Daily Archives: May 21, 2022

सङ्कलितविद्यालयाः अनिवार्याः- बालाधिकार-आयोगः।

तिरुवनन्तपुरम्-  सामाजिकविनिमयानां बालपाठान् समार्जयितुं सङ्कलितविद्यालयानाम् अनिवार्यता राज्य-बालाधिकार-आयोगेन सूचितम्। बालकानां कृते बालिकानां कृते च पृथक् विद्यालयाः अनावश्यकाः, ते विद्यालयाः सङ्कलितविद्यालयत्वेन परिवर्तनीयाः इति आयोगाध्यक्षः के.वि. मनोज् कुमारः न्यगादीत्।

2009 तमे वर्षे प्रवृत्तिपथमागत्य शिक्षाधिकारनियमस्य राज्यस्तरीयनिर्वहणगधिकारिणां पर्यालोचनाधिवेशने आमुखभाषणं विधास्यन्नासीत् मनोज् कुमारवर्यस्य एष अभिप्रायः। नूतने अध्ययनवर्षे शिक्षाधिकारनियममनुसृत्य शिक्षाकार्याणि प्रचालनीयानि, तदनुसारेण तत्तद्धुरां अधिवेशने निरचिनोत्।

राज्ये अनङ्गीकृताः विद्यालयाः न प्रवर्तन्ते इति दृढीकरणार्थं भालाधिकारायोगस्य साहाय्यं भविष्यति। प्रथमश्रेणी प्रमेहबाधितानां छात्राणां सङ्ख्या वर्धमाना अस्ति इत्यतः विद्यालयेषु इन्सुलिन् स्वीकारासुविधा अवश्यं कर्तव्या इत्यपि अधिवेशने निर्णयः अभवत्।