Daily Archives: May 25, 2022

द्वेषभाषणम्, पी.सी. जार्ज् वर्यः आरक्षिनिग्रहे अस्ति, सः शीघ्रमेव गृहीतः भविष्यति।

तिरुवनन्तपुरम्- समाजस्पर्धां विद्वेषं च विकीर्यमाणं भाषणं कृतवान् इति व्यवहारे पारिभाव्यव्यवस्थाम् उल्लङ्घितवान् सामाजिकचरः पि-सि- जोर्ज् वर्यः आरक्षिनिग्रहे अस्ति। अनन्तपुरि हिन्दुमहासम्मेलने अस्य विवादपरामर्शे एवायं प्रक्रमः।

पूर्वं व्यवहारेस्मिन् गृहीतः पारिभाव्यं लब्ध्वा पुनः पालारिवट्टं प्रदेशेपि समानं भाषणं कृतवान्। अतः पारिभाव्यं निरसनीयम् इति व्यवहाराभियोगस्य आवेगनम् परिगणय्यैव प्राड्विवाकः अद्य पारिभाव्यं निरस्य जोर्ज् वर्यस्य ग्रहणाय अनुमतिं ददौ।

राष्ट्रपतिः रामनाथ कोविन्दवर्यः अद्य केरलेषु पर्यटति।

तिरुवनन्तपुरम्।- राष्ट्रपतिः रामनाथ कोविन्दः अद्य केरलं प्राप्स्यति। द्विदिवसीय पर्यटनार्थमेव राष्ट्रपतिः आगच्छति। सायं 8.30 वादने शङ्खमुखं व्योमसेना विमानपत्तने एव तस्य विमानमागच्छति। अद्य राजभवने विश्रामः। मुख्यमन्त्री पिणरायि विजयन् वर्यः, राज्यपालः आरिफे मुहमेमद् खान् वर्यश्च विमानपत्तने राष्ट्रपतिं प्रत्युद्गमिष्यतः।

आसादी का अमृद् महोत्सवस्य भागत्वेन गुरुवासरे प्रातः राज्यविधानसभायां आयोज्यमानस्य राष्ट्रिय वनिता सामाजिकाधिवेशनस्य उद्घाटनं राष्ट्रपतिः विधास्यति। मध्याह्नभोदनानन्तरं सायं पञ्चवादने दिल्लिं गमिष्यति।