*क्षररहिता संस्कृतभाषा, सा मातृवत् छात्राणाम् उन्नमनाय भवतीती* अश्वति तिरुनाल् गौरी लक्ष्मी भाई तम्पुराट्टी

केरलसंस्कृताध्यापकफेडरेषन् संस्थायाः दायित्वे राज्यस्तरीयवनितासङ्गमं मातृकम् 2021 इति नाम्ना अतिविपुलया रीत्या प्राचलत्। सर्वासां भाषाणां जननी क्षररहिता संस्कृतभाषा, सा मातृवत् छात्राणाम् उन्नमनाय भवतीती, तया भाषया मातृशक्तिरपि प्रचोदिता इति अस्य कार्यक्रमस्य उद्घाटका श्रीमति. अश्वति तिरुनाल् गौरी लक्ष्मी भाई तम्पुराट्टी अवदत्। अधुनातनकाले सङ्घटना नेतृत्वक्षेत्रेषु कार्यं कृतवतः सर्वान् प्रचोदयित्वा, स्वीयानुभवेन शैक्षणिकक्षेत्रं समूलम् आवाहयित्वा, तत्र विशिष्य संस्कृतशिक्षकाणां योगदानं कथं भवेदिति स्वीयवाग्चातुर्येण प्रकटितवती गुरुवायूर् श्रीकृष्णा- कलालयस्य संस्कृतविभागस्य सहाचार्या डा.लक्ष्मी शङ्कर् महाभागा। केरलसंस्कृताध्यापकफेडरेषन् संस्थायाः पूर्वतनसारथिरासीत् स्वर्गीयः श्रीमान् पी.जि अजित्प्रसाद् महाशयः। तस्य चरणपङ्कजेषु श्रद्धाञ्जलिं समर्च्य तस्यानुस्मरणं कृतवान्, केरलसंस्कृताध्यापकफेडरेषन् संस्थायाः राज्यस्तरीयकार्यदर्शी श्री. सी. पि. सनल्चन्द्रन् महाशयः। के.एस्.टि.एफ् संस्थायाः राज्यस्तरीयाध्यक्षः श्री टि के सन्तोष् कुमार् महाशयः, के.डी.एस्.टि.एफ् संस्थायाः राज्यस्तरीयाध्यक्षः श्री पि पद्मनाभन् महाशयः, के.एस्.टि.एफ् संस्थायाः भूतपूर्व उपाध्यक्षा श्रीमति. रतिमहाभागा च आशंसाभाषणं कृतवन्तः। मातृकस्य मुख्यकार्यदर्शिनः श्रीमति षैलजा, श्रीमति विजयलक्ष्मी, श्रीमति कृष्णप्रिया, श्रीमति.रेवती, श्रीमति.सुगिषा, श्रीमति स्मृति च स्वाभिमतान् प्रकटितवन्तः।

Leave a Reply

Your email address will not be published. Required fields are marked *