Daily Archives: July 22, 2022

द्रौपदी मुर्मूवर्या भारतस्य राष्ट्रपतिः

नवदिल्ली- भारतस्य पञ्चदशतमे राष्ट्रपतिपदे द्रौपदी मुर्मू वर्या निर्वाचिता। अस्मिन् पदे चिता द्वितीया वनिता भवतीयम्। ओडीषाराज्ये मयूर् भञ्ज् मण्डले उपर् बेडायां सान्ताल् गोत्रविभागे भवति द्रौपदी मुर्मू वर्या।

पार्श्वीकृतदनसमाजात् इच्छाशक्तेः प्रतीकत्वेन भारतस्य परमोन्नतपदव्याम् आगता द्रौपदी मुर्मू वर्या नूतनम् इतिहासं रचितवती। अनुसूचितदनजातिविभागात् इगम्प्रथमतया एका परमोन्नतपदवीं प्राप्नोति।

भूतपूर्वः केन्द्रमन्त्री यश्वन्त् सिह्ना आसीत् अस्याः प्रतिद्वन्दी। द्रौपदी मुर्मू वर्यायाः राष्ट्रपतित्वेन सत्यशपथं आगामिनि सोमवासरे (जूलै २५ दिनाङ्के) भविष्यति।

बालकानां बालिकानां च कृते पृथक् विद्यालयः नावश्यकः इति बालाधिकारायोगः।

तिरुवनन्तपुरम्- २०२३-२४ वर्षादारभ्य राज्ये बालकानां बालिकानां च कृते पृथक् विद्यालयाः नावश्यकाः इति राज्य बालाधिकारायोगः निरदिशत्। सर्वे विद्यालयाः सङ्कलिताः भवेयुः। एतस्य प्रारम्भरूपेण विद्यालयेषु शौचगृहादीनाम् आधारसुविधानां पर्याप्तता दृढीकरणीया। सहशिक्षामधिकृत्य रक्षाकर्तृणां बोधवत्करणम् आयोजनीयम्।

पृथग्विद्यालयप्रवर्तनेन लिङ्गनीतिनिषेधः भवति, अतः सह शिक्षा आयोजनीया इति सूचयन् ऐसक् पोल् नामकस्य कोल्लं देशीयस्य आवेदनमनुसृत्यैव आयोगस्यायं निर्देशः।

केरलराज्ये बालिकानां कृते २८० विद्यालयाः बालकानां कृते १६४ विद्यालयाश्च सन्ति।