Monthly Archives: May 2024

हिमालयसानुषु संस्कृतालेखितः ध्वजः आरोपितः।

तृशूर्- केन्द्रीय-संस्कृतसर्वकलाशालायाः गुरुवायूर् परिसरस्थाः छात्राः संस्कृतवाक्यानि आलेखितं ध्वजं हिमालयस्य अधित्यकायाम् समारोपयन्। संस्कृतसर्वकलाशालया आयोजिते हिमालय-चन्द्रखनि साहसिकयात्राशिबिरे गुरुवायूर् परिसरस्य प्रतिनिधिरूपेण भागं गृहीत्वैव ज्योतिषे स्नातकोत्तरकक्ष्याछात्रः रतीष् मोहनः तथा साहित्यविभागे स्नातकोत्तरकक्ष्याछात्रः के-एस्-गोकुल् च पञ्चदिवसीयया यात्रया १२१९० पादोन्नतायां चन्द्रखन्यां देवात्मा हिमालयः भारतात्मा संस्कृतम् इत्यालेखितं ध्वजम् आरोपयामासतुः।

प्रथमे दिने सर्वकलाशालायाः कुलपतिरेव यात्रार्थं पताकावहं कृतवान्। कायिकक्षमतानुसारमेव शिबिरे छात्राणां चयनं जातम्। ते सप्त होरापर्यन्तं साहसिकयात्रां कृत्वैव तौ चन्द्रखनिं प्रापतुः।

समारब्धं हि पाठनम् (भागः ३४१) 01-06-2024

EPISODE – 341

नूतना समस्या –

“समारब्धं हि पाठनम्”

प्रथमस्थानम्

“सावधानो भवेच्छात्रः
जिज्ञासुश्च तथोद्यमी ।
चिन्ताशीलो भवेत्तर्हि
समारब्धं हि पाठनम्” ॥

Sridevi

“अभिनन्दनानि”

 

समारब्धं सुवर्षणम् (भागः ३४०) 25-05-2024

EPISODE – 340

नूतना समस्या –

“समारब्धं सुवर्षणम्”

प्रथमस्थानम्

“ഭുവനാനി ച തുഷ്ടാനി
ശ്രൂയതേഽംബുദഗർജനം
തടില്ലതാശ്ച ദൃശ്യന്തേ
സമാരബ്ധം സുവർഷണം”

Bhaskaran N K

“അഭിനന്ദനങ്ങൾ”

 

छात्रैः साकं रक्षितारोपि पठेयुः।

तिरुवनन्तपुरम्- केरलेषु अस्माद् वर्षादारभ्य छात्राणाम् अध्ययनेन समं रक्षितारः अपि अधीयताम्। परं छात्राणां पाठं नास्ति तेषाम् अध्ययनकार्ये के के अंशाः श्रद्धेयाः इत्येव अधीतव्याः। एतदर्थं सज्जीकृतानि पाठपुस्तकानि अचिरेण विद्यालयं नेष्यति। अनेन भारते रक्षाकर्तृभ्यः पाठपुस्तकं दीयमानं प्रथमं राज्यं भविष्यति केरलम्।

पाठपुस्तकानां परिष्करणस्य भागत्वेन राज्य-शैक्षिकानुसन्धान-प्रशिक्षणपरिषदः नेतृत्वे एव रक्षाकर्त्रे पाठपुस्तकं सज्जीक्रियते। अङ्गणवाटीतः उच्चतरस्तरं यावत् छात्राणां रक्षाकर्तृभ्यः पुस्तकानि दास्यति।

छात्राणां वयो/नुसारमेव पुस्तकं सज्जीकृतम्। प्राक्-प्राथमिकम्, प्राथमिकम्, माध्यमिकम्, उच्चतरम् इति रूपेणैव स्तरं निर्णीतं भवति।

शीतकोष्ठं समाश्रये (भागः ३३९) 18-05-2024

EPISODE – 339

नूतना समस्या –

“शीतकोष्ठं समाश्रये”

പ്രഥമസ്ഥാനം

“അത്യുഷ്ണം നഹി ശക്നോമി
സോഢും മിത്രക! ഹേ ശൃണു
പരിത്രാണായ ഗാത്രാണാം
ശീതകോഷ്ഠം സമാശ്രയേ”

Radhakrishnan

“അഭിനന്ദനങ്ങൾ”

 

अशोकन् पुरनाट्टुकरा अनुस्मरणम् पुरस्कारसमर्पणञ्च ।

संस्कृतभाषा प्रचारकस्य तथा समाजोद्वारकस्य अशोकन् पुर नाट्टुकराया : दशमीय अनुस्मरणसम्मेलनं मई मासस्य नवमे दिने वैलोप्पिल्ली सभा मन्दिरे सम्पन्नम् । साहित्य अक्कादमी भूतपूर्व कार्यदर्शी श्री पि वि कृष्णन् नायर् महोदयः पुरस्कार समर्पणं निरवहत् । प्रसिद्ध आयुर्वेद भिषग्वरस्तथा सांस्कृतिकप्रवर्तक: डा टिश्रीकुमार: पुरस्कारेण बहुमानितः।
प्रतिभासम्पन्नाः समाजसेवकाः सदा स्मरणीयाः आद्रियमाणाश्च वर्तन्ते इति अशोकस्य निदर्शनमाधारीकृत्य पि वि कृष्णन्नायर वर्यः अवदत्। अशोकन् पुरनाट्टुकरा महाशयः संस्कृत प्रणयिनाम् आदर्शभूतः महान् कल्पवृक्षः आसीदिति सोfवदत्। श्री पि के राजन् मास्टर आध्यक्ष्यमावहत् । भूतपूर्व : नियमसभा सामाजिकः टि वि चन्द्रमोहनः अनुस्मरणभाषणमकरोत्। श्रीमन्तः एम् प्रसद्वर्यः सुकुमारन् मास्टर एन् राजगोपाल: .अनुराग् मास्टर आर् नन्दकिषोर् डा एस् एन् महेष् बाबु: श्रीमती अजिता च सदसि सन्निहिताः भाषमाणाश्च आसन् ।

वसन्तो द्वारमागतः (भागः ३३८) 11-05-2024

EPISODE – 338

नूतना समस्या –

“वसन्तो द्वारमागतः”

प्रथमस्थानम्

“निदाघान्ते जनान् सर्वान्
पुष्पगन्धैः प्रचोदयन् ।
ऋतुराजो महाशक्तो
वसन्तो द्वारमागतः” ॥

Purushothaman Mumbai

“अभिन्दनानि”