Daily Archives: May 11, 2021

के.आर्. गौरियम्मा निरगात्।

तिरुवनन्तपुरम्- राजनैतिकरंगे विप्लवतारं के.आर्. गौरियम्मा कालकबलीभूता अभवत्। सा १०१ वयस्का आसीत्। श्वाससम्बन्धिना आमयेन अनन्तपुर्यां निजीयचिकित्सालये चिकित्सायामासीत्। अस्याः निर्याणेन एकशतकपर्यन्तं साम्यवादिदलानाम् इतिहासतारम् अस्तमगमत्।

निर्वाचनद्वारा शासनाधिकारं प्राप्ते प्रथमसाम्यवादिमन्त्रिमण्डले इयं अङ्गमासीत्। अतः केरलीयराजनैतिकरंगे अस्याः योगदानं निर्णायकमासीत्। तस्याः आज्ञाशक्तिः शासनवैभवं च अनितरसाधारणमासीत्। प्रथममन्त्रिमण्डले राजस्वविभागस्य मन्त्री इत्यतः केरलीयानां साधारणजनानां कृते उपकारप्रदानि अनेकानि कार्याणि तया कृतानि। केरलीयभूपरिष्करणविधेयकं तेष्वन्यतमं भवति। १९५७तः २००१ पर्यन्तं सा विधानसभासामाजिका आसीत्।

केरलेषु आलप्पुषामण्डले चेर्तलसमीपस्थे अन्धकारनषि ग्रामे १०१९ तमे वर्षे इयं भूजाता अभवत्।