Daily Archives: March 20, 2022

प्रश्नोत्तरम् (भागः २२८) – 26-03-2022

EPISODE – 228

 

प्रश्नोत्तरम्।

 

 

 

 

  1. कार्यकर्ता – वेङ्कटेशः इति कश्चन सङ्गणकतन्त्रज्ञः ——। (क) अस्ति  (ख) स्तः  (ग) सन्ति
  2. तस्य गृहम् अत्र अस्ति। तं —— वा भवन्तः? (क) जानाति  (ख) जानीतः  (ग) जानन्ति
  3. गृहस्थः – वेङ्कटेशः इति नाम ——–। (क) श्रुतवन्तः  (ख) श्रुतवान्   (ग) श्रुतवन्तौ
  4. तस्य गृहसंख्यां ——-। (क) वदतु  (ख) वदतां  (ग) वदन्तु
  5. कार्यकर्ता – ——–वेङ्कटेशं  जानामि। (क) वयं  (ख) त्वं  (ग) अहं 
  6. ——–गृहसंख्या ९६७ अस्ति। (क) तस्य  (ख) तस्मै  (ग) तेषु
  7. तस्य इतः बहुसमीपे अस्ति।(क) गृहस्य  (ख) गृहे   (ग) गृहम्
  8. गृहस्थः – वीणे!त्वं वेङ्कटेशं  ——–। (क) जानाति  (ख) जानासि  (ग) जानामि
  9. पश्यतु ——–संख्याम्। (क) एतत्    (ख) एतं   (ग) एतां
  10. वीणा – भवान् अपि  एतं ——–। (क) जानाति  (ख) जानासि  (ग) जानामि

 

 

 

Last date: 26-03-2022

पादकन्दुकक्रीडायां मञ्जकस्य भञ्जनेन ५० अधिकाः जनाः रुग्णाः। १५ जनानाम् अवस्था गुरुतरा।

मलप्पुरम्- केरलेषु मलप्पुरं जिल्लायां कालिकाव् प्राथमिकविद्यालयक्रीडाङ्गणे समायोजितायाम् अखिलभारतीय पादकन्दुकस्पर्धायां (सप्तजनीनम्) दर्शकमञ्जस्य भञ्जनमभवत्। अपघाते क्रीडादरशनार्थमागताः पञ्चाशदधिकाः जनाः रुग्णाः जाताः। रुग्णाः मञ्जेरी वैद्यकीयकलाशालाचिकित्सालयं नीताः। एषु १५ जनाः अतीवगुरुतरावस्थायां सन्ति। शनिवासरे रात्रावेव अपघातो जातः। मञ्जके सीमातीताः जनाः आसन् इति सूचना अस्ति। अष्टशताधिकाः जनाः स्पर्धां द्रष्टुमागता इति निवेद्यते।

मलप्पुरे अतिप्रशस्ता सप्तजनीन-पादकन्दुकप्रतियोगिता भवतीयम्। अत एव अन्तिमचरणप्रतियोगितायां सीमातीताः जनाः समागताः।

गतदिने सञ्जाता वृष्टिः मञ्जकस्य बलक्षये कारणमभवत् इति प्राथमिकी सूचना।