Daily Archives: June 2, 2024

प्रार्थये सुमङ्गलम् ।

मित्रका : ! मित्रकाः ! पाठशालां गच्छत
वर्णवस्त्रभूषिताः नव्यस्यूतसंयुताः ।

छत्रमेकं टोपिकाञ्च सञ्चयन्तु सत्वरम्
वर्षकालमस्ति मित्राः ! वर्षणं भविष्यति ।

सावधानं गच्छत यानमार्गमाश्रिताः
प्राप्य लक्ष्यं चावतरन्तु चोत्तमाश्च निर्भयम् ।

गुरुवरान् प्रणम्य भोः वर्गमेत्य सत्वरम्
आश्रयन्तु स्वस्यस्थानमाचरन्तु प्रार्थनाम् ।

संस्कृतं पठन्तु मित्राः संस्कृतं महत्तमम्
सर्वलोकवन्दितं सज्जनैः प्रवर्धितम् ।

संस्कृतेन सन्ततं भाषणं च मित्रकै :
संस्कृतेन सर्वमस्तु संस्कृतेन रक्ष्यते ।

व्यवहरन्तु साधु रीत्या सर्वकालं मित्रका :
उत्तमोत्तमाश्च सन्तु प्रार्थये सुमङ्गलम् ॥

विजयन् वि पट्टाम्पि ।