Category Archives: News Updates

काञ्ची कामकोटिमठाधिपतिः स्वामी जयेन्द्रसरस्वती समाधिमाप्तः।

चेन्नै- काञ्ची मठाधिपतिः स्वामी जयेन्द्रसरस्वती दिवङ्गतः। काञ्चीपुरस्थे चिकित्सालये अद्य प्रातः आसीदन्त्यम्। श्वासकोशसम्बन्धः आमय एव निर्याणकारणम्। गतमासे १५ तमे दिनाङ्के स्वामी चिकित्सालयं नीतः । काञ्चीपुरस्थः ६९ तमः शङ्कराचार्यगुरुः आसीत् जयेन्द्रसरस्वती। १९३५ तमे वर्षे आसीदस्य जननम्। एको न विंशे वयसि सन्यासं स्वीचकार। १९५४ मार्च २२ दिनाङ्के काञ्चीस्थे मुक्तिमण्डपे स गुरोः मन्त्रदीक्षां स्वीचकार। आदिशङ्करस्यानन्तरं कैलासं मानससरोवरं च सन्दृष्टः काञ्चीमठाधिपतिः भवति जयेन्द्रसरस्वती स्वामी। १९७० तमे वर्षे काञ्चीतः पद्भ्याम् अटन् नेप्पाल् पर्यन्तं गतवानासीत्।

गौरी नेहायाः आत्महत्या, ट्रिनिट्टी लैसियं विद्यालयस्य अङ्गीकारं प्रत्याहरति।

कोल्लम्- कोल्लं ट्रिनिट्टी विद्यालयस्य प्रवर्तनानुमतिं प्रत्याहर्तुं शिक्षाविभागाधिकारिणा सर्वकाराय सूचना दत्ता। पूर्वमेव विद्यालयस्य विरोधरहितपत्रं(एन्.ओ.सी.) निरासयितुं शिक्षाविभागस्य कोल्लम् उपनिदेशिकया सूचना दत्ता आसीत्। विद्यालयस्था दशमकक्ष्याछात्रा गौरी नेहा नामिका गतमासे आत्माहूतिं कृतवती आसीत्। आध्यापिकानां पीडनमेव आत्महत्याकारणमिति आक्षेपः प्राचलच्च। शिक्षाधिकारिभि‌ः कृते अन्वेषणे स्थितिं विज्ञाय एव एषा प्रवृत्तिः। एतदनुसारम् आगामिनि अध्ययनवर्षादारभ्य विद्यालयस्य प्रवर्तनम् असाध्यं भवेत्।

यात्रिकाणाम् आश्रयाय स्वास्थ्यविभागस्य “मार्गदर्शक” पद्धतिः।

तिरुवनन्तपुरम्- यात्रिकाणां कृते आपत्कालिकवैद्यसाहाय्यार्थं केरलीय स्वास्थ्यविभागस्य नूतनी पद्धतिः भवति वषिकाट्टी(मार्गदर्शकः)। अपघते पतितानां तथा झटिति देहास्वास्थ्यमनुभूयमानानां च कृते प्रथमशुश्रूषां विधाय तेषां जीवरक्षणमेव पद्धतेः लक्ष्यम्।

     षट्सु जनपदेष्वेव प्रथमघट्टे पद्धतिः आरभते। स्वास्थ्यविभागः राष्ट्रिय-नगरारोग्यदौत्यस्य सहकारितया एव यात्रिकाणां कृते निश्शुल्कवैद्यसाहाय्यार्थं पद्धतिं याथार्थ्यं करोति। दीर्घदूरयात्रिकान् प्रादेशिकजनविभांश्च उद्दिश्य आसूत्रिता इयं पद्धतिः आपद्घट्टे एतादृशानां साहाय्यं विधास्यति।

     राज्यस्थेषु बस् निस्थानेषु रेल् निलयेषु एषां सेवनं लभेत। श्वः सायं अनन्तपुर्यां राज्यपरिवहणनिगमस्य बस् निस्थानस्थे मार्गदर्शककेन्द्रे राज्यस्तरीयम् उद्घाटनं केरल स्वास्थ्यमन्त्री के.के.शैलजा विधास्यति।

विख्याता चलचित्राभिनेत्री श्रीदेवी अन्तरगात्।

मुम्बै- बोलिवुड् अभिनेत्री श्रीदेवी दिवंगता। सा ५४ वयस्का आसीत्। शनिवासरे रात्रौ दुबाय् राष्ट्रे हृदयाघातेन आसीदन्त्यम्।

     मलयालं, तमिल्, तेलुगु, कन्नटा, हिन्दी प्रभृतिषु भाषासु सा अभिनेत्री आसीत्। शताधिकेषु चलचित्रेषु अभिनीय भारतस्य लेडी सूप्पर् स्टार् पदवीमारूढा श्रीदेवी १९७१ तमे वर्षे पूम्पाट्टा इति कैरलीचलचित्रे बालताररूपेण चलचित्रमण्डलमागता आसीत्। सा २६ मलयालचलचित्रेषु नायिका आसीत्।

     १९९७ तमे वर्षे अभिनयरंगात् विरम्य कञ्चित्कालम् अतिष्ठत्। पुनः २०१२ तमे वर्षे इङ्गीष् विङ्ग्लीष् इति चित्रद्वारा पुनः रङ्गं प्राविशत्। २०१७ तमे वर्षे/पि सा अभिनयरङ्गे निरता आसीत्। अस्याः भौतिकं देहम् अद्य मुम्बै नगरमानेष्यति।

नववाणी जालपुटस्य समादरः।

कासरगोड्- संस्कृताध्यापकफेटरेषन् इति सङ्घस्य राज्यस्तरीयाधिवेशने संस्कृतस्य आधुनिकीकरणप्रवृत्तानां महभागानां समादरः अभवत्। नववाणी जालपुटं, मोबैल् आप् इत्येतयोः समायोजकः सी.वी. जोस्, युवसंस्कृतपण्डितः तथा कविश्च हरिप्रसाद् कटम्पूर्, सम्प्रतिवार्ता इति जालपुटपत्रिकायाः मुख्यसम्पादकः हरिकुमार् अय्यम्पुषा इत्येते महाभागाः समारोहवेदिकायां पुरस्कारदानेन सह समादृताः।सङ्धस्यास्य द्विदिवसीयम् अधिवेशनं शनिवासरे समाप्तिमेष्यति।

भारतीयसंस्कृतिभण्डागारस्य कुञ्जिका भवति संस्कृतम् – चन्द्रशेखरः, आयविभागमन्त्री।

कासरगोड्- भारतीयसंस्कृतिभणडागारस्य कुञ्जिका भवति संस्कृतभाषा इति केरल आयविभागमन्त्री श्री. के चन्द्रशेखरवर्यः अवदत्। केरलसंस्कृताध्यापकफेडरेषन् इति सङ्ंघस्य वार्षिकम् अधिवेशन् कासरगोड् नगरे उद्घाटनं कुर्वन् भाषमाणः आसीत् मन्त्री। आराष्ट्रं भारतीयानाम् अभिमानभूतं भवति संस्कृतम्। अपि च भारतसंस्कृतेः चिह्नं भवतीयं भाषा। संस्कृतं विशेषभिभागानां भाषेति भणितिः अबद्धमूलिका भवति। सेदरभाषाः अपि स्नायत्तीकर्तुं वयं सिद्धाः भवेम। सर्वेपि संस्कृतभाषानिधीः लभेयुः। तदर्थं प्राथमिकतले अध्यापकनियुक्तिः भवेत् इति अभ्यर्थना सर्वकारः सानुभावं परिगणयिष्यति इत्यपि मन्त्री अवदत्। नियमसभा सामाजिकः एन्. ए. नेल्लिक्कुन्न् अध्यक्षः आसीत्।

प्राथमिकविद्यालये प्रथमाध्यापकनियुक्त्यर्थं योग्यतापरीक्षाविजयः अनिवार्यः

तिरुवनन्तपुरम्- राज्ये प्राथमिकविद्यालये प्रथमाध्यापकानां नियुक्तिः इतः परं योग्यतापरीक्षाविजयमनुसृत्यैव भविता। एतावत्पर्यन्तं वरिष्ठतानुसारमेव नियुक्तिरासीत्। केरल-दण्डधाराधर्मासनस्य(SAT) विधेरनुसृतमेव नियोगनियमस्य प्रबलीकरणाय सर्वकारः निरचिनोत्। शिक्षायाः स्तरोन्नतिमुद्दिश्य २००९ तमे वर्षे केन्द्रप्रशासनेन प्रोत्तीर्णे तथा २०११ तमे वर्षे राज्यप्रशासनेन अङ्गीकृते च शिक्षाधिकारनियमे अन्तर्भूता व्यवस्था एव इयमित्यतः नियमस्य प्रबलीकरणमिति सर्वकारवृत्तानां सूचना अस्ति।

पूर्वं ५० वयस्कान् अध्यापकान् योग्यतापरीक्षां विनैव प्रथमाध्यापकपदव्यां नियोजयति स्म। इतः परं केरल सामान्यसेवायोगस्य एषा परीक्षा अध्यापकैरुत्तारयितव्या। अयं नियमः उच्चविद्यालये पूर्वमेव प्रवर्तितः अस्ति।

तिरुवनन्तपुरम्- राज्ये प्राथमिकविद्यालये प्रथमाध्यापकानां नियुक्तिः इतः परं योग्यतापरीक्षाविजयमनुसृत्यैव भविता। एतावत्पर्यन्तं वरिष्ठतानुसारमेव नियुक्तिरासीत्। केरल-दण्डधाराधर्मासनस्य(SAT) विधेरनुसृतमेव नियोगनियमस्य प्रबलीकरणाय सर्वकारः निरचिनोत्। शिक्षायाः स्तरोन्नतिमुद्दिश्य २००९ तमे वर्षे केन्द्रप्रशासनेन प्रोत्तीर्णे तथा २०११ तमे वर्षे राज्यप्रशासनेन अङ्गीकृते च शिक्षाधिकारनियमे अन्तर्भूता व्यवस्था एव इयमित्यतः नियमस्य प्रबलीकरणमिति सर्वकारवृत्तानां सूचना अस्ति।

पूर्वं ५० वयस्कान् अध्यापकान् योग्यतापरीक्षां विनैव प्रथमाध्यापकपदव्यां नियोजयति स्म। इतः परं केरल सामान्यसेवायोगस्य एषा परीक्षा अध्यापकैरुत्तारयितव्या। अयं नियमः उच्चविद्यालये पूर्वमेव प्रवर्तितः अस्ति।

साहित्य अक्कादमी पुरस्काराः प्रख्यापिताः।

तृशूर्- केरल-साहित्य अक्कादमीपुरस्काराः प्रख्यापिताः। पी,के.पारक्कटव्, इय्यङ्कोट् श्रीधरन्, सी.आर्. ओमनक्कुट्टन्, ललिता लेनिन्, जोस् पुन्नापरम्पिल्, पूयप्पिळ्ळि तङ्कप्पन् इत्येते समग्रयोगदानार्थं पुरस्कृताः।

नोवल् -टी.डी.रामकृष्णन् (सुगन्धी एन्न आण्टाल् देवनायकी), कविता- सावित्री राजीवन्(अम्मये कुलिप्पिक्कुम्पोळ्), कथा- एस्. हरीष्(आदम्), नाटकम्- डो. साम्कुट्टी पट्टंकरी(लल्ल)साहित्यविमर्शः- एस्. सुधीष्, जीवनचरितम्-डो.चन्तविल मुरली, यात्राविवरणम्-डो. हरिकृष्णन्, विवर्तनम्-सी.एम्. राजन्, वैज्ञानिकसाहित्यम्- वी.पी.जोसफ् इत्येतेभ्य एव पुरस्काराः घोषिताः।

छात्राणां यात्राशुल्कं न वर्धापयति। वैयक्तिकलोकयानानं कर्मन्यासेन अवसितः

अनन्तपुरी- दिवसचतुष्टयं यावत् कर्मन्यासेन केरलीयान् महाकष्टे पातयित्वा पुनः अद्य कर्मन्यासं प्रत्यपाययत्। लोकयानस्वामिनः मुख्यमन्त्रिणा सह अनन्तपुर्यां कृते चर्चामेलने एवायं निर्णयो जातः। छात्राणां यात्राशुल्कं सपदि न वर्धापयति। कार्यमेतत् पुनरालोच्य निर्णयो भविता। इति मुख्यमन्त्री यानस्वामिनः अबोधयत्। तथापि जनानां क्लेशं परिगणय्यैव समरं प्रत्यपाययत् इति यानस्वामिनः अवदन्।

 

 

 

 

े

अरुविप्पुरे श्रीनारायणगुरुदेवेन कृता शिवप्रतिष्ठा सामाजिकविप्लवस्य कारणभूता अभवत्।

पत्तनंतिट्टा – अरुविप्पुरे श्रीनारायणगुरुदेवेन कृता प्रतिष्ठा सामाजिकपरिवर्तनस्य कारणभूता जाता इति मुख्यमन्त्री पिणरायि विजयः अब्रवीत्। केरलेषु ब्राह्मणेतराणाम् अर्चकरूपेण नियुक्ति एतस्यानन्तरफलत्वेन द्रष्टव्या इत्यपि सो/वदत्। पत्तनंतिट्टा माटमण् श्रीनारायणाधिवेशनस्य समापनसत्रम् उद्घाटयन्नासीत् मुख्यमन्त्री। केवलं ब्राह्मणानां कृते एव आराधनास्वातन्त्र्ययुक्ते कालघट्टे श्रीनारायणगुरुदेवः अरुविप्पुरे शिवप्रतिष्ठां व्यदधात्। एतत् कर्म सामाजिकविप्लवस्य निदानमभवत्। अस्मिन्नेव पथि चरन् सर्वेषां जातिविभागानां कृते अर्चनाय अवकाशः दत्तः इति मुख्यमन्त्री अवदत्।