Daily Archives: November 19, 2021

कार्षिकनियमान् प्रत्याहरिष्यति इति प्रधानमन्त्री।

नवदिल्ली- विवादास्पदान् कार्षिकनियमान् प्रत्याहर्तुं केन्द्रसर्वकारः निरणयत्। राष्ट्रम् अभिसम्बोधयन् प्रधानमन्त्री नरेन्द्रमोदीवर्यः कार्यमिदं सूचितवान्। गुरुनानाक् जयन्तीदिने एव इदं प्रख्यापनमभवत्।

कार्षिकप्रक्षोभे अनुवर्तमाने नियमप्रत्याहरणार्थं विधेयकम् आगामनि संसत्सम्मेलने लोकसभायां प्रस्तोष्यति। पञ्चाब् उत्तरप्रदेश् इत्यादिषु राज्येषु विधानसभानिर्वाचनम् आगम्यमानमस्ति। आस्यां भूमिकायाम् अयं निर्णयः प्राधान्यमर्हति।