Monthly Archives: July 2022

प्रश्नोत्तरम् (भागः २४६) 30-07-2022

EPISODE – 246

 

प्रश्नोत्तरम्।

 

 

 

 

  1. नारायणीयं कस्मिन् काव्यविभागे अन्तर्भवति? (क) महाकाव्ये  (ख) स्तोत्रकाव्ये  (ग) नीतिकाव्ये
  2. एषु व्याकरणकारः कः ? (क) कपिलः  (ख) वसिष्ठः  (ग) पाणिनिःात्  
  3. मालतीमाधवस्य रचयिता कः ? (क) भवभूतिः  (ख) भारविः  (ग) कालिदासः
  4. सोमदेवस्य प्रसिद्धा कृतिः ? (क) कादम्बरी  (ख) प्रतिमानाटकम्  (ग) कथासरित्सागरः
  5. प्रतिमानाटकस्य इतिवृत्तं कस्मात् ग्रन्थात् स्वीकृतं भवति ? (क) महाभारतात्  (ख) रामायणात्  (ग) पञ्चतन्त्रात्
  6. एषा जयदेवस्य कृतिः ——। (क) गीतागोविन्दम्  (ख) नारायणीयम्  (ग) स्तोत्रमाला
  7. राजतरङ्गिण्याः प्रणेता  (क) क्षेमेन्द्रः  (ख) कल्हणः  (ग) भारविः
  8. अष्टाध्यायाः प्रथमं सूत्रम् ? (क) आद्गुणः  (ख) हलन्त्यम्  (ग) वृद्धिरादैच्
  9. सांख्यदर्शने प्रमाणानि —–। (क) ३   (ख) ४    (ग)  ६
  10. रूपरहितस्पर्शवान् ——-। (क) तेजः   (ख) वायुः  (ग) आकाशः

 

 

 

 

Last date: 30-07-2022

पठेत् संस्कृतमुत्तमम् (भागः २४६) 30-07-2022

EPISODE – 246

नूतना समस्या –

“पठेत् संस्कृतमुत्तमम्”

ഒന്നാംസ്ഥാനം

“വേദാനാമിതിഹാസാനാം
പുരാണാനാം തഥൈവ ച
സാരസർവസ്വബോധായ
പഠേത് സംസ്കൃതമുത്തമം.”

Swathi Kishor

“അഭിനന്ദനങ്ങൾ”

द्रौपदी मुर्मूवर्या भारतस्य राष्ट्रपतिः

नवदिल्ली- भारतस्य पञ्चदशतमे राष्ट्रपतिपदे द्रौपदी मुर्मू वर्या निर्वाचिता। अस्मिन् पदे चिता द्वितीया वनिता भवतीयम्। ओडीषाराज्ये मयूर् भञ्ज् मण्डले उपर् बेडायां सान्ताल् गोत्रविभागे भवति द्रौपदी मुर्मू वर्या।

पार्श्वीकृतदनसमाजात् इच्छाशक्तेः प्रतीकत्वेन भारतस्य परमोन्नतपदव्याम् आगता द्रौपदी मुर्मू वर्या नूतनम् इतिहासं रचितवती। अनुसूचितदनजातिविभागात् इगम्प्रथमतया एका परमोन्नतपदवीं प्राप्नोति।

भूतपूर्वः केन्द्रमन्त्री यश्वन्त् सिह्ना आसीत् अस्याः प्रतिद्वन्दी। द्रौपदी मुर्मू वर्यायाः राष्ट्रपतित्वेन सत्यशपथं आगामिनि सोमवासरे (जूलै २५ दिनाङ्के) भविष्यति।

बालकानां बालिकानां च कृते पृथक् विद्यालयः नावश्यकः इति बालाधिकारायोगः।

तिरुवनन्तपुरम्- २०२३-२४ वर्षादारभ्य राज्ये बालकानां बालिकानां च कृते पृथक् विद्यालयाः नावश्यकाः इति राज्य बालाधिकारायोगः निरदिशत्। सर्वे विद्यालयाः सङ्कलिताः भवेयुः। एतस्य प्रारम्भरूपेण विद्यालयेषु शौचगृहादीनाम् आधारसुविधानां पर्याप्तता दृढीकरणीया। सहशिक्षामधिकृत्य रक्षाकर्तृणां बोधवत्करणम् आयोजनीयम्।

पृथग्विद्यालयप्रवर्तनेन लिङ्गनीतिनिषेधः भवति, अतः सह शिक्षा आयोजनीया इति सूचयन् ऐसक् पोल् नामकस्य कोल्लं देशीयस्य आवेदनमनुसृत्यैव आयोगस्यायं निर्देशः।

केरलराज्ये बालिकानां कृते २८० विद्यालयाः बालकानां कृते १६४ विद्यालयाश्च सन्ति।

प्रश्नोत्तरम् (भागः २४५) 23-07-2022

EPISODE – 245

 

 

प्रश्नोत्तरम्।

 

 

 

  1. गोपालः ग्रामम् ——। (क) अगच्छत्  (ख) अगच्छः   (ग) अगच्छम्
  2. छात्रः ——-। (क) अनमः  (ख) अनमत्  (ग) अनमम्
  3. रामः सीताम् ——-। (क) ऐच्छम्  (ख) ऐच्छन्  (ग) ऐच्छत्
  4. शिष्याः गुरुम् ——–। (क) अपृच्छन्  (ख) अपृच्छत्  (ग) अपृच्छः
  5. मार्जारौ मूषकम् ——–। (क) अखादत्  (ख) अखादताम्  (ग) अखादः
  6. रमेशः श्लोकम् ——–। (क) अलिखः  (ख) अलिखम्  (ग) अलिखत्
  7. शिवः पार्वतीम् ——–। (क) अनयत्  (ख) अनयन्  (ग) अनयम्
  8. विष्णुः गजम् ——–। (क) अरक्षम्  (ख) अरक्षत्  (ग) अरक्षम्
  9. पुत्राः पितरम् ——-। (क) अवदन्  (ख) अवदत्  (ग) अवदम्
  10. कर्मकरौ कार्यम् ——-। (क) अकुर्वन्  (ख)अकुरुताम्  (ग) अकरवम् 

ഈയാഴ്ചയിലെ വിജയി

URMILA KANNUR

“അഭിനന്ദനങ്ങൾ”

कर्मणा सुखमाप्नुयात् (भागः २४५) – 23-07-2022

EPISODE – 245

नूतना समस्या –

“कर्मणा सुखमाप्नुयात्”

ഒന്നാംസ്ഥാനം

लोकोपकार युक्तेन
सर्वभूतहितात्मना ।
सफलेन च शुद्धेन
कर्मणा सुख माप्नुयात् ॥

Narayanan Namboothiri

“അഭിനന്ദനങ്ങൾ”

 

नववाणीदर्शकानां संख्या एकलक्षमतीता।

इरिङ्ङालक्कुटा- संस्कृताध्यापकानां छात्राणां इतरेषां संस्कृतोपासकानां च संस्कृताध्ययनाध्यापननैपुणीनां निधानभूतं नववाणी इति संस्कृतजालपुटं देशविदेशेषु संस्कृतप्रणयिनः प्रतिदिनं पश्यन्तः विलसति। संस्कृते पठनपाठनविधयः, कविताः, कथाः, समस्यापूरणानि, शिक्षाविभागस्य सूचनाः, वार्ताः इत्यादीनि जालपुटे उपलभ्यन्ते।

जालपुटस्य प्रवर्तने दशवर्षे अतीते प्रेक्षकाणां संख्या एकलक्षमतीता इति जालपुटादेव साक्षादवगन्तुं शक्यते। कोविड् काले आधिजालिककक्ष्यामभिव्याप्य बहवः कार्यक्रमाः नववाणीद्वारा छात्रेषु अध्यापकेषु च प्रापिताः।

नववाण्याः प्रवर्तनां इतोप्यधिकम् आकर्षकं कर्तुम् उपायाः चिन्त्यन्ते अस्य प्रायोजकैः।

दानं सर्वत्र शोभते (भागः २४४) 16-07-2022

EPISODE  – 244

नूतना समस्या –

“दानं सर्वत्र शोभते”

ഒന്നാംസ്ഥാനം

“രന്തിദേവോ മഹാത്യാഗീ
ബുഭുക്ഷുർനിതരാമപി
ദത്തവാൻ കൃച്(ഛ ലബ്ധാന്നം
ദാനം സർവത്ര ശോഭതേ”

Bhaskaran N K

“അഭിനന്ദനങ്ങൾ”

 

जापानस्य भूतपूर्वः प्रधानमन्त्री गोलिकाभिः मृतः।

टोक्यो – जापानस्य भूतपूर्वः प्रधानमन्त्री षिन्सो आबे वर्यः [६७] गोलिकाशस्त्रेण मारितः। पश्चिमनगरे नारानामके स्थले निर्वाचनप्रचारणार्थम् आयोजिते अधिवेशने भाषमाण आसीत् सः। तस्य पश्चाद्भागतः भुषुण्डिप्रयोगः जातः। व्योममार्गेण झटित्येव आतुरालयं प्रवेशितः अपि रक्षा न साधिता। घातक इति सन्दिह्यमानः तेट्सुया यामागामि नामकः घटनास्थानादेव आरक्षिभिः निगृहीतः।
जापाने बहुकालं प्रधानमन्त्रिपदमारूढवान् षिन्सो आबे राष्ट्रस्य आर्थिकमण्डलविकासाय निर्णायकं स्थानमावहत्। आत्ममित्रस्य दुरन्ते प्रधानमन्त्री नरेन्द्रमोदी अन्वशोचयत्। आदरसूचकेन राष्ट्रे एकदिवसीयं दुःखाचरणं घोषितम्।

केरलराज्ये संस्कृतिकविभागमन्त्री सजि चेरियान् वर्यः त्यागपत्रम् अदात्।

तिरुवनन्तपुरम्- भारतीयसंविधानमधिकृत्य विवादास्पदं परामर्शं कृतवान् इत्यतः सांस्कृतिकविभागमन्त्री सजि चेरियान् वर्यः स्वपदवीं तत्याज। सि-पि-एम् राज्यनेतृत्वस्य निर्देशानुसारमेव स्थानत्यागः। अद्य सायं वार्तहरसम्मेलने तेन इदमसूचयत्।

गते रविवासरे पत्तनं तिट्ट मल्लप्पल्लि देशे समायोजिते अधिवेशने भाषमाणेन मन्त्रिवर्येण अस्माकं संविधानमधिकृत्य विवादपरामर्शः कृतः आसीत्। ततः विपक्षदलमभिव्याप्य सर्वे विमर्शनं कृतवन्तः। साम्यवादीदलस्य अखिलभारतीयसमितेः निर्देशानुसारमेव स त्यागपत्रमदात्।