Monthly Archives: April 2021

प्रथमः चान्द्रयात्रिकः मैक्किल् कोलिन्स् कालयवनिकां प्राप।

हूस्टण्- मानवः प्रथमतया चन्द्रमण्डले पादविन्यासं कृतवति अप्पोलो -११ दौत्ये त्रयाङ्गेष्वन्यतमः मैक्किल् कोलिन्स् वर्यः बुधवासरे कालकबलितो/भूत्। स ९० वयस्कः आसीत्। १९६० जूलै २० दिनाङ्के आसीत् एषां पादस्पर्शः चन्द्रोपरितले पतित।

१९३० ओक्टोबर् ३१ दिनाङ्के इट्टलि राष्ट्रे कोलिन्स् भूजातः। स्वपितुः मार्गमनुसृत्य एष सैनिकसेवनं स्वीकृतवान्। द्विवारं एष बहिराकाशयात्रां व्यदधात्। प्रथमं जेमिनिव-१० इति दौत्ये द्वितीयं अप्पोलो-११ दौत्ये च।

पापी पातालमापतेत् (भागः १८१) 01-05-2021

EPISODE – 181

नूतना समस्या-

“पापी पातालमापतेत्”

ഒന്നാംസ്ഥാനം

“മരണാസന്നസന്ദർഭേ
പ്രാണവായും നിരുദ്ധ്യ യ:
ക്ഷണം മൃത്യുമവാപ്ത: സ:
പാപീ പാതാളമാപതേത്”

Narayanan N

“അഭിനന്ദനങ്ങൾ”

PRASNOTHARAM (भागः १८१) 01-05-2021

EPISODE – 181

 

प्रश्नोत्तरम्।

 

 

 

 

  1. पाण्डवाः वनवासम् ——–। (क) अनुभूतवान्  (ख) अनुभूतवन्तौ (ग) अनुभूतवन्तः
  2. ते विराटनगरं ——-। (क) गतवन्तः  (ख) गतवन्तौ (ग) गतवान् 
  3. एकं वर्षं अज्ञातवासं ——। (क) यापितवान्   (ख) यापितवन्तः  (ग) यापितवन्तौ
  4. पाण्डवकौरवाः घोरं युद्धं ——। (क) कृतवन्तः  (ख) कृतवन्तौ  (ग) कृतवान् 
  5. अष्टादश दिनानि संग्रामः ——–। (क) प्रचलितवन्तः  (ख) प्रचलितवान्  (ग) प्रचलितवन्तौ
  6. सर्वे कौरवाः मरणं ——–। (क) प्राप्तवान्  (ख) प्राप्तवन्तौ  (ग) प्राप्तवन्तः
  7. युद्धे श्रीकृष्णः पाण्डवानां साहाय्यम् ——–। (क) आचरितवान्   (ख) आचरितवन्तौ (ग) आचरितवन्तः
  8. श्रीकृष्णः अर्जुनं भगवद्गीताम् ——-। (क) उपदिष्टवन्तौ  (ख) उपदिष्टवान्  (ग) उपदिष्टवन्तः
  9. धृतराष्ट्रादयः वनं ——। (क) गतवान्  (ख) गतवन्तौ  (ग) गतवन्तः
  10. दुःखम् असहमानाः पाण्डवाः हिमालयं प्रति  ——। (क) गतवान्  (ख) गतवन्तः  (ग) गतवन्तौ

ഈയാഴ്ചയിലെ വിജയി

Divyachithran N V

“അഭിനന്ദനങ്ങൾ”

ശരിയുത്തരങ്ങൾ:

  1. अनुभूतवन्तः
  2. गतवन्तः
  3. यापितवन्तः
  4. कृतवन्तः
  5. प्रचलितवान्
  6. प्राप्तवन्तः
  7. आचरितवान्
  8. उपदिष्टवान्
  9. गतवन्तः
  10. गतवन्तः

 

कोविड् निवारकस्य मूल्यम्- स्वास्थ्यमन्त्रालयस्य विशदीकरणम्

नवदिल्ली- भारते वितीर्यमानानि कोविड् निवारकाणि प्रतिमात्रं १५० रूप्यकमूल्येन सिरम् इन्स्टिट्यूट् इति संस्थानात् क्रीणाति इति केन्द्रसर्वकारः व्यजिज्ञपत्। स्वास्थ्य-कुटुम्बक्षेम मन्त्रालयः ट्विट्टर् द्वारा शनिवासरे इदम् असूचयत्। एवं क्रीतानि निवारकाणि पूर्ववत् राज्येभ्यः विनामूल्यं वितरीतुम् उद्यमः इत्यपि असूचयत्।
पूणे नगरे स्थितस्य सिरम् इन्स्टिट्यूट् इति संस्थानं निजीयचिकित्सालयेभ्यः कोविड् निवारकं प्रतिमात्रं ६०० रूप्यकमूल्येन विक्रीणाति तत्तु आगोलतले उन्नतं मूल्यमिति आवेदनमासीत्। अतः स्वास्थ्यमन्त्रालयेन विशदीकरणं दत्तम्।

तृशूर् पुरोत्सव‌ः अस्मिन् वर्षे/पि आचाररूपेण आयोज्यते।

तिरुवनन्तपुरम्- कोविड् व्यापनस्य भूमिकायां तृशूर् पूरेत्सवः अस्मिन् वर्षे अपि केवलम् आचाररूपेण आयोजयिष्यति। जनानां प्रवेशः निरुद्धः। सर्वकारस्य मुख्यसचिवेन आयोजिते अधिवेशने एव अयं निर्णयो जात‌ः।

पूरायोजनार्थं मानदण्डः गतसप्ताहे निश्चितः आसीत्। तथापि अधुनातनसाहचर्यं सङ्कीर्णमजायत। तृशूर् मण्डले रोगबाधिाः अधिकाः दृश्यन्ते। परीक्षणे रोगबाधिताः २१ शतमितमतीताः। प्रतिदिनं सहस्राधिकाः जनाः रोगबाधिताः जाताः।

तिरुवम्पाटि पापमेक्काव् देवस्थाने अपि केवलमाचाररूपेण पूरमायोजयितुं सन्नद्धे जाते।

कर्मणः फलमश्नुते (भागः १८०) 24-04-2021

EPISODE – 180

नूतना समस्या –

“कर्मणः फलमश्नुते”

ഒന്നാംസ്ഥാനം

“ഫലപ്രഖ്യാപനം നൂനം
സമീപസ്ഥദിനേ ഭവേത്
ജനാ: കേചിത് വദന്ത്യേവം
കർമണ: ഫലമശ്നുതേ”

Narayanan N

“അഭിനന്ദനങ്ങൾ”

 

PRASNOTHARAM (भागः १८०) 24-04-2021

EPISODE – 180

 

प्रश्नोत्तरम्।

 

 

 

 

  1. देवकी वसुदेवं ———। (क) परिणीतवान्   (ख) परिणीतवती  (ग) परिणीतवत् 
  2. कंसः अशरीरवाणीं ——-। (क) श्रुतवान्  (ख) श्रुतवत्   (ग) श्रुतवती
  3. सः देवकीं कारागारे ——–। (क) स्थापितम्  (ख) स्थापितवती (ग) स्थापितवान् 
  4. तस्याः सर्वान् शिशून् जन्मसमनन्तरम् एव ——–। (क) मारितवान्  (ख) मारितवत्  (ग) मारितवती
  5. एतस्मात् देवकी-वसुदेवौ महत् दुःखम् ——–। (क) अनुभूतवान्  (ख) अनुभूतवान्तौ (ग) अनुभूतवान्तः
  6. किन्तु असहायौ तौ किमपि कर्तुं न ——–। (क) शक्तवान्   (ख) शक्तवान्तः  (ग) शक्तवान्तौ
  7. देवक्याः अष्टमः पुत्रः श्रीकृष्णः दुष्टं कंसं ——-। (क) संहृतवान्  (ख) संहृतवान्तौ  (ग) संहृतवान्तः
  8. पाण्टवाः द्रौपदीं ——। (क) परिणीतवान्  (ख) परिणीतवान्तौ  (ग) परिणीतवान्तः
  9. कौरवैः सह द्यूतक्रीडायां पाण्डवाः पराजयम् ——–। (क) अनुभूतवन्तौ  (ख) अनुभूतवन्तः (ग) अनुभूतवान् 
  10. ते वनं ——। (क) गतवान्  (ख) गतवन्तौ  (ग) गतवन्तः

ഈയാഴ്ചയിലെ വിജയി

ARYA K S

“അഭിനന്ദനങ്ങൾ”

कर्णिकारो विराजते (भागः १७९) – 17-04-2021

EPISODE – 179

नूतना समस्या-

“कर्णिकारो विराजते”

ഒന്നാംസ്ഥാനം

“നഗരേ വാസ്തി വാ ഗ്രാമേ
ഭവനേ വാ കാനനേ പി വാ
സമാധിസ്ഥതപസ്വീവ
കർണികാരോ വിരാജതേ”

Bhaskaran N K

“അഭിനന്ദനങ്ങൾ”

 

PRASNOTHARAM (भागः १७९) 17-04-2021

EPISODE – 179

 

प्रश्नोत्तरम्।

 

 

 

 

  1. आञ्जनेयः अशोकवने सीताम् ——-। (क) अपश्यः  (ख) अपश्यतम्  (ग) अपश्यत्
  2. सः सीतायै रामकथाम् ——-। (क) अश्रावयः (ख) अश्रावयत्  (ग) अश्रावयम् 
  3. आञ्जनेयः रावणं हितवचनम् ——–। (क) अवदन्  (ख) अवदत्  (ग) अवदम् 
  4. सः लङ्काम् ——। (क) अदहत्  (ख) अदहम्   (ग) अदहन् 
  5. रामः रावणम् ——-। (क) अमारयम् (ख) अमारयन्  (ग) अमारयत्
  6. सीतारामयोः मेलनम् ——–। (क) अभवन्  (ख) अभवत्   (ग) अभवम् 
  7. रामः सीताविषयकं लोकापवादम् ——–। (क) अशृणोत्  (ख) अशृण्वन्  (ग) अशृणुताम्
  8. सीताम् ——-। (क) अत्यजन्  (ख) अत्यजताम्  (ग) अत्यजत्
  9. लवकुशयोः जन्म ——-। (क) अभवः  (ख) अभवत् (ग) अभवन्
  10. लवकुशौ  रामचरितम् ——–। (क) अगायत्  (ख) अगायन्  (ग) अगायताम्

ഈയാഴ്ചയിലെ വിജയി

SUMI DAVIS

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • SUMI DAVIS
  • Bhavya N S
  • Adidev C S
  • Ancy Mary Mathew

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”

केरलमुख्यमन्त्री पिणरायि विजयन् वर्यः कोविड् रोगबाधितः अभवत्।

तिरुवनन्तपुरम्- मुख्यमन्त्रिण् पिणरायि विजयन् वर्ये कोविड् बाधा स्थिरीकृता। तस्मिन् रोगलक्षणं प्रकटं न वर्तते। तस्य पुत्री गतदिने रोगबाधिता असीत्। तदनन्तरं मुख्यमन्त्री सम्पर्कनिरोधे आसीत्। अद्य श्रवपरिशोधनायां तस्मिन् रोगबाधा स्थिरीकृता।

अधुना मुख्यमन्त्री स्वगृहे एव वर्तते। अचिरेण तं कोषिक्कोट् वैद्यकीयकलालयातुरालये नेष्यतीति श्रूयते।