जग्दीप् धनकर् भारतस्य चतुर्दश‌तमः उपराष्ट्रपतिः

नवदिल्ली- भारतस्य चतुर्दशे उपराष्ट्रपतिपदे जग्दीप् धनकर् वर्यः चितः। स ५२८ मतेनैव चितः। विपक्षदलानां स्थानाशी मार्गरट्ट् आल्वा वर्या १८२ मतम् अलभत। १५ सदस्यानां मतम् असाधुरभवत्। ७८० सदस्येषु ७२५ सदस्याः मतदाने भागमगृह्णन्। आमयकारणेन भा ज पा दलस्य द्वौ सदस्यौ मतदानार्थं नागतौ। सण्णी डियोल्, तथा सञ्जय् दोग्रे च तौ सदस्यौ।

तृणमूल् काण्ग्रेस् दलस्य ३७ सदस्येषु केवलं द्वावेव मतदानार्थमागतौ। अन्यैः ३४ सदस्यैः मतदानं बहिष्कृतम्।

आगामिनि गुरुवासरे उपराष्ट्रपतेः सत्यशपथं भविता। जग्दीप् धनकरः अभिभाषकत्वेन संसत्सदस्यत्वेन च प्रथितयशाः भवति। स राजस्थानराज्ये कित्तान देशीयः अस्ति। इतः पूर्वमसौ पश्चिमबंगराज्ये राज्यपालः आसीत्।

Leave a Reply

Your email address will not be published. Required fields are marked *