Monthly Archives: October 2022

पी टी कुर्याक्कोस् स्मारकपुरस्काराय डो-पि नारायणन् नम्पूतिरिवर्यः चितः।

तृशूर्- केरल संस्कृत अकादमी संस्थया आयोजितं पी टी कुर्याक्कोस् स्मारक वैशिष्ट्य पुरस्कारं अस्मिन् वर्षे डो पि नारायणन् नम्पूतिरिवर्याय दास्यति। संस्कृतपण्डितः, कालिक्कट् विश्वविद्यालयस्य प्राध्यापकचरः तथा विख्यातः लेखकश्च भवति डो- नारायणन् नम्पूतिरिवर्यः। नवम्पर् मासस्य अष्टादशे दिनाङ्के केन्द्रिय संस्कृत विश्वविद्यालयस्य गुरुवायूर् परिसरे पुरस्कारदानं भविता।

हरितविद्यालयम्- विद्याभ्यास-वास्तविकप्रदर्शनम्(रियालिट्टी षो)

कोच्ची-सार्वजनिकविद्यालयानां श्रेष्ठताम् अवतारयितुं हरितविद्यालयं रियालिट्टी षो पुनरपि आयोजयति। तदर्थं आवेदनम् अधुना समर्पयितुं शक्यते। २०२० जूण् प्रथमदिनादारभ्य विद्यालयानां प्रवर्तनम् अवतारयितुं सार्वजनीनविद्यालयाः प्रभवन्ति। कोविड् कालेषु विद्यालयीयप्रवर्तनानाम् अङ्कनमेव लक्ष्यमस्ति।

प्रथम,द्वितीय,तृतीयस्थानमाप्तानां यथाक्रमं २० लक्षं, १५ लक्षं, १० लक्षं रूप्यकाणां पुरस्कारं दास्यति। अन्तिमचरणं प्राप्तानां विद्यालयानां कृते द्विलक्षरूप्यकाणां साहाय्यमस्ति।

विमलाः सन्तु केरलाः (भागः २५८) 29-10-2022

EPISODE – 258

नूतना समस्या –

“विमलाः सन्तु केरलाः”

പ്രഥമസ്ഥാനം

“स्वस्थ्यनाशस्तथा राज्ये
भविता रोगविक्रमः ।
मालिन्यानि च संत्यज्य
विमला: सन्तु केरला : ॥”

Sreeja Purushothaman

“അഭിനന്ദനങ്ങൾ”

 

न्यायाधीशः डी वै चन्द्रचूडः सर्वोच्चन्यायालये मुख्यन्यायाधीशपदव्यां नियुक्तः।

नवदिल्ली- राष्ट्रे पञ्चाशत् तमः मुख्यन्यायाधीशः ज- डी वै चन्द्रचूडः भविता। अस्यां पदव्यां चन्द्रचूडं नियुज्य घोषिते आदेशे राष्ट्रपतिना द्रौपदी मुर्मू वर्यया हस्ताक्षरम् अङ्कितम्। विरम्यमाणः मुख्यन्यायाधीशः यु यु ललित् वर्यः ज-चन्द्रचूडं नामनिर्देशं कृतवानासीत्।

नवम्बर् मासस्य अष्टमतिथावेव ज- यु यु ललित् वर्यस्य विरामः भविष्यति। तद्दिने एव ज-चन्द्रचूडः मुख्यन्यायाधीशत्वेन सत्यशपथं ग्रहीष्यति।

मद्यमेव महाविपत् (भागः २५७) 22-10-2022

EPISODE – 257

नूतना समस्या-

“मद्यमेव महाविपत्”

പ്രഥമസ്ഥാനം

“സർവകാരേണ ശീഘ്രം ഹി
കാര്യം മദ്യനിരോധനം
നോ ചേന്നശ്യതി രാഷ്ട്രം ഹാ!
മദ്യമേവ മഹാവിപത്.”

Aparna

“അഭിനന്ദനങ്ങൾ”

 

वाणीदेवीं नमाम्यहम् (भागः २५६) 15-10-2022

EPISODE – 256

नूतना समस्या-

“वाणीदेवीं नमाम्यहम्”

പ്രഥമസ്ഥാനം

“एणाक्षीं चारूवक्षोजां
वीणापुस्तकधारिणीम् ।
कर्णपीयूषशब्दाढ्यां
वाणीदेवीं नमाम्यहम्” ॥

Sreeja mumbai

“അഭിനന്ദനങ്ങൾ”

राष्ट्रिय प्रतिभा निर्णय छात्रवृत्तिमपि निवर्तयति।

नवदिल्ली- राष्ट्रिय-प्रतिभानिर्णय-छात्रवृत्तिं निवर्तयितुं केन्द्रसर्वकारस्य निर्णयः। इतः परं अधिकसूचनां विना आवेदनानि न स्वीक्रियन्ते इति राष्ट्रिय-शैक्षिकानुसन्धान-प्रशिक्षण-परिषदा निगदितम्।

प्रतिवर्षं पादद्वयरूपेण प्रतिभानिर्णयपरीक्षा आयोजिता आसीत्। तद्वारा छात्रवृत्तिः दीयते स्म। लक्षपरिमिताः छात्राः प्रतिवर्षं परीक्षां लिखन्ति स्म। एकादशवर्गादारभ्य विद्यावारिधि(Ph.D) वर्गपर्यन्तं मासिकं छात्रवृत्तिं ददाति स्म।

प्रतिवर्षं २००० छात्राः एवं छात्रवृत्यै अर्हाः अभवन्। ग्रामीणक्षेत्रमभिव्याप्य ऊने वयस्येव प्रतिभासम्पन्नान् अवगन्तुम् उद्दिश्यैव परीक्षा प्रचलिता आसीत्। १९६३ तमे वर्षे आरब्धा भवतीयं परियोजना।

अध्ययन यात्राविषये दत्ताः अनुदेशाः पुनरपि संसूचिता।

तिरुवनन्तपुरम्- विद्यालयात् अध्ययनयात्रार्थ गम्यमानाः रात्रौ यात्रां न कुर्युः इति पूर्वमेव दत्तः निर्देशः राज्ये सर्वे विद्यालयाः अवश्यं पालयेयुः इति शिक्षा-वृत्तिविभागमन्त्री वी शिवन् कुट्टी वर्यः अवदत्। रात्रौ नववादनात् प्रातः षड्वागनपर्यन्तं यात्रा निषिद्धा आसीत्।

केरलीय पर्यटनविभागस्य अङ्गीकारयुक्तानां पर्यटनप्रायोजकानाम् अनुसूच्यां नामाङ्कितानि यानान्येव अध्ययनयात्रायै उपयोक्तव्यानि इति पूर्वमेव अनुदेशः दत्तः आसीत्। २०२० मार्च् द्वितीये दिनाङ्के सूचिते अनुदेशे समग्ररूपेण निर्देशा‌ः सार्वजनीनशिक्षाविभागेन प्रदत्ताः। सर्वासां यात्राणाम् उत्तरदायित्वं विद्यालयप्राध्यापकानामेवेति तत्र सूचितम्।

अध्ययनयात्राः छात्राणाम् अध्ययनेन सम्बद्धाः भवेयुः। यात्रामधिकृत्य समग्रावबोधः प्रथमाध्यापस्य भवेत्। यात्रासूचिकाः छात्रेभ्योपि देयाः।

अपघातप्राचुर्यं प्रदेशं यात्रार्थं न चिनुयात्। छात्राः शिक्षकाः याननियन्तारश्च मादकवस्तूनि न स्वीकुर्युः। यातायातविभागस्य निर्देशाः अपि पालनीयाः।

चित्तशुद्धीप्रदायकम् (भागः २५५) 08-10-2022

EPISODE – 255

नूतना समस्या –

പ്രഥമസ്ഥാനം

“നിസ്വാർഥസേവനം കൃത്വാ
പരാർഥായ സമർപിതം
സാമൂഹ്യസേവനം ധന്യം
ചിത്തശുദ്ധിപ്രദായകം”

Narayanan N

“അഭിനന്ദനങ്ങൾ”

 

 

मार्क्स्वादी-साम्यवादी दलस्य नेता कोटियेरि बालकृष्णन् वर्यः दिवङ्गतः।

तिरुवनन्तपुरम्- सि-पि-एम्- दलस्य पोलिट् ब्यूरो इति उन्नतसमित्याम् अङ्गं, केरलघटकस्य भूतपूर्वः कार्यदर्शी च कोटियेरि बालकृष्णन् वर्यः अन्तरितः। ६९ वयस्कः स चेन्नै अप्पोलो चिकित्सालये शनिवासरे रात्रौ अष्टवादने एव अस्माल्लोकान्निरगात्। अर्बुदरोगग्रस्तः स चिकित्सायामासीत्। स्वास्थ्यावस्थां परिगणय्य दलस्य राज्यस्तरीय कार्यदर्शिपदव्याः विरम्य स विदग्धचिकित्सार्थं चेन्नै नगरं प्राप।

मुख्यमन्त्री पिणरायि विजयन्, राज्य-कार्यदर्शी एं वि गोविन्दन् प्रभृतयः नेतारः कोटियेरि वर्यस्य निर्याणवार्तां श्रुत्वा चेन्नै अप्पोलो चिकित्सालयं प्रापुः। अत एव अद्य आरभमाणं मुख्यमन्त्रिणः यूरोप् पर्यटनं तात्काल्कतया उपेक्ष्तम्।

१६ तमे वयसि मार्क्स् वादी साम्यवादी दले अङ्गत्वं स्वीकृकवान् कोटियेरि वर्यः दलस्यास्य विविधां धुराम् अवहत्। २००६-२०११ काले स केरलस्य गृहमन्त्री आसीत्।

अस्य भौतिकदेहसंस्कारः ओक्टोबर् ३ दिनाङ्के सायं तलश्शेरि कोटियेरि देशे भविता।