Monthly Archives: August 2022

केरल-संस्कृत-अक्कादमीपुरस्कारः घोषितः।

तृशूर्- केरल-संस्कृत-अक्कादमीपुरस्कारः घोषितः। नाट्यकलाक्षेत्रे सेवामभिलक्ष्य २०२० तमवर्षस्य संस्कृतिपुरस्कारः श्रीमते पी-के० नारायणन् नम्प्यार् वर्याय, संस्कृते भाषापाण्डित्यप्रचारणक्षेत्रे सेवामादृत्य २०२१ तमवर्षस्य पुरस्कारः श्रीमते प्रोफ-कृष्णकुमार् वर्याय च दास्यति।

न्यायभूषणं पी- रामन् नम्प्यार् वर्यस्य नाम्नि तेषां शिष्यप्रवरेण के-टी- माधवन् वर्येण समायोजितः रामप्रभापुरस्कारः श्रीमते हरिप्रसाद् कटम्पूर् वर्याय दास्यति।
१०००० रूप्यकाणि, प्रशस्तिपत्रं फलकं च पुरस्कारे अन्तर्भवन्ति। अस्मिन् मासे २७ तमे दिनाङ्के तृशूर् साहित्य अक्कादमि-वैलोप्रिल्लि वेदिकायां पुरस्कारदानसमारोहः समायोक्ष्यते।

प्रस्नोत्तरम् (भागः 248) 27-08-2022

EPISODE – 248

 

 

प्रश्नोत्तरम्।

 

 

 

  1. मेघदूतम् एकम् ——। (क) खण्डकाव्यम्  (ख) महाकाव्यम्  (ग) चम्पूकाव्यम्
  2. वसिष्ठपत्नी का ?  (क) शर्मिष्ठा  (ख) गौतमी  (ग) अरुन्धती
  3. आशीर्वचनसंयुक्ता स्तुतिः ——। (क) प्रस्तावना (ख) नान्दी  (ग) नेपथ्यम्
  4. राजेन्दुरिन्दुः क्षीरनिधाविव । कः ? (क) दिलीपः  (ख) दशरथः  (ग) रघुः
  5. मुद्राराक्षसस्य रचयिता कः ? (क) भट्टनारायणः  (ख) विशाखदत्तः (ग) जयदेवः
  6. नारिकेलफलसम्मितं वचः कस्य ? (क) व्यासस्य  (ख) भासस्य  (ग) भारवेः
  7. ” वाक्यं रसात्मकं काव्म्यम् ” । वाक्यमिदम् (क) मम्मटस्य  (ख) क्षेमेन्द्रस्य  (ग) वामनस्य
  8. कुमारसम्भवे कुमारः —–। (क) तारकासुरः  (ख) कार्तिकेयः  (ग) शङ्करः
  9. “उत्तिष्ठत जाग्रत,प्राप्यवरान् निबोधत  ” (क) केनोपनिषद्  (ख) प्रश्नोपनिषद्  (ग) कठोपनिषद्
  10. हिमवतः पत्नी ——। (क) मेना  (ख) पार्वती  (ख) भूमिः

 

 

 

Last date: 27-08-2022

स्वतन्त्रं मम भारतम् (भाग: २४८) 13-08-2022

EPISODE – 248

नूतना समस्या –

“स्वतन्त्रं मम भारतम्”

പ്രഥമസ്ഥാനം

“ആർഷജ്ഞാനേനസമ്പന്നം
വിശ്വസ്നേഹമയം ശ്രുതം
സാംസ്ക്കാരികോജ്വലം രാഷ്ട്രം
സ്വതന്ത്രം മമ ഭാരതം”

Narayanan N

“അഭിനന്ദനങ്ങൾ”

जग्दीप् धनकर् भारतस्य चतुर्दश‌तमः उपराष्ट्रपतिः

नवदिल्ली- भारतस्य चतुर्दशे उपराष्ट्रपतिपदे जग्दीप् धनकर् वर्यः चितः। स ५२८ मतेनैव चितः। विपक्षदलानां स्थानाशी मार्गरट्ट् आल्वा वर्या १८२ मतम् अलभत। १५ सदस्यानां मतम् असाधुरभवत्। ७८० सदस्येषु ७२५ सदस्याः मतदाने भागमगृह्णन्। आमयकारणेन भा ज पा दलस्य द्वौ सदस्यौ मतदानार्थं नागतौ। सण्णी डियोल्, तथा सञ्जय् दोग्रे च तौ सदस्यौ।

तृणमूल् काण्ग्रेस् दलस्य ३७ सदस्येषु केवलं द्वावेव मतदानार्थमागतौ। अन्यैः ३४ सदस्यैः मतदानं बहिष्कृतम्।

आगामिनि गुरुवासरे उपराष्ट्रपतेः सत्यशपथं भविता। जग्दीप् धनकरः अभिभाषकत्वेन संसत्सदस्यत्वेन च प्रथितयशाः भवति। स राजस्थानराज्ये कित्तान देशीयः अस्ति। इतः पूर्वमसौ पश्चिमबंगराज्ये राज्यपालः आसीत्।

अक्षरं शक्तमौषधम् (भागः २४७) 06-08-2022

EPISODE – 247

नूतना समस्या –

“अक्षरं शक्तमौषधम्”

ഒന്നാംസ്ഥാനം

“ഭക്ഷണേന ശരീരസ്യ
രക്ഷണം ശക്യതേ ജവം
ലക്ഷണാന്വിതചിത്തായ
അക്ഷരം ശക്തമൗഷധം”

Narayanan N

“അഭിനന്ദനങ്ങൾ”

 

प्रश्नोत्तरम् (भागः २४७) – ०६-०८-२०२२

EPISODE – 247

प्रश्नोत्तरम्।

 

 

 

  1. शक्तिभद्रस्य देशः कुत्र ? (क) कर्णाटकः  (ख) केरळम्  (ग) काश्मीरः
  2. पाणिनेः महाकाव्यं किम् ? (क) जाम्बवतीजयम् (ख) बालचरितम् (ग) महानन्दमयम्
  3. ” लिम्पतीव तमोsङ्गानि वर्षतीवाञ्जनं नभः ” अत्र अलङ्कारः कः? (क) उपमा  (ख) रूपकम् (ग) उप्रेक्षा
  4. मृच्छकटिकम् इति नाटके नायकः कः ? (क) चारुदत्तः  (ख) चाणक्यः  (ग) उदयनः
  5. शकुन्तलायाः माता का ? (क) मेनका  (ख) गौतमी  (ग) पार्वती
  6. अवस्थानुकृतिः ——-। (क) नृत्तम्   (ख) नाट्यम्   (ग) नृत्यम्
  7. रामगिर्याश्रमेषु वसतिं चक्रे। कः ? (क) इन्द्रः  (ख) यक्षः  (ग) किन्नरः
  8. किरातार्जुनीये किरातः कः ? (क) विष्णुः  (ख) नारदः  (ग) शिवः
  9. सरस्वती कण्ठाभरणस्य रचयिता ——? (क) भोजः  (ख) मम्मटः  (ग) दण्डी
  10. रूपकाणि  कति ?  (क) नव   (ख) एकादश  (ग) दश

 

 

Last date: 06-08-2022

चतुर्दिवसपर्यन्तं अतिशक्तां वष्टिं प्रतीक्षते। जागरूकता निर्देशः दत्तः। जलबन्धाः केचन उद्घाटिताः।

तिरुवनन्तपुरम्- राज्ये वर्षाः शक्ताः जाताः। आगामि दिनचतुष्टयं अतिशक्तां वृष्टिं प्रतीक्षते इति केन्द्रीय पर्यावरणनिरीक्षणकेन्द्रस्य सूचना। प्रथमं मध्य-दक्षिण केरलेषु वृष्टिः भविता। क्रमशः उत्तरकेरलेष्वपि वृष्टिः शक्तिं प्राप्स्यति। वयनाट् कासरगोण मण्डले अतिरिच्य अन्यत्र मण्डलेषु वृष्टिजागरूकता घोषिता। तत्रापि तिरुवनन्तपुरं, केल्लं पत्तनंतिट्ट, आलप्पुष इटुक्कि मण्डलेषु कुङ्कुमाङ्गजागरूकता, शिष्टेषु मण्डलेषु पीतजागरूकता च घोषिता।

ह्यस्तनरात्रेः आरभ्य गिरिप्रदेशेषु वृष्टिः अधिका दृश्यते। अतः तत्रत्यवास्तव्याः नितान्तजागरूकतां पालयेयुः इति दुपन्तनिवारण संघस्य सूचना।

वृष्टेः घटना अधिका चेत् केतन जलबन्धाः उद्घाटितव्याः भवेयुः अतः जनैः नितान्तदागरूकैः भाव्यम् इति सूचना अस्ति।