Monthly Archives: November 2020

वंगचलचित्रनटः सौमित्र चाट्टर्जी दिवङ्गतः।

कोल्कत्ता- वंगचलचित्रे विख्यातः नटः  सौमित्र चाट्टर्जी वर्यः कालकबलितः अभववत्। स 85 वयस्कः आसीत्। कोविड् बाधया ओक्टोबर् षष्ठे दिने स चिकित्सालयं नीतः आसीत्। स्व्स्थ्ये सन्निग्धे जाते स तीव्रपरिचरण विभागं नीतः। कोविड् ऋणावस्थां प्राप्तोपि  स मृत्युना अपहृतः।

     सत्यजित् राय वर्येण सह दशकत्रयं यावत् प्रवर्तननिरतः चाट्टर्जीवर्यः वंगचलचित्रे सार्वकालीनः कलाकारः आसीत्। अभिनेता, कविः, लेखकः, निदेशक इत्यादिषु रूपेषु स भारतीयचलचित्रस्य कीर्तिं आविश्वं प्रासारयत्।

     आकाशवाण्यां कर्म कुर्वन् स सत्यजित् राय् वर्येण मैत्रीं सम्पादितवान्। अनेन सौहार्देन स चलचित्ररंगं प्राप्तवान्। सत्यजित् राय वर्यस्य पञ्चजश चलचित्रेषु स नायकः आसीत्।

PRASNOTHARAM (भागः १५८) – 21-11-2020

EPISODE – 158

 

प्रश्नोत्तरम्।

 

 

 

 

  1. ते छात्रे ——-। (क) गच्छाव  (ख) गच्छताम् (ग) गच्छतम्
  2. भवती ——–। (क) पठतु  (ख) पठ  (ग) पठानि
  3. यूयम् ——–। (क) आगच्छाम (ख) आगच्छन्तु (ग) आगच्छत
  4. किं वयं ——-। (क) लिखाम  (ख) लिखन्तु  (ग) लिखत
  5. त्वं ———। (क) जानातु  (ख) जानीहि  (ग) जानानि
  6. भवन्तः ——-। (क) जानीम  (ख) जानीत  (ग) जानन्तु
  7. एते बालकाः तत्र ——-। (क) उपविशन्तु (ख) उपविशाम  (ग) उपविशत
  8. आवाम् अत्र ——–। (क) तिष्ठाम  (ख) तिष्ठताम्  (ग) तिष्ठाव
  9. भवान् एतत् फलं ——–। (क) स्वीकुरु  (ख) स्वीकरोतु  (ग) स्वीकुरुताम्
  10. एषा ——। (क) श़ृणोतु  (ख) शृणु  (ग) शृण्वानि

ഈയാഴ്ചയിലെ വിജയി

KISHOR SHEVDE

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • KRISHNA SHEVDE
  • LEENA K S
  • KRISHNAKUMARI
  • ADEIDEV C S
  • DAWN JOSE

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”

भारतक्रिक्केट् संघः आस्ट्रेलियापर्यटनाय प्रस्थितः।

दुबाय्- नवम्बर् 27 दिनाङ्के आरभमाणाय आस्ट्रेलियापर्यटनाय भारतक्रिक्केट्संघः प्रस्थितः। द्विमासपर्यन्तं आयामं वर्तते भारतस्य आस्ट्रेलियापर्यटनम्। ऐ,पि.एल्. वेलायाम् अवसितायां बयो सेक्यूर् बबिल्तः बहिरागतानि संघाङ्गानि दुबाय्यां सम्मिलितानि आसन्।

     पृथक् वैयक्तिकसुरक्षावस्त्रं धृत्वा तिष्ठतां क्रीडकाणां चित्रं बी.सी.सी.ऐ. संस्थया वहीरानीतम्। आस्ट्रेलियां प्राप्यमाणः संघः प्रथमं सम्पर्करोधने प्रविशति।

     नवम्बर् 27 दिनाङ्के सिड्न्यां प्रथमं एकदिनमत्सरं भविता। आनेन सहैव भारतस्य पर्यटनप्रारम्भ। त्रीणि एकदिनमत्सराणि , त्रीणि 20-20 मत्सराणि, चत्वारि टेस्ट् मत्सराणि च परम्परायां सन्ति।

अमेरिक्कायां पञ्चलक्षं भारतीयानां कृते नागरिकतां प्रदास्यति

वाषिङ्टण्- पञ्चलक्षं प्रवासिभारतीयेभ्यः अमेरिक्कानागरिकप्रदानाय नयरेखां निर्मितवान् नियुक्तः अमेरिक्का राष्ट्रपतिः जो बैडन् वर्यः। विविधेभ्यः राष्ट्रेभ्यः विनाप्रमाममपि अमेरिक्कां  प्राप्तानां 1.1 कोटिपरिमितानां देशान्तरवासिनां कृते  नागरिकताप्रदानाय नियमभेदगतिम् अनेतुमेव बैडन्  वर्यस्य उद्यमः।

     अनेन सह एच्.1.बि प्रभृतीनां वृत्तिसम्बन्धीनां प्रमाणानां संख्याप्रवर्धनायापि उद्यमः आरब्धः। एच्य1यबि विसाायुक्तानां पारिवारिकेभ्यः वृत्तिसम्बन्धिप्रमाणं निरुध्य ट्रम्प् प्रशासनेन आनीतां व्यवस्थां प्रत्यावर्तयितुमपि उद्यमः अस्ति। प्रतिवर्षं 95000 अभयार्थिभ्यः राष्ट्रे प्रवेशनं विधातुमपि निर्णयः अस्ति।

     अमेरिक्कां उद्ग्रथितुं प्रयत्नं कुर्वतां सर्वेषां अमेरिकावासिनाम् अध्यक्षो भवाम्यहमिति विजयप्रभाषणे जो बैडन् वर्येण उक्तम्।

स्थानमेव महाबलम् (भागः १५७) – 14-11-2020

EPISODE – 157

नूतना समस्या-

“स्थानमेव महाबलम्”

ഒന്നാംസ്ഥാനം

“स्वावासेषु वसन्नक्रः
वारणेन्द्रं प्रकर्षति ।
समेषां जीवजालानां
स्थानमेव महाबलम् ॥”

Vijayan V Pattambi

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM (भागः १५७) – 14-11-2011

EPISODE – 157

 

प्रश्नोत्तरम्।

 

 

 

  1. सा फलं ——–। (क) ददाति  (ख) ददासि (ग) ददामि
  2. भवन्तः भोजनं ———। (क) दद्मः  (ख) दत्थ  (ग) ददति
  3. अहं पुष्पं ——–। (क) ददाति  (ख) ददामि  (ग) ददासि
  4. वयं रोटिकां ——–। (क) दद्मः  (ख) दत्थ  (ग) ददति
  5. तौ नाणकं ——-। (क) दद्वः  (ख) दत्थः (ग) दत्तः
  6. आवां शाटिकां ——–। (क) दत्तः  (ख) दत्थः  (ग) दद्वः
  7. त्वं पत्रं ——–। (क) ददामि (ख) ददासि (ग) ददाति
  8. यूयं वस्त्राणि ——–। (क) दत्थ  (ख) ददति  (ग) दद्मः
  9. ताः कण्ठहारं ——–। (क) ददति  (ख) दत्थ (ग) दद्मः
  10. देवः वरं ——-। (क) ददामि  (ख) ददाति (ग) ददासि

ഈയാഴ്ചയിലെ വിജയി

KRISHNAKUMARI

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Krishnakumari
  • Adidev C S
  • Leena K S
  • Lekha G Nair
  • Arhith K S

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”

 

केरलेषु तद्देशप्रशासनाय मतदानस्य समयक्रमः घोषितः।

तिरुवनन्तपुरम्- केरलेषु तद्देशस्वयंप्रशासनस्थापनेषु सामाजिकानां चयनार्थं निर्वाचनस्य समयक्रमः घोषितः। कोविड् मानदण्डमनुसृत्यैव निर्वाचनं भविता। छन्दाकलनाय सोपानत्रयं कल्पितम्।

प्रथमसोपाने तिरुवनन्तपुरम्, कोल्लम्, पत्तनं तिट्टा, आलप्पुषा,इटुक्की मण्डलेषु डिसम्बर् ८ दिनाङ्के निर्वाचनं भविता। द्वितीयसोपाने कोट्टयम्, एरणाकुलम्, तृशूर्, पालक्काट्, वयनाट् मण्डलेषु डिसम्बर् १० दिनाङ्के निर्वाचनं भविष्यति। तृतीयसोपाने मलप्पुरम्, कोषिक्कोट्, कण्णूर्, कासरगोड् इति चतुर्षु मण्डलेषु डिसम्बर् १४ दिनाङ्के निर्वाचनं कल्पितम्। मतगणना डिसम्बर् १६ दिनाङ्के निश्चिता।

कोविड् रोगिणां कृते पत्रालयद्वारा मतदानाय व्यवस्था कल्पिता। कोविड् काले कल्पितं निर्वाचनमित्यतः अस्य निर्वाचनस्य अतीव प्राधान्यमस्ति। निर्वाचनस्य सर्वेषु रङ्गेषु कोविड् मानदण्डः पालनीयः भवति।

निर्वाचनार्थं औद्योगिकं विज्ञापनं नवम्बर् १२ दिनाङ्के भविष्यति। नवम्बर् १२ तः स्थानाशिनः नामनिर्देशं समर्पितुं पारयन्ति। नवम्बर् १९ दिनाङ्के नामनिर्देशनस्य प्रत्यावर्तनाय व्यवस्था अस्ति।

भूमिदानं महादानम् ।

आलूर्/इरिङ्ङालक्कुटा – आजीवं संस्कृतस्य प्रचारकत्वव्रतमापन्न : आलूर चुङ्कन् गृहनाथः श्री. सि.वि. जोस् अल्पमात्र सम्पदः 4 सेन्ट्र भूमिः अङ्गन वाटिकायै समर्पितेति सर्वेषाम् आनन्दाय अलम् । स्वगृहस्य समीपे शिशूनां संरक्षणाय संवर्धनाय च संस्थैका आवश्यकीति समाजस्य अभ्यर्थनां शिरसा वहन्नयं महादानाय सन्नद्धो∫भवत् । माप्राणंं होलिक्रोस् उच्चविद्यालये संस्कृताध्यापकः भवति श्री जोस् महाशयः । ०५-११-२०२० दिनाङ्के स्वगृहसमीपे समायोजितायां लघुसभायां इरिङ्ङालक्कुटा नीयमसभामण्डलं सामाजिकः प्रोफ. के.यु. अरुणन्  महात्मने भूमेः रेखां समार्पयत् । आलूर्  ग्रामपञ्चायत्त्ध्यक्षा श्रीमति सन्ध्या नैसन्, उपाध्यक्षः श्री ए. आर् डेविस् प्रभृतयः  सन्निहिताश्चासन्।

प्रशासनं स्वाधीनं भविष्यति चेत् प्रथमं कर्तव्यं सूचयति जो बैडन् वर्यः

वाषिङ्‍टण्- डी.सी.- अमेरिका प्रशासकनिर्वाचनस्य फलप्रख्यापने पुरोगच्छति सति विजयी भविष्यति चेत् प्रथमं कर्तव्यं स्वयम् उद्घोषयति डमोक्राट्टिक् दलस्य स्थानाशी जो बैडन् वर्यः।

ट्रम्प् वर्यस्य अलीकनिर्णयानां संशोधनं विधास्यतीति बैडन् महोदयः अवदत्। अस्य भागत्वेन पारीस् समयातः प्रत्यावर्तननिर्णयं पुनरालोच्यते इत्यपि तेन निगदितम्। ७७ दिनाभ्यन्तरे पारीस् समया पुनस्स्थाप्यते।

अस्मिन्नन्तरे निर्वाचनस्य विश्वास्यता विनष्टेति रिप्पब्लिक्कन् दलस्य स्थानाशी तथा अधुनातनप्रशासकश्च डोनाल्ट् ट्रम्प् वर्यः अवोचत्। पत्रालयद्वारा आयोजिते मतदाने मृषामतानि अधिकानि इत्यारोप्य ट्रम्प् वर्यः सर्वोच्चन्यायालये व्यवहाराय गतः। अतः अमेरिका निर्वाचनस्य फलप्रख्यापने विलम्बः सुनिश्चितः अभवत्।

केरलीया प्रियङ्का राधाकृष्णन् न्यूसिलान्ट् राष्ट्रे मन्त्री।

वेल्लिङ्‍टण्- न्यूसिलान्ट् सर्वकारे प्रथमतया भारतवंशीया मन्त्री। सा तु केरलीया प्रियङ्का राधाकृष्णन् इत्याख्या। लेबर् पार्टी इति दलस्य सदस्या भवति प्रियङंका। सा सामाजिकविकासः, युवजनक्षेमः सन्नद्धता इत्यादिषु विभागेषु कार्यं करिष्यति। वृत्तिविभागे सहमन्त्रिपदवीमपि सा एव निर्वक्ष्यति।

गते मन्त्रिमण्डले मन्त्रिपदव्यां स्थितायाः जेन्नी सेयिल्सायाः वैयक्तिककार्यदर्शीपदव्यामासीत् प्रियङ्का। लेबर् पार्टी सर्वकारस्य द्वितीये सत्रे उपप्रवक्तृपदवीमपि सा जग्राह।

कोरलेषु एरणाकुलं परवूर् देशीया भवति प्रियङ्का। १४ वर्षाणि यावत् लेबर् पार्टी दलस्य प्रवर्तिका अस्ति।