पादकन्दुकक्रीडायां मञ्जकस्य भञ्जनेन ५० अधिकाः जनाः रुग्णाः। १५ जनानाम् अवस्था गुरुतरा।

मलप्पुरम्- केरलेषु मलप्पुरं जिल्लायां कालिकाव् प्राथमिकविद्यालयक्रीडाङ्गणे समायोजितायाम् अखिलभारतीय पादकन्दुकस्पर्धायां (सप्तजनीनम्) दर्शकमञ्जस्य भञ्जनमभवत्। अपघाते क्रीडादरशनार्थमागताः पञ्चाशदधिकाः जनाः रुग्णाः जाताः। रुग्णाः मञ्जेरी वैद्यकीयकलाशालाचिकित्सालयं नीताः। एषु १५ जनाः अतीवगुरुतरावस्थायां सन्ति। शनिवासरे रात्रावेव अपघातो जातः। मञ्जके सीमातीताः जनाः आसन् इति सूचना अस्ति। अष्टशताधिकाः जनाः स्पर्धां द्रष्टुमागता इति निवेद्यते।

मलप्पुरे अतिप्रशस्ता सप्तजनीन-पादकन्दुकप्रतियोगिता भवतीयम्। अत एव अन्तिमचरणप्रतियोगितायां सीमातीताः जनाः समागताः।

गतदिने सञ्जाता वृष्टिः मञ्जकस्य बलक्षये कारणमभवत् इति प्राथमिकी सूचना।

Leave a Reply

Your email address will not be published. Required fields are marked *