राष्ट्रिय प्रतिभा निर्णय छात्रवृत्तिमपि निवर्तयति।

नवदिल्ली- राष्ट्रिय-प्रतिभानिर्णय-छात्रवृत्तिं निवर्तयितुं केन्द्रसर्वकारस्य निर्णयः। इतः परं अधिकसूचनां विना आवेदनानि न स्वीक्रियन्ते इति राष्ट्रिय-शैक्षिकानुसन्धान-प्रशिक्षण-परिषदा निगदितम्।
प्रतिवर्षं पादद्वयरूपेण प्रतिभानिर्णयपरीक्षा आयोजिता आसीत्। तद्वारा छात्रवृत्तिः दीयते स्म। लक्षपरिमिताः छात्राः प्रतिवर्षं परीक्षां लिखन्ति स्म। एकादशवर्गादारभ्य विद्यावारिधि(Ph.D) वर्गपर्यन्तं मासिकं छात्रवृत्तिं ददाति स्म।
प्रतिवर्षं २००० छात्राः एवं छात्रवृत्यै अर्हाः अभवन्। ग्रामीणक्षेत्रमभिव्याप्य ऊने वयस्येव प्रतिभासम्पन्नान् अवगन्तुम् उद्दिश्यैव परीक्षा प्रचलिता आसीत्। १९६३ तमे वर्षे आरब्धा भवतीयं परियोजना।
Leave a Reply