम् अस्मिन् दिने विशिष्टसेवापुरस्कारेण राज्यस्थाः शिक्षकाः आद्रियन्ते। अस्मिन् वर्षेपि प्राथमिकस्तरे १४, उच्चविद्यालये १४, उच्चतरविद्यालये ७, वि एच् एस् इ तले ५ च अध्यापकेभ्यो विशिष्टसेवापुरस्काराः घोषिताः।

सर्वेभ्यो अध्यापकेभ्यो शुभशंसाः।

केरलेषु अचिरेणैव विद्यालयानां प्रवर्तनं पुनरारप्स्यति, विदग्धसमितिं नियोक्ष्यति इति शिक्षामन्त्री।

तिरुवनन्तपुरम्- राज्यस्थाः विद्यालयाः अचिरेणैव प्रवर्तनसज्जाः भविष्यन्ति। तदर्थं प्रायोगिकतां निरीक्षितुं विदग्धसमितिं नियोक्ष्यतीति शिक्षामन्त्रिणा वी शिवन् कुट्टि वर्येण निगदितम्।

समितेः अभिवेदनं परीक्ष्य मुख्यमन्त्रिणा साकं चर्चां च विधास्यन्नेव निर्णयः स्वीकरिष्यति।

राज्ये कोविड् रोगव्यापनस्य आधिक्ये आशङ्का नावश्यकी। रविवासरे पिधानं तथा रात्रौ निरोधनाज्ञां च विहाय विद्यालयान् पुनरुद्घाट्य जनजीवनं साधारणरूपेण नेतुं शक्यते इति मुख्यमन्त्रिणा समायोजिते अधिवेशने अन्ताराष्ट्रतले विदग्धाः निर्दिशन्ति स्म। तदनुसारमेव शिक्षामन्त्रिणः प्रस्तावना।

संस्कृत दिनाचरणम्- पालक्काट्।

पालक्काट्र – लसंसकृताद्ध्यापकफेडरेषन् संस्थायाः दायित्वे पालक्काट् जनपदस्तरीय संस्कृत दिनाचरणम् समायोजितम्। भारतीयसंस्कृतेः प्रत्यभिज्ञानं संस्कृत पठनेन स्वायत्तीकर्तुं शक्यते इति उत्तराखण्डराज्यस्थ केन्द्रीय संस्कृत विश्वविद्यालयस्य वैदिकविभाग प्राध्यापकः डोः अमन्दमिश्रमहोदयः स्वीयोद्घाटनभाषणेऽब्रवीत् । संस्कृतं संस्कृतेनैव पठनस्य पाठनस्य च आवश्यकतां अधिकृत्य केरलसर्वकारीय महाविद्यालयीय ज्योतिषविभागस्थ प्राध्यापकः डोः सुधीष् ओ एस् महाभागोवदत्। पालक्काट् डयट्संस्थायाः प्राचार्यः श्री के एन् सोमराज महाशयः विशिष्ठातिथि रूपेणोपस्थितः। श्री अनिल् कोन्नेलिक्कल् महोदयेन विरचितं मञ्जुभाषिणीति गीतं आलप्य मेलने प्रकाशितम्। केरलसंसकृताद्ध्यापकफेडरेषन् संस्थायाः प्रान्तीयाध्यक्षः श्री पि पद्मनाभः महाशयः, प्रान्तीयोपाध्यक्षः श्री के के राजेष् महोदयः, जनपदाध्यक्षः श्री एस् भास्करः, श्रीमति रचिता, श्रीमति सुजाता, श्रीमति राखी इत्येते स्वाभिमतान् प्रकटितवन्तः । १२ जनपदेभ्यः संस्कृतशिक्षकाः भागं स्वीकृतवन्तः। जनपदस्तरीय शैक्षणिक अधिकारिणः अपि भागं स्वीकृतवन्तः।

सम्पादकः राजकृष्णः।

प्रतिकृतिः।

डो. निधीष् गोपी वर्येण प्रस्तुतं प्रतिकृतिः इति चलच्चित्रं हृद्यं कञ्चन दृश्यानुभवम् अस्मभ्यं ददाति। चलच्चित्रस्यास्य कथा, पटकथा, सम्भाषणं, गीतानि, निदेशनं च डो. निधीष् गोपीवर्येण समासादितम्। संस्कृतमजानानां साधारणानामपि अवगमनार्थं ललिता शैली अत्र स्वीकृता वर्तते। चलच्चित्रमिदं पश्यन्तः वयम् अजानाना एव होराद्वयं पर्यवस्यति। अस्माकं भाषणशैल्यां संस्कृते भाषमाणे एषा मलयालभाषा वेति सन्देहः प्रेक्षकाणां मनसि जायेत। कथा पटकथा सम्भाषणं गीतानि अभिनयश्च उत्कृष्टानि एव।

प्रसाद् मल्लिश्शेरीवर्यस्य रामकृष्णः, निपिन् उण्णी वर्यस्य आदित्यः, चिन्मयी रवि वर्यायाः उत्तरा अखिल् वेलायुधस्य दिनेशः इत्यादीनि कथापात्राणि मनसि निहितानि सन्ति। सुनिल् सुखदा वर्यस्य केशवन् नायर् इति पात्रमपि अत्युत्तमं भवति।

संस्कृतभाषोपासकानाम् एतादृशम् अधिकव्यययुक्तं प्रवर्तनं श्लाघनीयं प्रोत्साहनीयं च भवति खलु। तदस्माकं कर्तव्यमेव। दृश्यकाव्यमिदं जनाः परमतः पश्येयुः। तद्वारा संस्कृतम् अस्माकं सर्वेषां भाषा इति प्रतीतिः जनमनसि जायेत।
चलच्चित्रस्यास्य रङ्गे नेपथ्ये च प्रवर्तितेभ्यः सर्वेभ्यः शुभाशंसाः।

अद्य श्रीनारायणगुरुजयन्ती।

तिरुवनन्तपुरम्- नवोत्थाननायको योगिवर्यः नारायणगुरुदेवः युक्तिभद्रतां द्रढीकृतवान् महान् योगी आसीत्। जाति-धर्मभेदानुसारं जनेषु उच्चनीचत्वं संस्थापिते समाजे देवदूत इव समागतवान् गुरुदेवः। सिंहमासे शतभिषक् नक्षत्रे भूजातस्य अस्य जयन्ती प्रतिवर्षं सिंहमासे शतभिषक् नक्षत्रदिने एव समाचरन्ति। अतः दिवदर्शिकानुसारं निश्चिते वासरे आचरितुं न शक्यते।

एका जातिः एको धर्मः एको देवः मनुष्याणाम्, धर्मः यःकोपि भवतु, मानवस्य उत्कृष्टता एव मुख्या, मनुष्याणां मनुष्यत्वं जातिर्गोत्वं यथा गवि इत्यादिभिः उद्घोषणैः स जनान् उदधारयत्।

अस्य महाशयस्य जयन्तीसमारोहे सर्वेभ्यो शुभाशयाः

श्रीमान् एस् श्रीकुमारः सार्वजनीनशिक्षाविभागे संस्कृत अक्कादमिक समितेः राज्यस्तरीय कार्यदर्शी।

तिरुवनन्तपुरम्- सार्वजनीनशिक्षाविभागे संस्कृतस्य कृते मण्डलस्थलेषु उपमण्डलस्थलेषु च संस्कृत अक्कादमिक समितेः प्रवर्तनानि प्रचलन्ति वर्तन्ते। एषां संयोजकत्वेन राज्यस्तरे एकः कार्यदर्शी विद्यते। अस्मिन् वर्षे एतस्मिन् कार्यदर्शिपदे तिरुवनन्तपुरं देशस्थः श्रीमान् एस् श्रीकुमारः चितो वर्तते।

एष महोदयः तिरुवनन्तपुरं मण्डले पारश्शाल उपमण्डले कारक्कोणं पी.पी.एम्. उच्चविद्यालये संस्कृतशिक्षकः भवति। बहुकालं यावत् स मण्डले उपमण्डले च कार्यदर्शिपदे प्रवर्तनं कुर्वन्नासीत्।

राज्य शैक्षिकानुसन्धान प्रशिक्षण परिषदः प्रशिक्षणकार्यक्रमे विशेषज्ञः, पाठपुस्तककर्मशालायां अङ्गं नववाणी सम्पादकसमित्यङ्गम् इत्यादिषु अस्य प्रवर्तनं बहूपकारकमस्ति। कैट् विक्टेस् नालिकाद्वारा विद्यालयीयछात्राणां कृते ओण्लैन् कक्ष्या अपि अनेन गृहीता।

राज्यस्तरीय संस्कृतसमित्याः कार्यदर्शिपदं प्राप्तस्य श्रीकुमारस्यलकृते नववाणि संघस्य अभिनन्दनानि।

महाबलिप्रशस्तिगीतं संस्कृतेsपि।

कोल्लम्- श्रावणोत्सवकाले केरलीयानां मावेलिप्पाट्ट् इति महाबलिप्रशस्तिगीतं संस्कृतेन गायन्त्यौ द्वे बालिके जनानां मनांसि हठादाकर्षतः। माबलिशासनकाले देशे मानवास्सर्वे समाना एव इति अद्वैतायाः अतिथेश्च गानं श्रुत्वा मलयालभाषाकुतुकिनः चकितचित्ताः जायन्ते।

अद्वैता अतिथी च युगलबालिके स्तः। दशमकक्ष्या छात्रे भवतः एते। पालक्कुलङ्ङर भगिन्यौ इति प्रथिते एते। संगीते अतुल्यप्रतिभे एते अस्मिन् वर्षे संस्कृतमावेलि गानेन साकं जनान् अभिमुखीकुर्वतः।

एरणाकुलं जिल्ला शिक्षकप्रशिक्षण संस्थायाम् अध्यापकत्वेन वृत्तिं कुर्वन् वृत्तिविरतः मुत्तलपुरं मोहन्दास् वर्यः एव मावेलिगानं संस्कृतेन अनूदितवान्।

 

Video… Click here

केरले एकादशकक्ष्या प्रवेशाय नामाभिलेखनम् आगस्त २४ प्रभृति।

तिरुवनन्तपुरम्- एकादशकक्ष्या(प्लस् वण्) प्रवेशाय नामाभिलेखनम् अस्मिन् मासे २४ तमे दिनाङ्के प्रारभते। प्रक्रियेयं जालाधारिता भवति। पूर्वं श्वः समारम्भाय निश्चितं परन्तु तन्त्रांशस्य परिष्करणाय समयम् अपेक्षितम् इत्यतः स निर्णयः परिवर्तितः। ओणोत्सवात् परं परिष्कृतः तन्त्रांशः उपलब्धः स्यात् इत्यतः २४ तमे दिनाङ्के निश्चितम्।

कस्मिन्नपि क्रमे छात्राः न्यूना चेत् स क्रमः परिवर्त्य अन्यस्मै मण्डलाय दीयते। यत्र छात्रानुपातिकत्वेन क्रमाधिष्ठानं नास्ति चेत् तत्र अतिरिक्ततया अधिष्ठानं परिकल्प्यते।

उदूढसुरक्षया राष्ट्रम् अद्य ७५ तमं स्वतन्त्रतादिवसम् आचरति।

नवदिल्ली- पञ्चसप्ततितमस्य स्वतन्त्रतादिवसस्य समाचरणाय राष्ट्रं सज्जमभवत्। रविवासरे प्रातः सार्धसप्तवादने लोहितदुर्गे प्रधानमन्त्री नरेन्द्रमोदीवर्य राष्ट्रियध्वजम् आरोपयिष्यति। केन्द्रियमन्त्रिणः विविधाः सेनामेधावयश्च भागं गृहीष्यन्ति।

भीषायाः भूमिकायां दृढा सुरक्षा राजधान्यां परिकल्पिता। लोहितदुर्गं बहिः स्थित्वा वीक्षितुम् अशक्यरूपेण भारवाहियानैः आच्छादितं वर्तते। पुरातनदिल्यां वाणिज्यसंस्थानानि पिहितानि दृश्यन्ते।

सायुधसेनाविभागाः लोहितगुर्गं परितः विन्यस्ताः। प्रातः चतुर्वादनात् दशवादनपर्यन्तं लोहितदुर्गमं परितः रथ्यायां वाहनानि निरुद्धानि।

– संस्कृतचलचित्रं- मधुभाषितम्- संस्कृतदिने समारभते।

तिरुवनन्तपुरम्- विश्वाभिलेखमुपलक्ष्य निर्मीयमाणस्य संस्कृतचलचित्रस्य मधुभाषितम् इत्यभिधस्य चित्रीकरणं राष्ट्रिय संस्कृतदिने (ओगस्त २२ दिनाङ्के) समारभते।SGISFSY PRIDUCTIONS इत्यस्य केतने सान्स्क्रीट् फिलिं सोसैट्टी केरलराज्य चलचित्र विकास निगमस्य(KSFDC) सहयोगेनैव चलचित्रं निर्मीयते। बालकानां कृते निर्मितस्य प्रथम संस्कृतचलचित्रस्य मधुरस्मितस्य निदेशकः सुरेष् गायत्री वर्य एव अस्यापि निदेशकः।

आयुर्वेदस्य महत्वमुद्घोषयतः अस्य चलचित्रस्य गीतानि जालाधारितरूपेण चित्रीक्रियन्ते।

चलचित्रस्यास्य पटकथा प्रसाद् पारप्पुरम् अस्ति। मुत्तलपुरं मोहन् दास्, हरिप्रसाद् कटम्बूर् इत्येतयोः गीतानां संगीतनिदेशनं अरुण् व्लात्ताङ्करा एव।

रेवती, अलीनिया ऐफुना अञ्जना प्रभतयः अभिनेतारः प्रधानकथापात्राणि अवतारयन्ति। चलचित्रमिदं शिशुदिने प्रदर्शनार्थम् उद्दिश्यते।