Daily Archives: August 15, 2022

पञ्चसप्तति श्लोकान् विलिखन् नारायणः ।

राष्ट्रस्य अमृताघोषकाले नववाणी समस्यालेखनस्पर्धायां पञ्चसप्ततिश्लोकान् विलिख्य मेप्पयूर् प्रदेशस्थो नारायणः सर्वान् विस्मापितः। “स्वतन्त्रं मम भारतम्” इत्यासीत् समस्या । नववाणी संस्कृत आप् इत्यस्य आभिमुख्ये प्रतिसप्ताहं प्रदत्तमाना समस्या एव नारायणाय कवितालेखने प्रचोदिका जाता ।

नारायणः 1953 तमे वर्षे आगस्त् मासस्य 15 तमे दिने मेप्पयूर न रोत्त् भवने भूजातोSभवत् । उक्कारन् नम्ब्यार् अम्मालु अम्मा चास्तां तस्य पितरौ । आविलकुट्टोत्त् प्राथमिकविद्यालयात् ए२वल्लूर् नारायणविलासमाध्यमिकविद्यालयात्तथा पेराम्ब्रा उच्चविद्यालयाच्च प्राप्तविद्यः सः संस्कृताध्यापकपरीक्षायामापि उत्तीर्णोfभवत् । ततः पेराम्ब्रास्थिते कल्पत्तूर् माध्यमिकविद्यालये 1995 तमे वर्षे संस्कृताघ्यापकत्वेन नियुक्तोfभवत्। तत्र चतुस्त्रिंशत् वर्षाणि छात्रान् पाठयन् समाराध्योfभवत् । तत्पुर्वमेव 1990 तमे वर्षे साक्षरताप्रवर्तनेषु निरतः सः तत्प्रवर्तनानां समायोजकत्वेन च प्राशोभत ।
2009 तमे वर्षे अध्यापनकर्मणः विरतोsपि सः अन्तर्जालीय संस्कृतपाठनप्रवर्तनेषु व्यापरन्नस्ति । नववाणीसंस्थया प्रतिसप्ताहं प्रचाल्यमानायां समस्यापूरणस्पर्धायां विना विलम्बं विनायासं नैकानि समस्यापूरणानि लिखन् विधिनिर्णयसमित्या पुरस्कृतश्चासीत्। राष्ट्रस्य स्वतन्त्रतायाः अमृतमहोत्सवस्य शुभदिने तस्यापि जन्मदिनमिति नैवात्र काकतालीयता। साक्षाज्जन्मदिनं स्वाधीनतादिने एव अभवदिति विशेषोfप्यस्ति । तस्मिन्नेवावसरे  ” स्वतन्त्रं मम भारत” मिति समस्यायाः उदयश्च ।  विना विलम्बं पञ्चसप्ततिश्लोकान् विलिख्य कृतार्थश्च सम्पन्नः । सकुटुम्बं पुत्रपौत्रैश्च साकं कृषिकर्मणि तथा संस्कृतसेवने च व्यामग्नः कुट्टोत्त्  मेप्पयू२ग्रामस्थिते नारोत्त्भवने जीवन्नस्ति । तस्मै आयुरारोग्यसौख्यमेव सदा भूयादिति प्रार्थयते नववाणी |

नववाणी समस्या, प्रश्नोत्तरम् इत्यादिभिः स्पर्घाभिः सहृदयान् संस्कृतानुरागिणश्च चोदयन्ती विराजते ।