Category Archives: News Updates

केरलराज्यस्य २०१८-१९ वर्षस्य कृते आर्थिकसङ्कल्पः प्रस्तुतीकृतः। शिक्षाक्षेत्रे नूतनी पद्धतिः।

तिरुवनन्तपुरम् – केरलस्थान् सामान्यविद्यालयान् श्रेष्ठतायाः केन्द्ररूपेण परिवर्तयिष्यतीति वित्तमन्त्री तोमस् ऐसक् वर्यः अवदत्। विधानसभायां २०१८-१९ वर्षस्य आर्थिकसङ्कल्पं प्रस्तुतीकृत्य भाषमाण आसीत् सः। ४५००० अतिसाङ्केतिककक्ष्याप्रकोष्ठः ४०००० पेशलकक्ष्याप्रकोष्ठः अस्मिन्नेव वर्षे प्रवृत्तिपथमानेष्यति। अपि च ५०० तः अधिकं छात्रयुक्तानां विद्यालयाना कृते एककोटि रूप्यकाणि च प्रदास्यति। विद्यालयानां सिद्धतासंवर्धनाय तथा अध्ययनस्य श्रेष्ठतापरिवर्धनाय च अनेकाः परियोजनाः प्रख्यापिताः।

     प्राथमिक-माध्यमिकविद्यालयानां कृते सङ्गणककक्ष्यास्थापनार्थं किफ्बी द्वारा ३०० कोटि रूप्यकाणि १३८ विद्यालयान् सिद्धताकेन्द्रान् कर्तुं ६१४ कोटिरूप्यकाणि च किफ्बी द्वारा प्रदास्यति १०००अधिकं छात्रयुक्ताय ७० विद्यालयाय २१० कोटिरूप्यकाणि सुविधासंवर्धनार्थं दास्यति। फिब्रुवरीमासान्तात् पूर्वम् एतस्य आरम्भं करिष्यति।

फिटल् कास्ट्रोवर्यस्य पुत्रः आत्मानं जुहाव, परिक्रान्तिनेतुः पुत्रस्य दारुणम् अन्त्यम्।

हवान – क्यूबा परिक्रान्तिनेतुः फिटल् कास्ट्रोवर्यस्य वरिष्ठपुत्रः डयस् बल्लार्ट वर्यः आत्महत्यामकरोत्। गुरुवासरे प्रातः एव तम् आत्माहुतम् अपश्यत्। बहुकालपर्यन्तं विषादरोगस्य चिकित्सायामासीत् इति क्यूबा औद्योगिकमाध्यमस्य सूचना। ६८ वयस्कः बल्लार्ट् मासान् यावत् वैद्यसङ्घस्य चिकित्सायामासीदिति क्यूबा डिबेट् जालपुटे/पि सूचना अस्ति।

     परमाणुशास्त्रज्ञः बल्लार्ट् सोवियट् रष्यायामेव पठनमकरोत्। अधुना क्यूबन् कौण्सिल् आफ् स्टेट्स् संस्थायाः शास्त्रोपदेशकरूपेण तथा क्यूबन् अक्कादमि आफ् सयन्स् इत्यस्य उपाध्यक्षरूपेण च प्रवर्तयन्नासीत्

केन्दिय-राज्य प्राशासनिककर्मकराणाम् उपकरवेतनं २ प्रतिशतं वर्धिता।

कोच्ची–केन्द्र-राज्य-प्राशासनिके कर्मकराणाम् अध्यापकानां च अस्मिन् वर्षे जनुवरीतः जूण् पर्यन्तं बाधकेषु वेतनेषु द्विप्रतिशतं वर्धनं भविता। राष्ट्रिय उपभोक्तृमूल्यसूचिकायाःवार्षिकापातः २७२.९२ अङ्कात् २८१.१७ रूपेण उन्नतिं प्राप्त इत्यतः इदं वर्धनम्। अनेन केरलराज्य कर्मकराणां डी.ए. तेषां वेतनस्य १७ शतमितं भविष्यति। केन्द्रकर्मकराणां डी.ए. तु पञ्चतः सप्तशतमितं च भविता। एतदनुबन्ध्य विज्ञप्तिः आगामिनि मासे भविष्यति। तदनन्तरमेव केरलसर्वकाराणं निर्णयः भविष्यति।

केरलराज्यकर्मकराणां अधुना डी.ए. १४ शतमितं भवति। गतजूलै मासतः डिसम्बर् पर्यन्तं प्राप्तव्यं एकशतमितं डी.ए. इतःपर्यन्तं न प्रख्यापितमस्ति।

खेलो इन्ड्या – विद्यालयीयक्रीडायाः शुभारम्भः।

नवदिल्ली – दिल्याम् आयोजितायाः खेलो इन्ड्या इति विदियालयीयक्रीडायाः शुभारम्भो जातः। कौमारक्रीडाप्रतिभानां नूतनी प्रतीक्षा अस्ति खेलो इन्ड्या। इन्दिरागान्धी आन्तरिकक्रीडाङ्गणे प्रधानमन्त्री नरेन्द्रमोदी खेलो इन्ड्या अभियानस्य उद्घाटनमकरोत्। प्रथमदिने तमिल् नाटु अग्रे सरति। मुद्रात्रयेण केरलं द्वितीयस्थाने अस्ति।

     विद्यालयेभ्यः समर्थान् क्रीडकान् अवगत्य तान् भविष्ये उत्तमान् क्रीडकान् कर्तुमुद्दिश्यैव खेलो इन्ड्या अभियानमारब्दम्। अस्मिन् १७ वयःपर्यन्ताः क्रीडकाः एव भागं गृह्णन्ति।

श्वः पूर्णं चन्द्रग्रहणम्, मन्दिराणि पिहितानि भवेयुः, सप्तसु जनपदेषु सागरक्षोभजाग्रता।

तिरुवनन्तपुरम्- श्वः सम्पूर्णचन्द्रग्रहणं, केरले तीरदेशेषु सागरक्षोभः भविता इति अवधाननिर्देशः। राज्यस्तरीयः दुरन्तनिवारणविभागे/पि अवधानतानिर्देशमदात्। अद्य आरभ्य फिब्रुवरी ३ पर्यन्तं कोल्लम् आलप्पुषा, कोच्ची, पोन्नानि, कोषिक्कोट् कण्णूर् कासरगोड् प्रदेशेषु सागरक्षोभसाध्यता अस्तीति जाग्रता निर्देशः

सम्पूर्णचन्द्रग्रहणकारणेन श्वः तिरुवितांकूर् देवस्वं बोर्ड् संस्थायाः अधीनतायां स्थितानि मन्दिराणि सायं ५.१३ तः रात्रौ ८.४३ पर्यन्तं पिहितानि भविष्यन्तीति बोर्ड् अधिकारिणः असूचयन्।

उच्चविद्यालयानाम् उच्चतरविद्यालयानां च एकीकरणं सर्वकारपरिगणनायाम् – मुख्यमन्त्री।

तिरुवनन्तपुरम् – राज्ये उच्चविद्यालयानाम् उच्चतरविद्यालयानां च सामान्यीकरणं प्रशासनस्य परिगणनाविषयः अस्तीति मुख्यमन्त्री पिणरायि विजयः अवदत्। उभयोः भरणसंविधानस्य एकीकरणमेव लक्ष्यमिति स विधानसभायां एकस्य प्रश्नस्य प्रतिवचनरूपेण उक्तवान्। विषये/स्मिन् उच्चतरविद्यालयीयानाम् अध्यापकानां मध्ये विप्रतिपत्तिः प्रवर्तते।

कलामण्डलं गीतानन्दः कलानुक्रममध्ये क्षीणितः सन् पतित्वा मृतः।

अविट्टत्तूर् – प्रशस्तः ओट्टन्तुल्लल् कलाकारः कलामण्डलं गीतानन्दः अविट्टत्तूर् देशे कलावतरणान्तरे क्षीणेन पतित्वा मृतः। रविवासरे रात्रौ ८ होरायां अविट्टत्तूर् महादेव मन्दिरोत्सवस्य पल्लिवेट्टा दिने ओट्टन् तुल्लल् प्रस्तुतीकरणमध्ये मुग्धः सन् पतति स्म। झटित्येव समीपस्थं पुल्लूर् मिषन् चिकित्सालयं नीतः। तावत् स सजीवः नासीत्, वैद्यैः तस्य मरणं स्थिरीकृतम्। हृदयाघात एव मरणकारणमिति प्राथमिकं निगमनम्

प्रधानमन्त्रिणः विदेशपर्यटनं फिब्रुवरी नवमे दिने आरभते।

नवदिल्ली- प्रधानमन्त्रिणः नरेन्द्रमोदीवर्यस्य चतुर्दिवसीयं विदेशपर्यटनं फिब्रुवरी नवमदिने आरभते। पलस्तीन् ओमान् ऎक्य अरब् राष्ट्राणि च चतुर्दिवसीयेन पर्यटनेन प्रधानमन्त्री संद्रक्ष्यति।

संस्कृताध्यापकफेडरेषनस्य वार्षिकसम्मेलनम् – स्वागतसंघकार्यालयः उद्घाटितः।

कासरगोड् – फेब्रुवरिमासस्य २२,२३ दिनाङ्कयोः कासरगोड् जिल्लायां प्रचाल्यमानस्य संस्कृताध्यापकफेडरेषन् वार्षिकसम्मेलनस्य स्वागतसंघकार्यालयः उद्घाटितः। कासरगोड् पत्रिकासंघस्य अध्यक्षः टि.ए षाफिः उद्घाटकः आसीत्। संघाटकसमितेः अध्यक्षः ऐ.वि. भट्ट् महोदयः अध्यक्षपदवीमावहत्। पि.एन. मधुसूदनः, ऱाषिद् पूरणम्, गणेष् कुमार्, नीलमना शङ्करन् नम्पूतिरिः, षिजु एम्.टि, सुनिलकुमार् प्रभृतयः भाषणमकुर्वन्।

कुत्र उपविशतीति विषयः मां न पीडयति – रूक्षविमर्शनेन सह राहुल् गान्धी।

गणतन्त्रदिनाघोषे सेनाविन्यासकार्यक्रमान्वीक्षितुं वेदिकायाः पश्चाद्भागे आसन्दः लब्धः इत्यस्मिन् विषये न को/पि परिदेवनं नास्तीति कोण्ग्रेस् दलाध्यक्षः तथा विपक्षिदलनेता राहुल् गान्धी वर्यः अवदत्। कार्यक्रमान् विक्षितुं पष्ठपङ्क्तौ एव राहुल् वर्याय आसन्दः कल्पितः। एतदनुबन्ध्य विवादः उन्नीतः आसीत्। ततः एव “कुत्र उपविशतीति कार्यं मां न पराभवति ” इति प्रस्तावनया सह राहुल् गान्धी आगतवान्।एन्.डी.टी.वीं प्रति आसीत् राहुलस्य प्रस्तावः। गणतन्त्रदिनाघोषे राज्यसभायाः कोण्ग्रेस् दलाध्यक्षेण गुलां नबी आसादेन साकं षष्ठ्यां पङ्क्त्यामेव राहुलस्य आसन्दः कल्पितः आसीत्।