Daily Archives: January 17, 2021

मास्तु कृषकरोदनम् (भागः १६७) 23-01-2021

EPISODE – 167

नूतना समस्या-

“मास्तु कृषकरोदनम्”

ഒന്നാംസ്ഥാനം

കൃഷിരാത്മാ ഹി ലോകസ്യ
കൃഷിം മാനയ മാനവ !
കൃഷേരേവ ഹി സംസ്കാരോ
മാസ്തു കൃഷകരോദനം.

Bhaskaran N K

“അഭിനന്ദനങ്ങൾ”

 

PRASNOTHARAM (भागः १६७) 23-01-2021

EPISODE – 167

 

 

प्रश्नोत्तरम्।

 

 

 

  1. बालकः विद्यालयं ———। (क) गतवती  (ख) गतवन्तः  (ग) गतवान्
  2. छात्रः पुस्तकं ———। (क) पठितवान्  (ख) पठितवन्तौ  (ग) पठितवती
  3. पुत्रः पत्रं ——–। (क) लिखितवान्  (ख) लिखितवती (ग) लिखितवन्तः
  4. बालिका नृत्तं ——-। (क) कृतवान् (ख) कृतवती (ग) कृतवन्तः
  5. महिला जलं ——-। (क) पीतवान्  (ख) पीतवत्यौ (ग) पीतवती
  6. मृगाः शीघ्रं ——-। (क)धावितवन्तौ (ख) धावितवत्यः (ग) धावितवन्तः
  7. बालौ चित्रं ——-। (क) दृष्टवन्तौ  (ख) दृष्टवन्तः (ग) दृष्टवत्यः
  8. अजा पर्णं  ——। (क) खादितवान् (ख) खादितवती (ग) खादितवान्तः
  9. बालिकाः ——–। (क) क्रीडितवत्यः  (ख) क्रीडितवन्तः (ग) क्रीडितवन्तौ
  10.  सः फलं ——। (क) खादितवती  (ख) खादितवत्यौ  (ग) खादितवान्

ഈയാഴ്ചയിലെ വിജയി

SEETHU C S

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Seethu C S
  • Abhinand K A
  • Leena K S
  • Arjun Valsan
  • Krishnakumari
  • Adidev C S

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”

कविता – विजयन् वि पट्टाम्पि।

भारतं महनीयम्
— – – – – – – – ———-
भारतं जनायत्तं महनीयं महीतलं
महता प्रयासेन देशिकैः समुद्धृतम् । । ।
शतञ्च तत: पुनस्त्रिंशत्कोटिमिताः
जनाश्च निवसन्ति विभिन्नधर्माश्रयाः । ।
गङ्गया यमुनया पुण्यनिलया कावेर्या च
सन्ततं कलगीतैराशंसा: समार्चिताः ॥
हिमवान्महीधरो भारतसंरक्षक –
श्चोन्नतशिरा भूत्वा उत्तरे विराजते ॥
बलवान् शत्रून् सर्वानुत्तरान् महावीर्यान्
वारणं कृत्वा नित्यं भारतमसेवत ॥
धावयन्त्यो नित्यं पादारविन्दौ भक्त्या
सिन्धुवीचयो हन्त ! देशो∫यं पर्यलालयन् ॥
सागरतीरेष्वेव भारतदेशस्यास्य
वाणिज्यं वृद्धिमाप सुस्थिरं निराश्रयम् ॥
सज्जनो महात्मानः बहवो कृतयत्नाः
जीवनं धन्यं कृत्वा राजन्ते सुरलोके ॥
शङ्करो महागुरुरद्वैतमन्त्रान् कृत्वा
किङ्करानकरोत् स लोकान् धर्माश्रयान् ॥
सत्यमेवात्र नित्यं विजयतेतरामिति
उत्तममुच्चैस्तरं धोषयद्राष्ट्रं चैतत् ॥
ऋषयो बहवश्चासन् धर्मस्य संरक्षकाः
शौनक व्यास शुक गौतम पराशराः ॥
संस्कृतं दिव्यामृतं सज्जनै : संसेवितं
तद्भाषाप्रथितं तद्भारतमहापुण्यम् । .
दीपयन्महीतलं काव्यैश्च शास्त्रादिभिः
शोभते सुभाषितैराचन्द्रतारं देशे ।
भारतमितिहासं महत्तमं पाराशर्यं
सपादलक्षात्मकश्लोकैरलङ्कृतम् ॥
उपदेशसहस्रैस्तदनुदिनं राष्ट्रस्यास्य
जीवनमार्गेष्वद्य बहुभ्यो दीपायते ॥
सुखिनो भवन्तु जनाः देशे∫स्मिन्नहर्निशं
आमयान् विना सर्वे मोदन्तामनारतम् ॥
                                              विजयन् वि पट्टाम्पि