Daily Archives: October 2, 2022

मार्क्स्वादी-साम्यवादी दलस्य नेता कोटियेरि बालकृष्णन् वर्यः दिवङ्गतः।

तिरुवनन्तपुरम्- सि-पि-एम्- दलस्य पोलिट् ब्यूरो इति उन्नतसमित्याम् अङ्गं, केरलघटकस्य भूतपूर्वः कार्यदर्शी च कोटियेरि बालकृष्णन् वर्यः अन्तरितः। ६९ वयस्कः स चेन्नै अप्पोलो चिकित्सालये शनिवासरे रात्रौ अष्टवादने एव अस्माल्लोकान्निरगात्। अर्बुदरोगग्रस्तः स चिकित्सायामासीत्। स्वास्थ्यावस्थां परिगणय्य दलस्य राज्यस्तरीय कार्यदर्शिपदव्याः विरम्य स विदग्धचिकित्सार्थं चेन्नै नगरं प्राप।

मुख्यमन्त्री पिणरायि विजयन्, राज्य-कार्यदर्शी एं वि गोविन्दन् प्रभृतयः नेतारः कोटियेरि वर्यस्य निर्याणवार्तां श्रुत्वा चेन्नै अप्पोलो चिकित्सालयं प्रापुः। अत एव अद्य आरभमाणं मुख्यमन्त्रिणः यूरोप् पर्यटनं तात्काल्कतया उपेक्ष्तम्।

१६ तमे वयसि मार्क्स् वादी साम्यवादी दले अङ्गत्वं स्वीकृकवान् कोटियेरि वर्यः दलस्यास्य विविधां धुराम् अवहत्। २००६-२०११ काले स केरलस्य गृहमन्त्री आसीत्।

अस्य भौतिकदेहसंस्कारः ओक्टोबर् ३ दिनाङ्के सायं तलश्शेरि कोटियेरि देशे भविता।