Daily Archives: May 2, 2021

महामहोपाध्यायः प्रोफ. आर्. वासुदेवन् पोट्टी ब्रह्मभूयं प्राप।

तिरुवनन्तपुरम्- संस्कृत-हिन्दी-मलयालं भाषासु अप्रतिमः पण्डितवर्यः महामहोपाध्यायः प्रो.आर्. वासुदेवन् पेट्टी वर्यः अद्य प्रातः दिवंगतः। स ९२ वयस्कः आसीत्। संस्कृतव्याकरणे वेदान्ते साहित्ये च निष्णातः अयं नैकान् ग्रन्थान् प्रणिनाय। सिद्धान्तकौमुदी समासप्रकरणं, स्त्रीप्रत्ययप्रकरणं, कृदन्तप्रकरणं, कारकप्रकरणं सुबन्तप्रकरणं इत्यादीनां बालहितैषिणी नाम व्याख्यानेन पृथक् ग्रन्थाः तेषु केचन भवन्ति।

संस्कृतपाण्डित्ये राष्ट्रपतिपुरस्कारेण अयं बहुमानितः। कालटी श्रीशङ्कराचार्य-संस्कृत-विश्वविद्यालयः विद्या वाचस्पतिबिरुदेन तं बह्वमन्यत। केरलीय-संस्कृतपाठपुस्तकरचनायां अस्य सान्निध्यं बहूपकारकमासीत्। आराष्ट्रं बहवः शिष्याः अस्य सन्ति।
एतस्य वियोगे नववाणीसंघः श्रद्धाञ्जलिम् अर्पयति।

PRASNOTHARAM (भागः १८२) 08-05-2021

EPISODE -182

 

प्रश्नोत्तरम्।

 

 

 

  1. पाचकः ——-तण्डुलान् पचति। (क) बाष्पस्थाली  (ख) बाष्पस्थाल्या (ग) बाष्पस्थाल्याः
  2. सेविका ——शाकं कर्तयति। (क) छुरिकया  (ख) छुरिकायै  (ग) छुरिकायाम्
  3. कर्मकरः ——-वस्तूनि आनयति। (क) वाहनस्य (ख) वाहनम्  (ग) वाहनेन
  4. माता ——–पेषणं करोति। (क) मिश्रकेण  (ख) मिश्रकम् (ग) मिश्रकात्
  5. भगिनी —–जलं सङ्गृह्णाति। (क) घटम्  (ख) घटेन  (ग) घटाः
  6. पाचकः ——- क्वथितम्  आलोडयति। (क) दर्व्या (ख) दर्वी (ग) दर्व्यः
  7. जननी ——–मिष्टान्नं निर्माति। (क) शर्करा (ख) शर्करया (ग) शर्करायाम्
  8. अग्रजा ——–जलम् उष्णीकरोति। (क) अनिलचुल्लिः  (ख) अनिलचुल्लि्याम्  (ग) अनिलचुल्ल्या
  9. माता ——–चायं शोधयति।(क) शोधन्या  (ख) शोधनी  (ग) शोधन्यः
  10. कर्मकरी ——-पात्राणि क्षालयति। (क) जलम्  (ख) जलेन (ग) जलाय

ഈയാഴ്ചയിെല വിജയി

RAMAPRASAD S P

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ:

  • Ramaprasad S P
  • Divyachithran N V
  • Adidev C S
  • Midhila Mohan

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”