Daily Archives: March 5, 2022

युक्रैने स्थगितानां मोचनाय रूस् राष्ट्रेण अल्पकालीनः सङ्घर्षविरामः घोषितः।

मोस्को- युक्रेन् राष्ट्रे सुमि,खार्खीव, लिवीव् नगरेषु स्थगितान् भारतीयान् बहिरानेतुं रूस् राष्ट्रेण अल्पकालीनः सङ्घर्षविरामः घोषितः। प्रतिरोधमन्त्रालयं समुद्धृत्य रूस् माध्यमाः एव कार्यमिदम् आवेदयन्। प्रान्तसमयः प्रातः 10 वादने एव सङ्घर्षविरामः घोषितः। प्रथमं मरिया पोल्, वोल्डोक्वो इत्येतयोः नगरयोरेव सङ्घर्षविरामः।

     युद्धं समारभ्य दशमे दिने एव सामयिकः सङ्घर्षविरामः अत्र घोषितः। ओपरेशन् गङ्गा परियोजनाद्वारा गतदिनेषु 25000 परिमिताः भारतीयाः बहिरानीताः। इतः परमपि 2000 पर्यन्तं छात्राः सुमि, खर्खीव इत्येतयोः नगरयोः स्थगिताः सन्ति। रक्षादौत्यं मन्दगतावेव,  सङ्घर्षविरामेनैव तान् बहिरानेतुं  शक्यते इति ह्यस्तने विदेशकार्यमन्त्रालयः असूचयदासीत्।

     रूस् राष्ट्रस्य सहयोगमस्ति चेत् स्थगितान् छात्रान् अनायासेन बहिरानेतुं शक्यते। अनेन सङ्घर्षविरामः सामयिकः अपि तस्मिन्नन्तरे स्थगितान् बहिरानेतुं शक्यत इति भारतस्य प्रतीक्ष।