Category Archives: News Updates
साङ्केतिकविद्या न तु विनाशाय विकासाय उपयोक्तव्या – प्रधानमन्त्री।
रियाद्- साङ्केतिकविद्या लोकक्षेमाय तथा विकासाय च उपयोक्तव्या, न तु विनाशाय इति प्रधानमन्त्री नरेन्द्रमोदी अवदत्। दुबाई राष्ट्रे आरब्धं विश्व-सर्वकार-शिखरसम्मेलनम् उद्घाटयन् भाषमाण आसीत् सः। १३९ राष्ट्रेभ्यः प्रतिपुरुषाः शिखरमेलने भागमभजन्त।
साङ्केतिकविद्यया साधारणजनाः प्रबलीकृताः। विकासप्रयाणान्तरे दारिद्र्यं पोषकन्यूनता च सम्पूर्णतया न उन्मूलयितुं प्राभवत्। प्रक्षेपास्त्र-भुषुण्डिप्रभृतीनां सम्भाराय प्रभूतं धनं निॆक्षिपन्ति राष्ट्राणि इति प्रधानमन्त्री आशङ्कां प्राकटयत्। चतुर्दिवसीयस्य पश्चिमेष्या सन्दर्शनस्य भागत्वेन दुबाई राष्ट्रं प्राप्तः आसीत् प्रधानमन्त्री।
कठोरशैत्येन हिमयुगस्यागमनम्, कठोरनिदाघस्य अवसानम् इति च पठनम्।
कालिफेर्णिया – कठोरनिदाघस्य कालः अवसीयते, विंशति वर्षाणि यावति गवेषकाणां पठनस्य फलमागतम्। कठिनशैत्यस्य कालम् इतःपरम् आगच्छदस्ति। सूर्यस्य ध्रुवद्वयेपि जायमानानां तरङ्गानां परस्परसङ्घर्ष एव तापमाने न्युनतायाः कारणम्। २०५० वर्षमिते सूर्यप्रकाशस्य म्लानता सञ्जायते सुर्यः सप्तप्रतिशतं शैत्ययुक्तश्च भविता। सोलार् माक्सिमं, सोलार् मिनिमम् इति घट्टद्वययुक्तात् ११ वार्षिकचाक्रिकक्रमाणैव सूर्यः अधुना सञ्चरति। इतःपरं सोलार् मिनिमं इति प्रतिभसं सूर्यः प्रविशति। एतदेव हिमयुगस्य कारणभूतम्।
केरले उच्चन्यायालये मुख्यन्यायाधीशत्वेन आन्टणी डोमनिक् शपथं कृत्वा पदवीमावहत्।
कोच्ची- केरलोच्चन्यायालयस्य मुख्यन्यायाधीशत्वेन आन्टणी डोमनिक् वर्यः शपथमकरोत्। राजभवने आयोजिते समारोहे राज्यपालः ज.पी.सदाशिवं वर्यः सत्यवाचकेन सह शपथमकारयत्। मुख्यमन्त्री पिणरायि विजयः मन्त्रिणः उच्चन्यायालयस्थाः न्यायाधिपाश्च सन्निहिताः आसन्। कार्यकर्तृमुख्यन्यायाधिशत्वेन कर्म कुर्वन्तं डोमनिक्वर्यं गतदिने मुख्यन्यायाधीशरुपेण नियोज्य राष्ट्रपतिना विज्ञापनं कृतमासीत्। सप्तदशवर्षानन्तरमेव कश्चन केरलीयः केरले मुख्यन्यायाधीशो भवति।
कोच्ची मेट्रो संस्था प्रतिदिनं १८ लक्षं रूप्यकाणां नष्टे प्रवर्तते।
कोच्ची- मेट्रो प्रतिदिनं १८ लक्षं रूप्यकाणां नष्टे प्रवर्तते इति मुख्यमन्त्री पिणरायि विजयः। नियमसभायां वी.के. इब्राहिं कुञ्ञ् वर्यस्य प्रश्नानां प्रतिवचनरूपेण इदमुक्तं मेट्रोसंस्थायाः कृते चिटिकेतर आयः अन्वेष्टुं निर्देशाः लब्धाः इति च सो/वदत्। मेट्रे रेल स्तूणासु विज्ञापनानि प्रदर्शयितुं समया दत्ता राष्ट्रियरथ्यापार्श्वेषु विज्ञापनानि प्रदर्शयितुमपि अनुमतिः लब्धा इत्यपि मुख्यमन्त्री अवदत्।
अशान्तस्य मृतदेहं प्रति अनादरः, एतादृशी घटना नावर्तनीया। प्रोफ. एम्.के. सानू।
कोच्ची – अशान्तः इति चित्रकारस्य मृतदेहं प्रति जातः अनादरः असहनीय एव। एतादृशाः सम्भवाः इतः परं न आवर्तनीय इति प्रोफ. एम्.के. सानूवर्यः। सास्कृतिकलोकाः एतादृशान् सम्भवान् प्रति जागरूकाः भवेयुरिति स अवदत्।
एतादृशः अनादरः नाङ्कीकर्तुं शक्यते। कस्यचन अनुगृहीतकलाकारस्य मृतदेहः ललितकला अक्कादमीं विहाय कुत्र प्रदर्शयितुं शक्यते इति स अपृच्छत्। मन्दिराधिकारिणः एतादशात् विरुद्धकार्यात् प्रतिनिवर्तनीयाः इत्यपि स असूचयत्।
कविवर्यं कुरीप्पुष श्रीकुमारं प्रति आक्रमणम्, दृढकर्मस्वीकारार्थं मुख्यमन्त्री रक्षिदलं निरदिशत्।
कोल्लम् – कुरीप्पुष श्रीकुमारवर्यं कश्चन सङ्घः प्रतिरुरोध। कोल्लं कटक्कल् समीपे कोट्टुङंकल् देशे एव तं कविवर्यं प्रति आक्रमणं जातम्। कोट्टुक्कल् ग्रन्थालयेन आयोजिते सामान्याधिवेशने भाषणार्थमागत आसीत् कविः।
वटयम्पाटी जातिसमरमनुबन्ध्य स अधिवेशने भाषितवानासीत्। भाषणानन्तरम् आगतैः कैश्चन जनैः स प्रतिरुद्धो/भवत्। सङ्घर्षे जाते ग्रन्थालयप्रवर्तकाः आगत्य तं ततः बहिरानयत्। तथापि ईदृशानि प्रवर्तनानि असहनीयानि इति मत्वा स तान् आक्रमणकारिणः विरुद्ध्य रक्षिदलाय आवेदनमदात्। अत एव मुख्यमन्त्रिणः अयमादेशः
पण्यसेवाकरं प्रति रूक्षविमर्शनेन सह मुख्यमन्त्री।
तिरुवनन्तपुरम्- केन्द्रप्रशासनेन प्रवृत्तिपथमानीतं पण्यवस्तुसेवाकरं विरुध्य केरलमुख्यमन्त्री पिणरायि विजयः अभाषत। पण्य वस्तुसेवाकरस्य प्राबल्येन सामान्यजनानां जीवनं दुस्सहमभवत् राष्ट्रे आर्थिक अराजकत्वं प्रचलतीति च स उक्तवान्।
मार्क्स् वादी साम्यवादी दलस्य तिरुवनन्तपुरं जनपदाधिवेशनम् उद्घाटयन् भाषमाण आसीत् सः। जी.एस्.टी. प्राबल्येन आर्थिकगतिः अधस्तात् जाता। अतः साधारणजनानां प्रयोजकरूपेण वस्तुसेवाकरस्य पुनःक्रमीकरणम् आवश्यकमिति स उक्तवानासीत्।
अधस्तात् संलग्नेन मृतदेहेन साकं लोकयानं ७० कि.मी.दूरं गतम्।
बङ्गलूरु – वाहनस्य अधस्तात् संलग्नं मृतदेहमदृष्ट्वा चालकः बस् यानं ७० कि.मी. दूरं चालितम्। तमिल्नाटु कूनूर् तः बङ्गलूरु नगरं प्रति प्रस्थितं कर्णाटक परिवहण निगमस्य वातानुकूलितशयनयानमेव एवं यातम्। अस्मिन् प्रकरणे शान्तिनगर् यानास्थानस्थः चालकः मोहिनुद्दीन् नामकः रक्षिदलेन गृहीतः। तमिल् नाटु तः कर्णाटके चन्नपट्टणं प्राप्ते याने यानन्तर्भागात् घोररवमशृणोत् इति चालकः रक्षिदलमवदत्। अश्मसंघट्टनेन स्यात् रवमिति मत्वा पुनः प्रस्थित इति च चालको/वदत्। निस्थानं प्राप्तं बस्यानं यदा क्षालनाय नीतं तदा अधोभागे मृतदेहमपश्यत्। झटिति क्षालकः अधिकारिणं सूचयति स्म।
विख्यातः संस्कृतपण्डितः महाकविश्च मुतुकुलं श्रीधरः दिवं गतः।
मुतुकुलम्- प्रसिद्धः संस्कृतपण्डितः महाकविश्च श्रीमान् मुतुकुलं श्रीधर् वर्यः कालयवनिकामगच्छत्। संस्कृते कैरल्यां च नैकान् ग्रन्थान् प्रणीतवानयम्।
१९२६ जनुवरी २६ दिनाङ्के कायंकुलं समीपे मुतुकुलं देशे अयं जातः। वासुदेवन् नायर् गौरियम्मा च तस्य पितरौ। नीलकण्ठशर्मावर्यस्य शिष्यात् नारायणनाशान् वर्यात् अयं संस्कृतस्य बालपाठान् स्वायत्तीकृतवान्। मुतुकुलं संस्कृतविद्यालयात् प्रथमतया शास्त्री परीक्षाम् उत्तीर्णवानयम्। षोडशे वयसि संस्कृतविद्यालये अध्यापको जातः। अनन्तरं नववर्षपर्यन्तं सेनायां सेवनमकरोत्। पुनः प्रत्यागत्य अध्यापनरङ्गे एव निरतो/भूत्।
अस्य प्रथमां कवितां षोडशे वयस्येव प्रकाशितवान्। १९७६ तमे वर्षे केन्द्रसर्वकारसाहाय्येन नवभारतं नामकं अस्य प्रथमं संस्कृतमहाकाव्यं च प्रकाशितवान्। ततः विद्याधिराजविजयं, नायकाभरणम्, शुभानन्दगुरुदेवचरितम्, अमृतायनम्, धर्मस्थलीयम्, नीलकण्ठगुरुपादचरितम्, इत्येतानि महाकाव्यानि रचितवान्।अश्रुपूजा इति संस्कृतविलापकाव्यमपि अनेनैव प्रणीतम्।
कालिदासस्य मेघदूतं श्रीहर्षस्य नागानन्दं चायं कैरल्यामनूदितवान्। कैरलीभाषाव्याकरणम् अलङ्कारशास्त्रं चाधिकृत्य प्रक्रियासागरः अलङ्कारप्रदीपिका चेति ग्रन्थद्वयं प्रणीतवानयं यदस्य पाण्डित्यप्रकाशकं भवति। अस्य विशिष्टे कृती भवतः श्रीनारायणगुरुदेवचरितामृतम् विद्याधिराजचरितामृतं च।
१९७७ तःअनुस्यूततया एकदशककालं यावत् आकाशवाणीतः सुभाषितानि अवतारितवानयम्।
आदिकविपुरस्कारः,तुलसीवनपुरस्कारः, कविराजपुरस्कारः पण्डितरत्नपुरस्कारश्च अनेन प्राप्तः। परन्तु केन्द्र,राज्यसर्वकाराणाम् अङ्गीकारः अनेन न प्राप्तः इति खेदकर एव।
पद्मावत् चलच्चित्रं रजपुत्राणां प्रतापस्य त्यागस्य च महत्वम् उपपादयति – कर्णिसेना।
दिल्ली- रजपुत्रान् अधिक्षिपतीति आरोपणमुन्नीय पद्मावत् इति चलचित्रं विरुद्ध्य अक्रमसङ्घर्षाः प्रचलिताः आसन्। चलचित्रमदृष्ट्वा प्रतिषेधं प्रकटितवन्तः अधुना चित्रं दृष्ट्वा प्रतिषेधात् विरमन्ति।
सञ्जय् लील बन्सालीवर्यस्य पद्मावत् इति चलच्चित्रं विरुध्य प्रक्षोभः समापयतीति रजपुत्रकर्णिसेनावक्तारः अवदत्। चित्रं कदापि सजपुत्रान् न अधिक्षिपतीति बोधेनैव प्रक्षोभमवसीयते इति ते अवदन्।












