सार्धैकवर्षस्य विरामानन्तरम् अद्य छात्राः विद्यालयं प्रविशन्ति।

कोषिक्कोट्- सार्धैकवर्षं यावत् पिहिताः केरलीयविद्यालयाः अद्य केरलोत्पत्तिदिने सजीवतां प्राप्नुवन्ति। इदानीं साधारणव्यवहानाननपेक्ष्य जागरूकतायाः पाठोपि छात्रैः अध्यापकैश्च अनुशीलनीयो भवति। प्रतिपालनविरसतामवसीय उत्साहस्य आह्लादस्य च भावं बालकानां मनसि स्फुरितो दृश्यते। बालकेभ्यः नूतनानुभवान् प्रदातुं विद्यालयाः सज्जाः अभवन्। चित्रभित्तयः, अक्षरद्रुमाः, क्रीडाङ्कणानि, तोरणानि च छात्रान् प्रत्युद्गन्तुं सज्जरूपेण तिष्ठन्ति।
छात्रेभ्यः शिक्षकेभ्यश्च पृथक् मार्गनिर्देशाः सन्ति। शिक्षकाणां कृते प्रशिक्षणं सम्पूर्णमभवत्। कोविडनुभवानां विवरणात्मकानि भित्तिपत्राणि, पानीयजलस्य सूचना इत्यादिकम् अध्यापकैः सज्जीकृतम्।
प्रथमं वारद्वयं यावत् मध्याह्नपर्यन्तं कक्ष्या प्रचलिष्यति। सामान्यविरामभिन्नः शनिवासरोपि प्रवृत्तिदिनत्वेन परिगणितः। छात्रान् विविधगणान् कृत्वा कक्ष्या प्रचलति। प्रतिगणं दिनत्रयं अनुस्यूततया विद्यालयमागन्तुम् अनुमतिरस्ति।
भिन्नशेषियुक्ताः छात्राः प्रथमसत्रे विद्यालयं नागच्छेयुः। तेषां कृते अधिजालकक्ष्या प्रचलिष्यति। छात्राणां स्वास्थ्यसंरक्षणाय सर्वाणि कार्याणि शिक्षा-स्वास्थ्य-गृह-तद्देशप्रशासनविभागैः सम्भूय कृतानि वर्तन्ते।
Leave a Reply