Monthly Archives: November 2021

सप्तसु`मण्डलेषु विद्यालयानां विरामः,परीक्षादिनं परिवर्तितम्

।तिरुवनन्तपुरम्- घोरेषु वृष्टिषु आवर्तितेषु केरले सप्तसु मण्डलेषु विद्यालयाः पिहिताः वर्तन्ते। मण्डलाधिकारिभिः तत्रः विरामः घोषितः। पतितनंतिट्ट्, इटुक्की, कोट्टयम्, आलप्पुषा, तृश्शूर् इत्येतेषु मण्डलेषु सर्वेषां विद्यालयानां विरामः भविष्यति। कलालयान अभिव्याप्यैव विरामः।

कासरगोड् मण्डले तिरुवनन्तपुरस्थेषु नेडुमङ्ङाट्, काट्टाक्कटा, नेय्याट्टिन् करा प्रदेशेशु च विद्यालयानां विरामः भवति।

केरला, एं जी, स्वास्थ्य विश्वविद्यालयानां अद्य प्रचाल्यमानः परीक्षाक्रमः परिवर्तितः

*क्षररहिता संस्कृतभाषा, सा मातृवत् छात्राणाम् उन्नमनाय भवतीती* अश्वति तिरुनाल् गौरी लक्ष्मी भाई तम्पुराट्टी

केरलसंस्कृताध्यापकफेडरेषन् संस्थायाः दायित्वे राज्यस्तरीयवनितासङ्गमं मातृकम् 2021 इति नाम्ना अतिविपुलया रीत्या प्राचलत्। सर्वासां भाषाणां जननी क्षररहिता संस्कृतभाषा, सा मातृवत् छात्राणाम् उन्नमनाय भवतीती, तया भाषया मातृशक्तिरपि प्रचोदिता इति अस्य कार्यक्रमस्य उद्घाटका श्रीमति. अश्वति तिरुनाल् गौरी लक्ष्मी भाई तम्पुराट्टी अवदत्। अधुनातनकाले सङ्घटना नेतृत्वक्षेत्रेषु कार्यं कृतवतः सर्वान् प्रचोदयित्वा, स्वीयानुभवेन शैक्षणिकक्षेत्रं समूलम् आवाहयित्वा, तत्र विशिष्य संस्कृतशिक्षकाणां योगदानं कथं भवेदिति स्वीयवाग्चातुर्येण प्रकटितवती गुरुवायूर् श्रीकृष्णा- कलालयस्य संस्कृतविभागस्य सहाचार्या डा.लक्ष्मी शङ्कर् महाभागा। केरलसंस्कृताध्यापकफेडरेषन् संस्थायाः पूर्वतनसारथिरासीत् स्वर्गीयः श्रीमान् पी.जि अजित्प्रसाद् महाशयः। तस्य चरणपङ्कजेषु श्रद्धाञ्जलिं समर्च्य तस्यानुस्मरणं कृतवान्, केरलसंस्कृताध्यापकफेडरेषन् संस्थायाः राज्यस्तरीयकार्यदर्शी श्री. सी. पि. सनल्चन्द्रन् महाशयः। के.एस्.टि.एफ् संस्थायाः राज्यस्तरीयाध्यक्षः श्री टि के सन्तोष् कुमार् महाशयः, के.डी.एस्.टि.एफ् संस्थायाः राज्यस्तरीयाध्यक्षः श्री पि पद्मनाभन् महाशयः, के.एस्.टि.एफ् संस्थायाः भूतपूर्व उपाध्यक्षा श्रीमति. रतिमहाभागा च आशंसाभाषणं कृतवन्तः। मातृकस्य मुख्यकार्यदर्शिनः श्रीमति षैलजा, श्रीमति विजयलक्ष्मी, श्रीमति कृष्णप्रिया, श्रीमति.रेवती, श्रीमति.सुगिषा, श्रीमति स्मृति च स्वाभिमतान् प्रकटितवन्तः।

प्रश्नोत्तरम् (भागः २१०) – 20-11-2021

EPISODE – 210

 

प्रश्नोत्तरम्।

 

 

 

 

  1. पिता – आगच्छतु ! यात्रा —–आसीत् ? (क) कथम्  (ख) किम्  (ग) कः
  2. जयरामः –  सम्यक् —— तातः। (क) आसन्  (ख) आस्म  (ग) आसीत्
  3. पिता – भवान् कदा मुम्बई ——-। (क) प्राप्तवती (ख) प्राप्तवान्  (ग) प्राप्तवन्तः
  4. जयरामः – अहं सोमवासरे प्रातः सप्त—– एव प्राप्तवान्। (क) वादने  (ख) वादनम्  (ग) वादनस्य
  5. पिता – अनन्तरं ——-किं किं कृतवान् ? (क) भवती  (ख) भवन्तः  (ग) भवान्
  6. जयरामः – ततः ——-गृहं गतवान् । (क) मित्राय  (ख) मित्रे  (ग) मित्रस्य
  7. तत्रैव स्नानं कृत्वा उपाहारं ———। (क) खादितवती  (ख) खादितवान्  (ग) खादितवन्तः
  8. पिता – ——एकः एव गतवान् ? (क) भवान्  (ख) भवती (ग) सा 
  9. जयरामः – नैव । मम मित्रम् अहं च ——-। (क) गतवती  (ख) गतवन्तः  (ग) गतवन्तौ
  10. कार्यक्रमः न —— आसीत् । (क) आरब्धः  (ख) आरब्धा  (ग) आरब्धम्

ഈയാഴ്ചയിലെ വിജയി

SREESHA S K

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Sreesha  S K
  • Maya P R
  • Adithyan K M
  • George Titus
  • Adidev C S

“അഭിനന്ദനങ്ങൾ”

चाञ्चल्यं नाशकारणम्(भागः २०९) – 13-11-2021

EPISODE – 209

नूतना समस्या –

“चाञ्चल्यं नाशकारणम्”

ഒന്നാംസ്ഥാനം

“ലോകത്രയേഽപി ലോകാനാം
നാസ്തി സ്ഥൈര്യസമം ബലം
സ്ഥൈര്യമേവ പരം കാര്യം
ചാഞ്ചല്യം നാശകാരണം”

Aparna

“അഭിനന്ദനങ്ങൾ”

प्रश्नोत्तरम् (भागः २०९) – 13-11-2021

EPISODE – 209

 

प्रश्नोत्तरम्।

 

 

 

  1. अधिकारी – सुधाकर ! शीघ्रं लिपिकारम्  ——–। (क) आह्वयति  (ख) आह्वयतु (ग) आह्वयसि
  2. सुधाकरः – अद्य लिपिकारः ———। (क) नागतवती  (ख) नागतवत्  (ग) नागतवान्
  3. —-हरिद्वारं गतवान्। (क) सः  (ख) सा  (ग) तत्
  4. अधिकारी – ह्यः ——धनम्  आनीतवान्  किम् ? (क) वित्तकोषे  (ख) वित्तकोषतः  (ग) वित्तकोषेण
  5. सुधाकरः – आम् ! ह्यः अहं रमेशः च वित्तकोषं ———-। (क) गतवन्तौ  (ख) गतवती  (ग) गतवन्तः
  6. अधिकारी – ह्यः सर्वे किं किं कार्यं ——-? (क) कृतवान्   (ख) कृतवन्तौ  (ग) कृतवन्तः
  7. सुधाकरः – ह्यः रामगोपालः गणनां ——-। (क) समापितवान्  (ख) समापितवन्तौ  (ग) समापितवन्तः
  8. गीता पत्राणि  ———। (क) लिखितवान्  (ख) लिखितवती  (ग) लिखितवन्तः
  9. अधिकारी – श्रीलता कुत्र ——–। (क)गतवान्  (ख) गतवन्तौ (ग) गतवती
  10. सुधाकरः – श्रीलता अस्वस्था इति ——–। (क) श्रतवती  (ख) श्रुतवान्  (ग) श्रुतवन्तौ

ഈയാഴ്ചയിലെ വിജയി

Ananthakrishnan T G

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Ananthakrishnan T G
  • Bhavya N S
  • Adithya T
  • Adidev C S

“അഭിനന്ദനങ്ങൾ”

जात्यधिक्षेपं कृत्वा मन्दिरे प्रवृत्ताद् अन्नदानकार्यक्रमात् निष्कासिता। तां युवतीं गृहे सम्मिलत् मुख्यमन्त्री स्टालिन्।

चेन्नै- नीचजातीत्यधिक्षिप्य मन्दिरे अन्नदानात् बहिःक्षिप्तां जनजातियुवतीं गृहे अमिलत् तमिल् नाटु मुख्यमन्त्री एं के स्टालिन् वर्यः। चेङ्कल्पेट् मण्डले नरिक्कुरव इरुल समुदायस्थानाम् आवासस्थाने एव मुख्यमन्त्री स्टालिन् समायातः। अस्याः घटनायाः अनन्तरम् अल्पदिवसाभ्यन्तरे मुख्यमन्त्री प्रत्यकरोत्। प्रदेशस्थेभ्य जनेभ्यः निवाससाक्ष्यम् आपूर्तिपत्रं च स वितरीतवान्।

सप्ताहद्वयात् पूर्वं महाबलिपुरे पेरुमाल् मन्दिरे अन्नदानस्वीकारार्थं प्राप्तावसरे अश्वतीं तस्याः शिशुं च निरकासयत्। नरिक्कुरवविभागाः पङ्क्तिभोजने अनर्हाः इत्यासीत् मन्दिराधिकारिणां वादः। एतं प्रतिषिध्य अश्वत्याः वीडियो बहिरागतम्। तदनन्तरं घटनैषा विवादास्पदा सञ्जाता। तदा देवस्वं विभागमन्त्री पी के शेखर् बाबू मन्दिरं प्राप्य अश्वनीं नरिक्कुरवविभागस्थान् अन्यान् च समाहूय तैः साकं भोदनमकरोत्। ततः पश्चादेव मुख्यमन्त्री अश्वत्याः ग्रामे तदीयां वसतिं समायातः।

FIRST BELL CLASSES 9-5

Chapter 5-1

FIRST BELL CLASSES 10-6

Chapter 6-1

श्रीजेष्, नीरज् चोप्र प्रभृतिभ्यः द्वादशक्रीडकेभ्यः खेल् रत्न पुरस्कारः, ३५ क्रीडकेभ्यः अर्जुन पुरस्कारः।

नवदिल्ली- राष्ट्रे परमोन्नतः क्रीडकपुरस्कारः-मेजर् ध्यान् चन्द् खेल् रत्न पुरस्कारः -घोषितः। टोक्यो ओलिम्पिक्स् क्रीडायां कांस्यपदकजेता होक्की क्रीडाङ्करक्षकः केरलीयः पी आर् श्रीजेष्, ओलिम्पिक्स् सुवर्णपतगजेता नीरज् चोप्रा इत्यादयः द्वादशक्रीडकाः पुरस्काराय अर्हाः अभवन्। नवम्बर् १३ दिनाङ्के पुरस्कारान् दास्यति। ३५ कायिकप्रतिभाः अर्जुनपुरस्काराय च अर्हाः अभवन्। केरलीयौ धावकप्रशिक्षकौ टी,पी, ऒसोफ् तथा राधाकृष्णन् नायर् च द्रोणाचार्यपुरस्काराय अर्हावभवताम्।

सार्धैकवर्षस्य विरामानन्तरम् अद्य छात्राः विद्यालयं प्रविशन्ति।

कोषिक्कोट्- सार्धैकवर्षं यावत् पिहिताः केरलीयविद्यालयाः अद्य केरलोत्पत्तिदिने सजीवतां प्राप्नुवन्ति। इदानीं साधारणव्यवहानाननपेक्ष्य जागरूकतायाः पाठोपि छात्रैः अध्यापकैश्च अनुशीलनीयो भवति। प्रतिपालनविरसतामवसीय उत्साहस्य आह्लादस्य च भावं बालकानां मनसि स्फुरितो दृश्यते। बालकेभ्यः नूतनानुभवान् प्रदातुं विद्यालयाः सज्जाः अभवन्। चित्रभित्तयः, अक्षरद्रुमाः, क्रीडाङ्कणानि, तोरणानि च छात्रान् प्रत्युद्गन्तुं सज्जरूपेण तिष्ठन्ति।

छात्रेभ्यः शिक्षकेभ्यश्च पृथक् मार्गनिर्देशाः सन्ति। शिक्षकाणां कृते प्रशिक्षणं सम्पूर्णमभवत्। कोविडनुभवानां विवरणात्मकानि भित्तिपत्राणि, पानीयजलस्य सूचना इत्यादिकम् अध्यापकैः सज्जीकृतम्।

प्रथमं वारद्वयं यावत् मध्याह्नपर्यन्तं कक्ष्या प्रचलिष्यति। सामान्यविरामभिन्नः शनिवासरोपि प्रवृत्तिदिनत्वेन परिगणितः। छात्रान् विविधगणान् कृत्वा कक्ष्या प्रचलति। प्रतिगणं दिनत्रयं अनुस्यूततया विद्यालयमागन्तुम् अनुमतिरस्ति।

भिन्नशेषियुक्ताः छात्राः प्रथमसत्रे विद्यालयं नागच्छेयुः। तेषां कृते अधिजालकक्ष्या प्रचलिष्यति। छात्राणां स्वास्थ्यसंरक्षणाय सर्वाणि कार्याणि शिक्षा-स्वास्थ्य-गृह-तद्देशप्रशासनविभागैः सम्भूय कृतानि वर्तन्ते।