Monthly Archives: August 2022

मिखायेल् गोर्बच्चेव् वर्यः कालकबलितो अभवत्।

मोस्को- सोवियट् संघस्य अन्तिमाध्यक्षः मिखायेल् गोर्बच्चेव् वर्यः अन्तरितः। रूस् वार्ताहरसंघैरेव एषा सूचना दत्ता।

तस्यान्त्यमधिकृत्य अधिका सूचना न लब्धा तथापि स मोस्को नगरे कस्मिंश्चित् चिकित्सालये चिकित्सायामासीत् इति तस्य कार्यालयेन सूचितमासीत्।

अमेरिकया सह संजातं शीतसमरं रक्तरहितरूपेण समापयितुं स निर्णायकं योगदानम् अकरोत्। परन्तु १९९१ तमे वर्षे सोवियट् संघस्य शिथिलीकरणं प्रतिरोद्धुं स न सन्नद्धः आसीत्।

द्वितीय-विश्वमहायुद्धानन्तरं यूरोपीये प्रतिसन्धिनिवारण विषये तथा जर्मन्याः एकीकरणविषये च स नीतियुक्तं कार्यं व्यतनोत्।

सात्विकं दानमुत्तमम् (भागः २५१) 03-09-2022

EPISODE – 251

नूतना समस्या –

“सात्विकं दानमुत्तमम्”

“ദേശം വീക്ഷ്യ തഥാ കാലം
പാത്രഞ്ചാപി തതഃ പുനഃ
മനസാ ദീയതേ യത്തു
സാത്വികം ദാനമുത്തമം”

Radhakrishnan

“അഭിനന്ദനങ്ങൾ”

पुरस्काराः समर्पिताःl

 

तृश्शिवपुरम् – संस्कृत अक्कादमी 2021-22 वर्षीयाः संस्कृतिपुरस्काराः समर्पिताः । पदमश्री पि के नारायणन् नम्र्ब्यार् प्रो कृष्णकुमार श्री हरिप्रसाद कटम्बूर च समुचितं पुरस्कृताः । तृश्शिवपुरे केरलसाहित्य अकादमी सभामन्दिरे आयोजितायां सभायाम् पुरस्कार समर्पणमभवत् । संस्कृत अक्कादम्याः २०२०-२१ वर्षीयेण संस्कृतिपुरस्कारेण पि के नारायणन् नम्ब्यारु २०२१ २२ वर्षीयेण पुरस्कारेण प्रो कृष्णकुमारश्च बहुमानितौ । संस्कृतप्रचारणप्रवर्तनाय श्री के टि माधवन् महोदयेन आयोजितेन रामप्रभा पुरस्कारेण हरिप्रसाद् कटम्बूर् च आदृत : ।
प्रो के ए रवीद्र : ( वित्त कोशाध्यक्षः संस्कृत अकादमी ) डो के टी माधवन् ( अध्यक्ष : संस्कृत अकादमी ) डो यम् वि नारायणन् उपाध्यक्षः संस्कृत सर्वकलाशाला )डो .वि के विजयन् ( कार्यदर्शी संस्कृत अकादमी ) प्रो सी जि विजयकुमार्  डो यम्  वि नटेशन् च भाषणमकुर्वन् । पुरस्कारेण समादृतेभ्यः सर्वेभ्यस्तथा पुरस्कारमायोजितायै संस्थायै च नववाण्याः  अभिनन्दनानि ।

केन्द्र साहित्य अक्कादमीपुरस्कारः विज्ञापितः।

नवदिल्ली- २०२२ तमवर्षस्य केन्द्र साहित्य अक्कादमीपुरस्कारः घोषितः। बालसाहित्यविभागे उत्कृष्टपुरस्काराय सेतुवर्यस्य चेक्कुट्टि इति ग्रन्थः अर्हः अभवत्।

युवसाहित्यकारपुरस्काराय अनघा जे कोलोत् अर्हा अभवत्। मेषुकुतिरिक्क् स्वन्तं तीप्पेट्टि इति कवितासमाहारायैव पुरस्कारः। ५०००० रूप्यकाणि फलकं च पुरस्कारे अन्तर्भवतः।

जीवितं सार्थकं भवेत् (भागः २५०) 27-08-2022

EPISODE – 250

नूतना समस्या –

“जीवितं सार्थकं भवेत्”

പ്രഥമസ്ഥാനം

“സത്പഥേനൈവ സഞ്ചാര:
സജ്ജനൈസ്സഹ സങ്ഗതി:
യദ്യേവം കുരുതേ തസ്യ
ജീവിതം സാർഥകം ഭവേത്”

Atheetha

“അഭിന്ദനങ്ങൾ”

 

उत्तरभारते महाप्रलयः। पञ्चसु राज्येषु आहत्य ३५ मरणानि। हिमाचलप्रदेशे २२ जनाः मृताः।

नवदिल्ली- कठिना वृष्टिः प्रलयश्च दक्षिणभारते महानाशस्य कारणमभवताम्। हिमाचलप्रदेशमभिव्याप्य पञ्चसु राज्येषु आहत्य ३५ मरणानि जातानि। हिमाचले एकस्मिन् परिवारे अष्टजनाः मृताः। तत्र आहत्य २२ जनाः मृताः।

शुक्रवासरे आरब्धा वृष्टिः बहुषु स्थलेषु मृत्पातस्य़ कारणमभवत्।

उत्तराखण्डे मेघविस्फोटनमपि सञ्जातम्। तत्र चत्वारो जनाः मृताः।

दक्षिणभारत- योगप्रतियोगितायाम् अध्यापकः सम्मानितः।

आलूर्- चेन्नै गुम्मिडिप्पुण्डि स्थले समायोजितायां दक्षिणभारत-योगाप्रतियोगितायाम् आलूर् उच्चतरविद्यालयस्थः प्रशान्त् पि राजन् नामकः अध्यापकः तृतीयस्थानेन सम्मानितः।

३६-४६- वयोविभागे केरलानां प्रतिनिधिरूपेणैव अयं संस्कृताध्यापकः मत्सरे भागं जग्राह। मातृभूमि सीड् संघे उत्कृष्टः समायोजकः इति पुरस्कारोपि अनेन समासादितः अभवत्।

नरो नारदसम्मितः (भागः २४९) 20-08-2022

EPISODE – 249

नूतना समस्या –

“नरो नारदसम्मितः”

ഒന്നാംസ്ഥാനം

“നാരദത്വം മനുഷ്യാണാ –
മനൈക്യായൈവ കല്പതേ
തതോ ബുധാ വദന്ത്യേവം
നരോ നാരദസമ്മിതഃ”

Bhaskaran N K

“അഭിനന്ദനങ്ങൾ”

पञ्चसप्तति श्लोकान् विलिखन् नारायणः ।

राष्ट्रस्य अमृताघोषकाले नववाणी समस्यालेखनस्पर्धायां पञ्चसप्ततिश्लोकान् विलिख्य मेप्पयूर् प्रदेशस्थो नारायणः सर्वान् विस्मापितः। “स्वतन्त्रं मम भारतम्” इत्यासीत् समस्या । नववाणी संस्कृत आप् इत्यस्य आभिमुख्ये प्रतिसप्ताहं प्रदत्तमाना समस्या एव नारायणाय कवितालेखने प्रचोदिका जाता ।

नारायणः 1953 तमे वर्षे आगस्त् मासस्य 15 तमे दिने मेप्पयूर न रोत्त् भवने भूजातोSभवत् । उक्कारन् नम्ब्यार् अम्मालु अम्मा चास्तां तस्य पितरौ । आविलकुट्टोत्त् प्राथमिकविद्यालयात् ए२वल्लूर् नारायणविलासमाध्यमिकविद्यालयात्तथा पेराम्ब्रा उच्चविद्यालयाच्च प्राप्तविद्यः सः संस्कृताध्यापकपरीक्षायामापि उत्तीर्णोfभवत् । ततः पेराम्ब्रास्थिते कल्पत्तूर् माध्यमिकविद्यालये 1995 तमे वर्षे संस्कृताघ्यापकत्वेन नियुक्तोfभवत्। तत्र चतुस्त्रिंशत् वर्षाणि छात्रान् पाठयन् समाराध्योfभवत् । तत्पुर्वमेव 1990 तमे वर्षे साक्षरताप्रवर्तनेषु निरतः सः तत्प्रवर्तनानां समायोजकत्वेन च प्राशोभत ।
2009 तमे वर्षे अध्यापनकर्मणः विरतोsपि सः अन्तर्जालीय संस्कृतपाठनप्रवर्तनेषु व्यापरन्नस्ति । नववाणीसंस्थया प्रतिसप्ताहं प्रचाल्यमानायां समस्यापूरणस्पर्धायां विना विलम्बं विनायासं नैकानि समस्यापूरणानि लिखन् विधिनिर्णयसमित्या पुरस्कृतश्चासीत्। राष्ट्रस्य स्वतन्त्रतायाः अमृतमहोत्सवस्य शुभदिने तस्यापि जन्मदिनमिति नैवात्र काकतालीयता। साक्षाज्जन्मदिनं स्वाधीनतादिने एव अभवदिति विशेषोfप्यस्ति । तस्मिन्नेवावसरे  ” स्वतन्त्रं मम भारत” मिति समस्यायाः उदयश्च ।  विना विलम्बं पञ्चसप्ततिश्लोकान् विलिख्य कृतार्थश्च सम्पन्नः । सकुटुम्बं पुत्रपौत्रैश्च साकं कृषिकर्मणि तथा संस्कृतसेवने च व्यामग्नः कुट्टोत्त्  मेप्पयू२ग्रामस्थिते नारोत्त्भवने जीवन्नस्ति । तस्मै आयुरारोग्यसौख्यमेव सदा भूयादिति प्रार्थयते नववाणी |

नववाणी समस्या, प्रश्नोत्तरम् इत्यादिभिः स्पर्घाभिः सहृदयान् संस्कृतानुरागिणश्च चोदयन्ती विराजते ।

जय जय मङ्गलशीले..।

भारतमातः धीरे जननि !
जय जय मङ्गलशीले !
जनततिवन्दितधन्यधरित्री
लसताल्लसतान्नित्यम् ॥

जनहितपालननिरते धन्ये
तावकविजयपताका ।
गगने लसतादतिरुचिरा सा
पवनान्दोलितकलिका ।

जनकोटिभिरतुलमनोज्ञा
वीरजनावलिभरिता ।
स्वतन्त्रभारतधरणी जननी
जयताज्जयदानिशम् ।

सैनिकवीरै : रक्षितसीमः
विन्ध्यहिमाचलदेशः ।
सागरलहरीतरलिततीर :
सुन्दरसुरभिलदेशः ।

शत्रूनखिलं दमनं कृत्वा
जय जय . जननि मनोज्ञे !
ऋषिजनवन्दित धरणी जयता –
ज्जयताज्जयतादनिशम् ॥

रचना-

 

 

 

 

 

 

 

Vijayan V Pattambi