Monthly Archives: May 2021

अजित् प्रसाद् वर्यः कोविडेनापहृतः।

केरल-संस्कृताध्यापक-फेडरेशन् इति शिक्षकसंघस्य सर्वकारीयविभागे महासचिवः तथा कोल्लं कुलत्तूपुषा सर्वकारीण-उच्चतरविद्यालये अध्यापकश्च श्रीमान् पी.जी. अजित् प्रसाद् वर्यः कालयवनिकामगात्। कोविड् बाधया एकस्मिन् निजीय चिकित्सालये चिकित्सायामासीत्।

संस्कृतभाषायाः कृते जीवन् स आजीवं संस्कृतप्रचारणे, संस्कृताध्यापकानां समस्यादूरीकरणे च बद्धश्रद्धः आसीत्। संघस्य सचिव इत्यतः सर्वकाराधिकारिभिः नितरां सम्पर्केण स संस्कृतक्षेत्रे अविस्मरणीयः अभवत्। शास्तांकोट्टा डी.बी. कलालयात् स्नातकोत्तरबिरुदं सम्पाद्य स संस्कृतशिक्षकक्षेत्रं प्रविष्टवान्। संस्कृतपाठपुस्तकसंरचनायां स भागभागभवत्। कैट् विक्टेस् नालिकाद्वारा संस्कृतपाठस्य संप्रेषणाय नितरां स प्रयतितवान्। तस्य देहवियोगः संस्कृतक्षेत्रे महानष्ट एव।
महाशयस्यास्य निर्याणे नववाणीसंघस्य अनुशोचनम् अर्पयामः।

PRASNOTHARAM (भागः १८६) – 05-06-2021

EPISODE – 186

 

प्रश्नोत्तरम्।

 

 

 

 

  1. ——-पत्रं पतति। (क) वृक्षः  (ख) वृक्षे  (ग) वृक्षात्
  2. गङ्गा ——–प्रवहति। (क) हिमालयात्  (ख) हिमालये  (ग) हिमालयस्य
  3. गृहिणी ——-जलम् आनयति। (क) नद्याम्   (ख) नद्याः (ग) नद्या
  4. बालकः ——–तण्डुलम् आनयति। (क) आपणात्  (ख) आपणः  (ग) आपणे
  5. वानरः——पतति। (क) शाखायाम् (ख) शाखा  (ग) शाखायाः
  6. मण्डूकः ——-जले पतति। (क) कूलम्  (ख) कूलात्  (ग) कूलेन
  7. महिला ——–जलम् आकर्षति। (क) कूपः  (ख) कूपे (ग) कूपात्
  8. पुरुषः ——–पङ्कम्  उद्धरति। (क) जलाशयात्  (ख) जलाशये (ग) जलाशयः
  9. चोरः ——–निर्गच्छति। (क) कारागारे  (ख) कारागारस्य  (ग) कारागारात्
  10. जलं ——-निर्गच्छति। (क) मेघः (ख) मेघात्  (ग) मेघे

ഈയാഴ്ചയിലെ വിജയി

Jayasree Subramanian

“അഭിനന്ദനങ്ങൾ”

कोरोणा पुनरागता (भागः १८५) – 29-05-2021

EPISODE – 185

नूतना समस्या –

“कोरोणा पुनरागता”

ഒന്നാംസ്ഥാനം

“പക്ഷഭേദം വിനാ മർത്യാൻ
ഹന്തുമുദ്ദിശ്യ ഭൂതലേ
സംഹാരതാണ്ഡവേ സക്താ
കൊറോണാ പുനരാഗതാ”

Narayanan N

“അഭിനന്ദനങ്ങൾ”

 

PRASNOTHARAM(भागः १८५) 29-05-2021

EPISODE –  185

 

प्रश्नोत्तरम्।

 

 

 

 

  1. जननी ——मिष्टान्नम् आनयति। (क) मयि  (ख) अहं  (ग) मह्यं 
  2. शिक्षकः ——–पुस्तकानि आनयति। (क) छात्राः (ख) छात्रेभ्यः (ग) छात्रेषु
  3. एषा ——-सुधाखण्डम् आनयति। (क) शिक्षकाय (ख) शिक्षके  (ग) शिक्षकः
  4. त्वं ——-मालां क्रीणासि। (क) ते (ख) ताः (ग) तेभ्यः
  5. अहं ——करवस्त्राणि क्रीणामि। (क) तुभ्यं  (ख) तव (ग) त्वयि
  6. जनकः ——–मोदकं नयति। (क) लता  (ख) लतायै (ग) लतायां
  7. रावणः ——क्रुद्ध्यति। (क) रामे  (ख) रामस्य (ग) रामाय
  8. देवाः ——-ईर्ष्यन्ति। (क) राक्षसेभ्यः (ख) राक्षसाः (ग) राक्षसेषु
  9. पूतना ——द्रुह्यति। (क) कृष्णः (ख) कृष्णाय (ग) कृष्णे
  10. चोरः ——-असूयति। (क) सज्जनाः  (ख) सज्जनेषु  (ग) सज्जनेभ्यः

ഈയാഴ്ചയിലെ വിജയി

ADITHYAKRISHNA U

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Adithyakrishna U
  • Bhavya N S
  • Adidev C S

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”

चिप्को आन्दोलननायकः सुन्दर्लाल् बहुगुण वर्यः दिवमगात्।

नवदिल्ली- भारते श्रद्देयः परिस्थितिप्रवर्तकः तथा चिप्को आन्दोलनस्य नायकः, अहिंसा सत्यग्रहः इत्यादीनां गान्धीचिन्तानाम् अनुकर्ता च सुन्दर् लाल् बहुगुण वर्यः कालयवनिकामगात्।

हिमालयसानुषु वनसंरक्षणार्थं बहुकालं स रणमकरोत्। चिप्को आन्दोलनद्वारा जनैः सह आराष्ट्रं परिस्थितिसमस्याविषये प्रक्षोभकार्यक्रमान् व्यतनोत्। वननशीकरणं, जलबन्धः, भूखननं इत्यादि विषये आसीत् तस्यवप्रक्षोभः।

२००९ तमे वर्षे पद्मविभूषण् पुरस्कारेण राष्ट्रं तम् अभ्यनन्दयत्। कोविड् बाधया ऋषिकेशे आसीत् तस्य मृत्युः।

केरले मन्त्रिमण्डलस्य सत्यशपथः अद्य सायं ३.०० वादने।

तिरुवनन्तपुरम्- केरले पिणरायि विजयन् वर्यस्य नेतृत्वे वामपक्षीय-लोकतान्त्रिक-मोर्चा सर्वकारः अद्य सायं ३.०० वादने सत्यशपथं गृहीष्यति। आहत्य २१ मन्त्रिणः भविष्यति। सी.पि.एम्. दलस्य १२, सी.पि.ऐ. दलस्य ४, जनता दल् -एस् -१, केरला कोण्ग्रस्- माणि विभागः -१, एन्.सी.पि-१, लोकतन्त्र केरल कोण्ग्रस्-१, ऐ.एन्.एल्-१ इत्येवं मन्त्रिणां दलक्रमः।

केरलेषु ऐदम्प्राथम्येनैव एकस्या‌ः मोर्चायाः नेतृत्वे कालपरिधिं समाप्य अनुस्यूतप्रशासनं भवति। अत एव मुथ्यमन्त्रिमतिरिच्य न कोपि जनः पूर्वस्मात् मन्त्रिमण्डलात् स्वीकृतः। पूर्वस्मिन् मन्त्रिमण्डले स्थिताः चत्वारः संसदीयः पुनरपि सदस्यत्वेन चिताः आसीत्। निर्वाचनेपि प्रतियोगिनः अधिकाः नूतनाः आसन्।

कोविड् व्यापनहेतोः राज्य सर्वत्र सम्पूर्णपिधानं घोषितमस्ति। विशिष्य राजधान्यां पिधानं त्रिगुणीकृतमप्यस्ति। तथापि परिमितानाम् अङ्गानां सान्निध्ये सेन्ट्रल् स्टेडियं मध्ये सर्वेषां नियुक्तमन्त्रिणां सत्यशपथम् अद्य भविष्यति।

ऐक्यमेव महाबलम् (भागः १८४) – 22-05-2021

EPISODE – 184

नूतना समस्या –

“ऐक्यमेव महाबलम्”

ഒന്നാംസ്ഥാനം

सर्वलोकैः समुद्घुष्टं
सर्वैश्चापि समादृतम् ।
आप्तवाक्यमिदं श्रेष्ठ –
” मैक्यमेव महाबलम् ” ॥

Vijayan V Pattambi

“അഭിനന്ദനങ്ങൾ”

 

PRASNOTHARAM (भागः १८४) 22-05-2021

EPISODE – 184

 

प्रश्नोत्तरम्।

 

 

 

 

  1. ——–कलहः न रोचते। (क) ते   (ख) तस्मै    (ग) तौ
  2. ——–पायसं रोचते। (क) सीतायै  (ख) सीतया  (ग) सीताम्
  3. ——-संस्कृतं रोचते। (क) अस्माकम्  (ख) मम (ग) मह्यम्
  4. ——-मधुरं रोचते । (क) अस्मभ्यम्  (ख) अस्माकम् (ग) अस्मासु
  5. ——-तित्रं रोचते। (क) मालाः  (ख) मालायै  (ग) माले
  6. ——-वादः रोचते। (क) पण्डिताः  (ख) पण्डितौ  (ग) पण्डितेभ्यः
  7. ——-शास्त्रं न रोचते। (क) मूर्खाः (ख) मूर्खेभ्यः  (ग) मूर्खे
  8. ——-अध्यापनं रोचते। (क) अध्यापकाः  (ख) अध्यापकाय (ग) अध्यापकात्
  9. ——-क्रीडा रोचते। (क) पुत्राय  (ख) पुत्रः  (ग) पुत्राः 
  10. ——चित्रं न रोचते । (क) जननी (ख) जनन्यै  (ग) जनन्यः

ഈയാഴ്ചയിലെ വിജയി

BHAVYA N S

“അഭിനന്ദനങ്ങൾ”

बालेभ्यः प्रतिरोधौषधं न दातव्यम्, तदौषधं दरिद्रराष्ट्रेभ्यो ददातु इति विश्व-स्वास्थ्य- संस्था।

जनीव- बालेभ्यो दातुं संभृतं कोविड् प्रतिरोधकं दरिद्रराष्ट्रेभ्यः दातव्यमिति सम्पन्नराष्ट्रं प्रति विश्व-स्वास्थ्य-संस्था। प्रतिरोधकौषधस्य भूरिभागं स्वायत्तीकृतेषु सम्पन्नराष्ट्रेषु अपघातसाध्यतारहितेभ्यो जनेभ्योपि प्रतिरोधकौषधं दत्तम्। केषुचिद्राष्ट्रेषु बालकेभ्यो कुमारकेभ्यश्च प्रतिरोधकं दातुं सन्नह्यते। निर्णयोयं पुनःशोधनीय इति संस्थया सूचितम्।

य़था जनुवरिमासे सूचितम् तथा वाक्सिन् वितरणे असमत्वं सञ्जातम्। दरिद्र-मध्यवर्गराष्ट्रेषु स्वास्थ्यप्रवर्तकानां कृतेपि वाक्सिन् वितरणं न जातम्। आगोलतले १०४ कोटिपरिमिता प्रतिरोधकमात्रा एतावत्पर्यन्तं २१० राष्ट्रेभ्यो दत्तम्। एषु ४४ प्रतिशतं सम्पन्नराष्ट्रेषु वर्तते यत्र जनसंख्या विश्वजनसंख्यायाः १६ प्रतिशतमेव वर्तते इत्यपि संस्थया उक्तम्।

के.आर्. गौरियम्मा निरगात्।

तिरुवनन्तपुरम्- राजनैतिकरंगे विप्लवतारं के.आर्. गौरियम्मा कालकबलीभूता अभवत्। सा १०१ वयस्का आसीत्। श्वाससम्बन्धिना आमयेन अनन्तपुर्यां निजीयचिकित्सालये चिकित्सायामासीत्। अस्याः निर्याणेन एकशतकपर्यन्तं साम्यवादिदलानाम् इतिहासतारम् अस्तमगमत्।

निर्वाचनद्वारा शासनाधिकारं प्राप्ते प्रथमसाम्यवादिमन्त्रिमण्डले इयं अङ्गमासीत्। अतः केरलीयराजनैतिकरंगे अस्याः योगदानं निर्णायकमासीत्। तस्याः आज्ञाशक्तिः शासनवैभवं च अनितरसाधारणमासीत्। प्रथममन्त्रिमण्डले राजस्वविभागस्य मन्त्री इत्यतः केरलीयानां साधारणजनानां कृते उपकारप्रदानि अनेकानि कार्याणि तया कृतानि। केरलीयभूपरिष्करणविधेयकं तेष्वन्यतमं भवति। १९५७तः २००१ पर्यन्तं सा विधानसभासामाजिका आसीत्।

केरलेषु आलप्पुषामण्डले चेर्तलसमीपस्थे अन्धकारनषि ग्रामे १०१९ तमे वर्षे इयं भूजाता अभवत्।