Monthly Archives: March 2022

संस्कृतशिक्षायाः विशिष्टाधिकारिण्यै उपहारसमर्पणम्।

एरणाकुलम्- केरलीय संस्कृतशिक्षाक्षेत्रे श्रद्धेया व्यक्तिः भवति विशिष्टाधिकारिणी डो- टी डी सुनीतीदेवी वर्या। धर्मानुष्ठानमिव स्वकर्म परिगणयन्ती एषा विदुषी केरलीय-संस्कृतछात्राणां शिक्षकाणां च कृते उपकारकाणि बहूनि कार्याणि कृतवती, कुर्वन्ती चास्ति। पञ्चविंशतिवर्षात् पूर्वम् अस्यां पदव्यां नियुक्ता सा स्वकीयैः वैभवै‌ः संस्कृतशिक्षाक्षेत्रे निर्णायकानि परिवर्तनानि समायोजयत्। संस्कृतछात्राणां कृते छात्रवृत्ति परीक्षा, शिक्षकाणां कृते साहित्यरचनाप्रतियोगिता, संभाषणवर्गः इत्यादयः कार्यक्रमेषु केचन सन्ति।

असौ महाशया अगामिनि मेय् मासे वृत्तितः विरमिष्यते। विरामात् पूर्वं एरणाकुले समायोजिते राज्यस्तरीय-संस्कृतसमित्यङ्गानाम् अधिवेशने सा उचितरूपेण उपहृता अभवत्। सार्वजनीनशिक्षानिदेशकः जीवन् बाबूवर्यः तस्यै संस्कृतसमित्यङ्गानाम् उपहारं समार्पयत्। समारोहेस्मिन् राज्यस्तरीयः संस्कृतसमितिकार्यदर्शी एस् श्रीकुमार्, मण्डलस्तरीयकार्यगर्शिनः च सन्निहिताः आसन्।
साहित्यरचनामत्सरे विजेतृणाम् अध्यापकानां कृते उपहारान् साक्ष्यपत्राणि च अस्मिन् समारोहे अदात्।

नश्येत्सर्वं महीतलम् (भागः २२६) – 12-03-2022

EPISODE – 226

नूतना समस्या –

“नश्येत्सर्वं महीतलम्”

ഒന്നാംസ്ഥാനം

“ഉക്രൈൻ റഷ്യാ രണേ ജാതേ
സംഭീതാ: നിതരാം ജനാ:
അണ്വായുധേ പ്രയുക്തേ തു
നശ്യേത് സർവ്വം മഹീതലം”

Narayanan N

“അഭിനന്ദനങ്ങൾ”

 

प्रश्नोत्तरम् (भागः २२६) – 12-03-2022

EPISODE – 226

 

प्रश्नोत्तरम्।

 

 

 

 

 

  1. अध्यापकः – आखिलभारतीयशिक्षकमेलनम् आगामि मासे ———-। (क) भविष्यन्ति  (ख) भविष्यति  (ग) भविष्यतः
  2. तत्र मनोरञ्जन कार्यक्रमान् कर्तुम् अवसरः ———। (क) अस्ति  (ख) स्तः  (ग) सन्ति
  3. दीपकः – तर्हि वयम्  एकं लघुना़टकं ——–। (क) करोमि  (ख) कुर्मः  (ग) कुर्वः
  4. अर्चना – ——-सामूहिकगीतं गायामः। (क) अहं   (ख) आवां  (ग) वयम् 
  5. अरुणः – अहम् एकपात्राभिनयं ——–। (क) करोमि  (ख) कुर्वः (ग) कुर्मः
  6. चेतनः – प्रदर्शिनी आयोजनम् —–वा ? (क) सन्ति  (ख) स्तः  (ग) अस्ति
  7. अध्यापकः – ———प्रदर्शिनी  भविष्यति। (क) महान्  (ख) महती  (ग) महत् 
  8. के तस्य कार्यं ——-। (क) करोति  (ख) कुरुतः  (ग) कुर्वन्ति
  9. अरविन्दः – वयं नूतनानि फलकानि ——। (क) लिखन्ति  (ख) लिखामः  (ग) लिखत
  10. पल्लवी – आवां प्रार्थनां ——। (क) गायावः  (ख) गायामः  (ग) गायामि

ഈയാഴ്ചയിലെ വിജയി

SATHI M

“അഭിനന്ദനങ്ങൾ”

युक्रैने स्थगितानां मोचनाय रूस् राष्ट्रेण अल्पकालीनः सङ्घर्षविरामः घोषितः।

मोस्को- युक्रेन् राष्ट्रे सुमि,खार्खीव, लिवीव् नगरेषु स्थगितान् भारतीयान् बहिरानेतुं रूस् राष्ट्रेण अल्पकालीनः सङ्घर्षविरामः घोषितः। प्रतिरोधमन्त्रालयं समुद्धृत्य रूस् माध्यमाः एव कार्यमिदम् आवेदयन्। प्रान्तसमयः प्रातः 10 वादने एव सङ्घर्षविरामः घोषितः। प्रथमं मरिया पोल्, वोल्डोक्वो इत्येतयोः नगरयोरेव सङ्घर्षविरामः।

     युद्धं समारभ्य दशमे दिने एव सामयिकः सङ्घर्षविरामः अत्र घोषितः। ओपरेशन् गङ्गा परियोजनाद्वारा गतदिनेषु 25000 परिमिताः भारतीयाः बहिरानीताः। इतः परमपि 2000 पर्यन्तं छात्राः सुमि, खर्खीव इत्येतयोः नगरयोः स्थगिताः सन्ति। रक्षादौत्यं मन्दगतावेव,  सङ्घर्षविरामेनैव तान् बहिरानेतुं  शक्यते इति ह्यस्तने विदेशकार्यमन्त्रालयः असूचयदासीत्।

     रूस् राष्ट्रस्य सहयोगमस्ति चेत् स्थगितान् छात्रान् अनायासेन बहिरानेतुं शक्यते। अनेन सङ्घर्षविरामः सामयिकः अपि तस्मिन्नन्तरे स्थगितान् बहिरानेतुं शक्यत इति भारतस्य प्रतीक्ष।

प्रश्नोत्तरम् (भागः २२५)- 05-03-2022

EPISODE – 226

 

प्रश्नोत्तरम्।

 

 

 

 

  1. शकुन्तला – ——–फलं रोचते। (क) मम   (ख) मह्यम्  (ग) अहम्
  2. रागिणी  – मह्यम् आनन्दस्य नृत्यं रोचते। ——–किं रोचते वदतु कार्तिक.
  3. प्रशान्तः – —— सर्वदा निद्रा  रोचते । न वा मालती। (क) मालत्यै  (ख) मालती  (ग) मालत्याः
  4. चूडामणिः – ——-संस्कृतगीतं रोचते। (क) मम  (ख) वयं  (ग) मह्यम्
  5. ——–किं रोचते इति प्रथमं  वदतु। (क) भवती  (ख) भवत्यै  (ग) भवत्याः
  6. मनोरमा – ——-किं रोचते इति कुतूहलं वा ? (क) एतस्यै  (ख) एतस्याः  (ग) एतस्य
  7. सर्वे  मौनेन ——-। (क) उपविशतु  (ख) उपविशतां  (ग) उपविशन्तु
  8. शिक्षिका ———। (क) आगतवान्  (ख) आगतवती  (ग) आगतवन्तः
  9. मदनः – आगच्छतु ——-किं रोचते इति पृच्छामः। (क) तस्याः  (ख) तया (ग) तस्यै
  10. मान्य ! ——–किं रोचते इति वदति वा ? (क) भवत्यै  (ख) भवती  (ग) भवत्याः

 

शासनं बहुदुष्करम् (भागः २२५) – 05-03-2022

EPISODE – 225

नूतना समस्या – 

“शासनं बहुदुष्करम्”

ഒന്നാംസ്ഥാനം

“ഭരണാധിപവർഗ്ഗാണാം
നയവൈകല്യഹേതുനാ
ഭരണീയാസ്തു രുഷ്ടാശ്ചേത്
ശാസനം ബഹുദുഷ്കരം.”

Bhaskaran N K

“അഭിനന്ദനങ്ങൾ”