Monthly Archives: September 2022

फाल्के पुरस्कारम् आशा परेख् वर्यायै दास्यति।

चण्डीगड्- राष्ट्रे परमोन्नतः चलच्चित्रपुरस्कारः भवति दादासाहेब् फाल्के पुरस्कारः। विख्याता हिन्दी चलच्चित्रनटी आशा परेख् वर्या अस्मिन् वर्षे अस्मै पुरस्काराय अर्हा अभवत्। भारतीय चलच्चित्रस्य वर्धनाय विकासाय च अनया दत्तं समग्रयोगदानं परिगणय्यैव पुरस्कारः घोषित इति सूचना प्रसारणमन्त्री अनुराग् ठाक्कूर् वर्यः न्यगागीत्। दिल्यां शुक्रवासरे सम्पत्स्यमाने समारोहे राष्ट्रपतिः द्रौपदी मुर्मूवर्या पुरस्कारं दास्यति।

सुवर्णकमलं, उत्तरीयं, दशलक्षं रूप्यकाणि च पुरस्कारे अन्तर्भवति।

जिह्वाग्रे नर्तनं कुरु (भागः २५४) 01-10-2022

EPISODE – 254

नूतना समस्या –

“जिह्वाग्रे नर्तनं कुरु”

പ്രഥമസ്ഥാനം

“ഷഡ്രസാഃ ഖലു വിഖ്യാതാഃ
സദാപ്യാനന്ദദായകാഃ
രുചിരേ! രുചിദേവി! ത്വം
ജിഹ്വാഗ്രേ നർതനം കുരു”

Bhaskaran N K

“അഭിനന്ദനങ്ങൾ”

श्रेष्ठतायै विद्यालयीयशिक्षा- डो-एं ए खादर् समित्याः अभिवेदने द्वितीयभागमपि मुख्यमन्त्रिणे समार्पयत्।

केरलीय शिक्षारीतेः समूलपरिष्करणं लक्ष्यीकृत्य साध्यताध्ययनार्थं नियुक्ता डा एं ए खादर् समितिः तस्याः अभिवेदनस्य द्वितीयं भागं मुख्यमन्त्रिणे समार्पयत्।

प्रथमभागे अभिवेदने विद्यालयानां घटनारूपाणि कार्याणि एव मुख्यतया प्रत्यपादयत्। परं द्वितीये भागे प्राधान्येन अक्कादमिककार्याण्येव पर्यगणयत्।

सार्वत्रिकशिक्षायाः सङ्कलितशिक्षायाश्च गुणवत्तायै भीषारूपेण विपणनक्षेत्रं परिवर्तितमभवत्। अस्मिन् साहचर्ये एव सर्वान् छात्रान् परिगणय्य सङ्कलितरूपेण नीत्यधिष्ठितां गुणवत्ताशिक्षां केरलेषु प्रायोगिकं कर्तुम् अभिवेदनस्थाः सूचनाः साहाय्यकाः भविष्यन्तीति आशास्महे।

वयोनुगुणा शिक्षा एव अधुना विद्यालयेषु प्रचलति। सा अनुवर्तयेत्। सममेव शेषीमपि परिगणयेत्। एव वृत्तिविषयमपि शिक्षाया‌ः भागं भवेति। छात्राणां पठनेन उद्ग्रथितरूपेण वृत्तिविषयमपि संयोजयेत्।

अध्ययनदिनानि अध्ययनसमयम् इत्यादिविषयेष्वपि अभिवेदने व्यक्ता सूचना अस्ति।

केरलेषु सार्वजनीनविद्यालयीयाः छात्राः अतीव सन्तुष्टाः।

तृशूर् – केरलेषु विद्यालयजीविते अतिसन्तुष्टाः सार्वजनीन-विद्यालयीय छात्राः एवेति केन्द्रीय शिक्षामन्त्रालयस्य सर्वेक्षणम्। राष्ट्रस्थानां छात्राणां मानसिकस्वास्थ्यविषये सम्पर्कविषये चासीत् सर्वेक्षणम्।

केन्द्रीय विद्यालय- नवोदयविद्यालयप्रभृतिषु दश विभागेषु आसीत् सर्वेक्षणाध्ययनम्। एषु सर्वकारीण-धनादत्तविद्यालयेषु आधीयानेषु ८४७०५ छात्रेषु ७९ शतमितं छात्राः संतृप्ताः इति सूचितम्। विद्यालयेभ्यः अधीयानानां शेषीनां श्रेष्ठता एव अनेन व्यज्यते।

निजीयविद्यालयाः एव छात्राणां सन्तुष्ट्यां पराङ्भूताः भवन्ति। तत्रस्थाः ६७ शतमितं छात्राः एव केवलं सन्तुष्टाः।

तिरुवोणभाग्यः।

केरलसर्वकारस्य ओणं विशेष धनभाग्ययोगे २५ कोटि रूप्यकाणां प्रथमपुरस्कारराशिः तिरुवनन्तपुरं श्रीवराहं देशीयेन अनूप् इति युवकेन स्वायत्तीकृता। स्वापत्यस्य धनसञ्चयपेटिकां प्रभञ्ज्य चिटिकास्वीकारार्थं धनम् अनेन स्वरूपितम्। स त्रिचक्रिकाचालकः भवति। मनसि भाग्यदेवताकटाक्षस्य सन्तोष एवास्ति, भविष्यकार्यक्रमाः न निर्णीता इत्यपि अनूपेन वार्ताहराः निगदिताः। स वृत्यर्थं मलेष्यां गन्तुं सन्नाहः कुर्वन्नासीत्।

पन्थानो बहुदुस्तराः (भागः२५३) – 24-09-2022

EPISODE – 252

नूतना समस्या –

“पन्थानो बहुदुस्तराः”

പ്രഥമസ്ഥാനം

സീതാമാഹ പുരാ രാമോ
വനവാസസമുത്സുകാം
“മാ സഞ്ചര മയാ സാകം
പന്ഥാനോ ബഹുദുസ്തരാഃ”

Radhakrishnan

“അഭിനന്ദനങ്ങൾ”

 

मोदन्ते भुवि सज्जनाः (भागः २५२) 17-09-2022

EPISODE – 252

नूतना समस्या –

“मोदन्ते भुवि सज्जनाः”

പ്രഥമസ്ഥാനം

“विना मात्सर्यभावेन
विना चासूयया तथा ।
मनसा कर्मणा वाचा
मोदन्ते भुवि सज्जना :।।”

Vijayan V Pattambi

“അഭിനന്ദനങ്ങൾ”

 

एलिसबत् राज्ञी कालकबलिता।

लण्टन्- ब्रिट्टनस्य राज्ञी एलिसबत् वर्या दिवंगता। रादपरिवारेण तस्याः मृत्युः स्थिरीकृतः। सा ९६ वयस्का आसीत्। तस्याः अन्त्यं स्कोट्लाण्टे राजभवने आसीत्। बहुकालं यावत् राष्ट्रशासने नियुक्ता वनिता आसीत्। किरीटधारणस्य सप्तत्यामेव तस्याः वियोगः समापन्नः।

गते बुधवासरे तया प्रिवी समित्याः अधिवेशनं समायोजितमासीत्। परं वैद्यैः विश्रमाय निर्दिष्टे सती अधिवेशनं न संजातम्। स्खालित्यकारणात् तस्याः दैहिकस्वास्थ्यं शिथिलमासीत्।

कुजवासरे प्रधानमन्त्रिपदे लिस् टिसन् अवरोधनसमारोहे उल्लासपूर्णतया भागं गृहीतायाः तस्याः छायाचित्राणि सामाजिकमाध्यमेषु प्रसृतानि आसन्।

सर्वं मानवचेष्टितम् (भागः 251) – 10-09-2022

EPISODE – 251

नूतना समस्या –

“सर्वं मानवचेष्टितम्”

പ്രഥമസ്ഥാനം

“സമസ്തേഷ്വപി ലോകേഷു
സംഘർഷാസ്സുലഭാഃ ഖലു
സഞ്ജാനീയാദിദം സത്യം
സർവം മാനവചേഷ്ടിതം”

Radhakrishnan

“അഭിനന്ദനങ്ങൾ”

 

अद्य शिक्षकदिवसःl

शिक्षकाः छात्राश्च एकस्यामेव नौकायां यात्रिकाः। उभयोः लक्ष्यम् अवारपारमेव। तत्तु लक्ष्यं विज्ञानरूपं भवति। गुरुशब्धस्य अर्थोपि तादृश एव। अतः शिक्षकः छात्राणां मनसि प्रतिष्ठितः स्यात्।

अस्मिन् शिक्षकदिवसे सर्वेभ्यो शुभकामनाः।