Daily Archives: March 29, 2022

वर्धते जनसञ्चयः (भागः २२९) 02-04-2022

EPISODE – 229

नूतना समस्या-

“वर्धते जनसञ्चयः”

ഒന്നാംസ്ഥാനം

“പ്രജാക്ഷേമം പുരസ്കൃത്യ
യസ്തു നിത്യം പ്രവർതതേ
തസ്യ മാർഗേഷു ഹാ ! പശ്യ
വർധതേ ജനസഞ്ചയഃ”

Radhakrishnan

“അഭിനന്ദനങ്ങൾ”

 

प्रश्नोत्तरम् (भागः २२९) – 02-04-2022

EPISODE – 229

 

प्रश्नोत्तरम्।

 

 

 

 

  1. सुनिता – अहो ! एषः भवत्याः पुत्रः सम्यक् ——-। (क) गायन्ति  (ख) गायतः  (ग) गायति
  2. सः सङ्गीतक्ष्यां ——-किम् ? (क) गच्छति  (ख) गच्छामि (ग) गच्छसि
  3. मालिनी – नैव। तस्य भगिनी गृहे अभ्यासं ——-। (क) करोमि  (ख) करोति  (ग) करोषि
  4. सः श्रद्धया ——-। (क) शृणोति  (ख) शृणुतः  (ग)  शृण्वन्ति
  5. सुनिता – अहं सङ्गीतं बहु ——–। (क) इच्छामि (ख) इच्छति (ग) इच्छसि
  6. मम पुत्री चलचित्रगीतानि सदा ——-। (क) शृणोमि  (ख) शृणोषि  (ग) शृणोति
  7. माधुरी – मम गृहे वयं सर्वे भक्तिगीतानि,भजनानि  अपि ——-। (क) शृण्वन्ति  (ख) शृणुमः  (ग) शृणुथ
  8. सुनिता – मम गृहे  अहम् एका एव गीतं ——-। (क) शृणोषि  (ख) शृणोति  (ग) शृणोमि
  9. अन्ये सर्वे वार्तां ——-। (क) शृण्वन्ति  (ख) शृणुमः  (ग) शृणुथ
  10. माधुरी – ते यथा इच्छन्ति तथा ——–। (क) कुर्मः  (ख) कुरुथ  (ग) कुर्वन्ति

 

 

 

Last date: 02-04-2022

वाचनवसन्तः- पाठशालाग्रन्थालयाय पुस्तकवितरणं सम्पूर्णमभवत्।

तिरुवनन्तपुरम्- २०१८-१९ अध्ययनवर्षादारभ्य क्रियान्विता सर्वकारस्य स्वप्नपरियोजना भवति वाचनवसन्तनामिका ग्रन्थालयनवीकरणपद्धतिः। मुख्यमन्त्रिणः शिक्षामन्त्रिणश्च विशेषतात्पर्यानुसारम् अस्मिन् वर्षेपि सर्वकारस्य शतदिनकर्मयोजनायां परिगणय्य १० कोटिरूप्यकाणां व्ययेन पाठशालाग्रन्थालयपरियोजनां प्रवृत्तिपथमानेतुं निर्णयो जातः।

पूर्वं प्रथमवर्षे सर्वकारीय उच्चविद्यालयानां माध्यमिकविद्यालयानां तथा प्रलये ग्रन्थनष्टमापन्नानां निजीयविद्यालयानां च कृते ६ कोटि रूप्यकाणां व्ययेन पुस्तकानि अदात्। द्वितीयवर्षे धनादत्तनिजीय उच्चविद्यालयानां कृते ४ कोटि रूप्यकाणां व्ययेन पुस्तकानि ददौ।

गते वर्षद्वये अनया परियोजनया पुस्तकानि अलभमानानां विद्यालयानां कृते एव अस्मिन् वर्षे पुस्तकानि वितरीतुं निरणयत्।