Daily Archives: May 30, 2021

अजित् प्रसाद् वर्यः कोविडेनापहृतः।

केरल-संस्कृताध्यापक-फेडरेशन् इति शिक्षकसंघस्य सर्वकारीयविभागे महासचिवः तथा कोल्लं कुलत्तूपुषा सर्वकारीण-उच्चतरविद्यालये अध्यापकश्च श्रीमान् पी.जी. अजित् प्रसाद् वर्यः कालयवनिकामगात्। कोविड् बाधया एकस्मिन् निजीय चिकित्सालये चिकित्सायामासीत्।

संस्कृतभाषायाः कृते जीवन् स आजीवं संस्कृतप्रचारणे, संस्कृताध्यापकानां समस्यादूरीकरणे च बद्धश्रद्धः आसीत्। संघस्य सचिव इत्यतः सर्वकाराधिकारिभिः नितरां सम्पर्केण स संस्कृतक्षेत्रे अविस्मरणीयः अभवत्। शास्तांकोट्टा डी.बी. कलालयात् स्नातकोत्तरबिरुदं सम्पाद्य स संस्कृतशिक्षकक्षेत्रं प्रविष्टवान्। संस्कृतपाठपुस्तकसंरचनायां स भागभागभवत्। कैट् विक्टेस् नालिकाद्वारा संस्कृतपाठस्य संप्रेषणाय नितरां स प्रयतितवान्। तस्य देहवियोगः संस्कृतक्षेत्रे महानष्ट एव।
महाशयस्यास्य निर्याणे नववाणीसंघस्य अनुशोचनम् अर्पयामः।

PRASNOTHARAM (भागः १८६) – 05-06-2021

EPISODE – 186

 

प्रश्नोत्तरम्।

 

 

 

 

  1. ——-पत्रं पतति। (क) वृक्षः  (ख) वृक्षे  (ग) वृक्षात्
  2. गङ्गा ——–प्रवहति। (क) हिमालयात्  (ख) हिमालये  (ग) हिमालयस्य
  3. गृहिणी ——-जलम् आनयति। (क) नद्याम्   (ख) नद्याः (ग) नद्या
  4. बालकः ——–तण्डुलम् आनयति। (क) आपणात्  (ख) आपणः  (ग) आपणे
  5. वानरः——पतति। (क) शाखायाम् (ख) शाखा  (ग) शाखायाः
  6. मण्डूकः ——-जले पतति। (क) कूलम्  (ख) कूलात्  (ग) कूलेन
  7. महिला ——–जलम् आकर्षति। (क) कूपः  (ख) कूपे (ग) कूपात्
  8. पुरुषः ——–पङ्कम्  उद्धरति। (क) जलाशयात्  (ख) जलाशये (ग) जलाशयः
  9. चोरः ——–निर्गच्छति। (क) कारागारे  (ख) कारागारस्य  (ग) कारागारात्
  10. जलं ——-निर्गच्छति। (क) मेघः (ख) मेघात्  (ग) मेघे

ഈയാഴ്ചയിലെ വിജയി

Jayasree Subramanian

“അഭിനന്ദനങ്ങൾ”