Monthly Archives: May 2022

समौ जयपराजयौ (भागः २३६) 21-05-2022

EPISODE – 236

नूतना समस्या –

“समौ जयपराजयौ”

ഒന്നാംസ്ഥാനം

“ഭക്തസ്യ ലക്ഷണം സമ്യക്‌
ഗീതായാം തു പ്രകല്‌പിതം
തേഷു മുഖ്യം ച ശക്തം ച
സമൗ ജയപരാജയൗ”

Narayanan N

“അഭിനന്ദനങ്ങൾ”

 

 

प्रश्नोत्तरम् (भागः २३६) 21-05-2022

EPISODE – 236

 

प्रश्नोत्तरम्।

 

 

 

 

  1. शिल्पा – भोः!भवान् सङ्गणकज्ञानं ——-प्राप्तवान् ? (क) कुतः  (ख) कुत्र  (ग) किम्
  2. नरेन्द्रः – अहम्  अमेरिकायाम् सङ्गणकज्ञानं ———। (क) प्राप्तवती  (ख) प्राप्तवन्तः  (ग) प्राप्तवान्
  3. शिल्पा – भवान् —–भारतम् आगतवान् ? (क) किम्  (ख) किमर्थम्  (ग) कुत्र
  4. भवतः जननीजनकौ कुत्र ——-। (क) अस्ति  (ख) सन्ति  (ग) स्तः
  5. नरेन्द्रः – मम जननीजनकौ ——–स्तः। (क)अमेरिकादेशः  (ख) अमेरिकादेशे  (ग) अमेरिकादेशस्य
  6. ——–संस्कृतशास्त्राणाम्  अध्ययनार्थम् भारतम् आगतवान्। (क) अहम्  (ख) त्वम् (ग) वयम्
  7. नरेन्द्रः – ——–किम् अधीतवती। (क) भवान्  (ख) भवती  (ग) भवतः
  8. शिल्पा – अहं संस्कृतसाहित्यम् ———। (क) अधीतवती  (ख) अधीतवान्  (ग) अधीतवन्तः
  9. नरेन्द्रः – भवती अत्र कति वर्षेभ्यः कार्यम् ——। (क) कुर्वन्ति  (ख) करोति  (ग) कुरुतः
  10. शिल्पा – अहं त्रयोदशवर्षेभ्यः संस्कृतकार्यम् ——। (क) करोमि  (ख) करोति  (ग) करोषि

 

 

 

 

Last date: 21-05-2022

गूगिल् अनुवादे संस्कृतमपि योजितम्। अष्ट भारतीयभाषाः नूतनतया योजिताः

चेन्नै- संस्कृताद्याः अष्ट भारतीयभाषाः गूगिल् संस्थया गूगिल् अनुवादे योजिताः। आधिजालिके बहुभाषा अनुवादप्रक्रमे प्रादेशिकभाषाणां गणनापरिवर्धनस्य भागत्वेनेयं प्रक्रिया।

संस्कृतं गूगिल् अनुवादार्थं बह्वभ्यर्थिता प्रथमा भाषा इत्यतः वयम् आयोजयामः इति गूगिल् अनुसन्धानविभागे वरिष्ठः अभियान्त्रिकः ऐसक् कास्वेल् महाशयेन निगदितम्।

प्रश्नोत्तरम् (भागः २३५) – 14-05-2022

EPISODE – 235

 

प्रश्नोत्तरम्।

 

 

 

 

  1. अखिलः – राजेशः किमर्थम् अद्य कार्यालयं न ———। (क) आगतवती  (ख) आगतम्  (ग) आगतवान्
  2. माधुरी – अद्य प्रातः आरभ्य ——–महान् ज्वरः अस्ति भोः। (क) तस्य  (ख) तस्मै  (ग) तत्
  3. अखिलः – किं  —-निद्रां  कृतवान् ? (क) सः  (ख) सा  (ग) तत्
  4. ——-भवती  औषधं दत्तवती खलु ? (क) तस्य  (ख) तस्मै  (ग) तस्मिन् 
  5. माधुरी – इदानीं सः औषधं ——-निद्रां कृतवान्। (क) पीत्वा  (ख) पातुम्  (ग) पिबति
  6. यदा षट्वादनं भवति तदा पुनः अहम् औषधं ——। (क) दास्यन्ति  (ख) दास्यामि  (ग) दास्यति
  7. अखिलः – यदा उत्तिष्ठति तदा अहम् —–इति वदतु। (क) आगतवान्  (ख) आगतवती (ग) आगतवन्तः
  8. माधुरी – उपविशतु काफीं ——। (क) ददासि  (ख) ददाति  (ग) ददामि
  9. श्वः यदि ज्वरः न्यूनः भविष्यति तर्हि सः कार्यालयम् ———। (क) आगच्छति (ख) आगमिष्यति (ग) आगमिष्यन्ति 
  10. अखिलः – मास्तु।यदि विश्रान्तिः आवश्यकी तर्हि ——-। (क) स्वीकुर्वन्तु  (ख) स्वीकुरुताम् (ग) स्वीकरोतु

 

 

 

Last date: 14-05-2022

मोदो मे वर्धते भृशम् (भागः २३५) 14-05-2022

EPISODE – 235

नूतना समस्या –

“मोदो मे वर्धते भृशम्”

ഒന്നാംസ്ഥാനം

കവിനാ കാളിദാസേന
രചിതേ കാവ്യതല്ലജേ
വാരം വാരം നിമഗ്നോഽഹം
മോദോ മേ വർധതേ ഭൃശം.

Bhaskaran N K

“അഭിനന്ദനങ്ങൾ”

अशोकन् पुरनाट्टुकरा-भारतमुद्रा पुरस्कारः फा- बोबी जोस् कट्टिक्काट् वर्याय।

तृशूर्- संस्कृतपण्डितः विवर्तकः पत्रकारश्चासीत् स्वर्गीयः अशोकन् पुरनाट्टुकरा वर्यः भारतमुद्रा इति संस्कृतमासिकी तस्य पत्रकारितायामेव प्रकाशिता आसीत्। तस्य स्मरणार्थम् आयोजितः अशोकन् पुरनाट्टुकरा-भारतमुद्रा पुरस्कारः अस्मिन् वर्षे बोबी जोस् कट्टिक्काट् इति पुरोहिताय दास्यति। १०००१ रूप्यकाण्येव पुरस्कारः।

चिन्तकः लेखकः प्रभाषकश्चास्ति फा-बोबी जोस् वर्यः। अशोकन् पुरनाट्टुकरा वर्यस्य मृत्युदिनं मेय् मासस्य नवमे दिनाङ्के भवति। तद्दिने सायं पञ्चवादने तृशूर् साहित्य अक्कागमी वैलोप्पिल्ली वेदिकायां आयोज्यमाने अधिवेशने पुरस्कारं दास्यति। गुरुवायूर् देवस्वम् अध्यक्षः वि-के- विजयन् कार्यक्रमस्य उद्घाटनं निर्वक्ष्यति।

लोभः सर्वविनाशकः (भागः २३४) – 07-05-2022

EPISODE – 234

नूतना समस्या –

“लोभः सर्वविनाशकः”

ഒന്നാംസ്ഥാനം

“സ്വഭാവോ ഹി മനുഷ്യാണാം
പ്രാഭവസ്യാസ്പദം സദാ
വിഭുരപ്യുന്നതസ്തസ്യ
ലോഭസ്സർവ്വവിനാശക:”

Narayanan N

“അഭിനന്ദനങ്ങൾ”

 

प्रश्नोत्तरम् (भागः २३४) – 07-05-2022

EPISODE – 234

 

 

प्रश्नोत्तरम्।

 

 

 

  1. अध्यापकः – भोः! अहं कृष्णफलके बहूनि चित्राणि ——–। (क) लिखति (ख) लिखसि  (ग) लिखामि
  2. भवन्तः तत् ——–यत्  इच्छति तत्  लिखतु। (क) दृष्ट्वा  (ख) द्रष्टुम्  (ग) दृश्यते 
  3. लता – श्रीमन् ! ——लिखामि उत अङ्कन्या ? (क) लेखनी  (ख) लेखन्यै  (ग) लेखन्या
  4. राधा – ——–अङ्कन्या लिखामि। (क) अहं  (ख) सा  (ग) त्वम्
  5. पवित्रा लेखन्या ——-श्रीमन् ।(क) लिखामि (ख) लिखति  (ग) लिखसि
  6. अञ्जली – श्रीमन् ! अहं कृच्छ्रेण ——– लिखामि किम् ? (क) शृगालं  (ख) शृगालेन  (ग) शृगालस्य
  7. अध्यापकः – ——–यदि शक्नोति  तर्हि वर्णमपि योजयतु। (क) लिखति  (ख) लिखतु  (ग) लिखामि
  8. राघवः – अहम् अङ्कनीं ——–वा न आनीतवान् । (क) लेखनी  (ख) लेखन्या (ग) लेखनीम् 
  9. वेणुः – मम सनीपे द्वे ——–स्तः। (क) अङ्कन्यौ  (ख) अङ्कनी  (ग) अङ्कन्यः
  10. भवान् एकाम् अङ्कनीम् ———। (क) स्वीकुर्वन्तु  (ख) स्वीकुरुताम्  (ग) स्वीकरोतु

 

 

 

Last date: 07-05-2022

 

घर्मविद्वेषभाषणम्- पी-सी- जोर्ज् महाशयः निगृहीतः।

तिरुवनन्तपुरम्- अनन्तपुरी हिन्दुमहासम्मेलनवेदिकायां धर्मविद्वेषभाषणं कृतवान् भूतपूर्व विधानसभासदस्यः पी-सी- जोर्ज् महाशयः आरक्षिदलैः निगृहीतः। तिरुवनन्तपुरं फोर्ट् आरक्षि सहप्रत्यायितेनैव निगृहीतः। ईराट्टुपेट्टायां स्वकीयभवनात् अद्य प्रातः जोर्ज् निगृहीतः।

अस्य भाषणं विरुद्ध्य बहुभिः राजनैतिकदलैः आवेदनं समर्पितमासीत्। अकृत्यव्यवहारनियमे १५३ ए खण्डमनुसृत्यैव तं प्रति व्यवहारः अङ्कितः।