संस्कृतप्रणयभाजनं पि टि कुरियाकु मास्टर अनुस्मरणम् ।
पावरट्टी साहित्यदीपिका संस्कृत महाविद्यालयस्य स्थापकः भवति संस्कृतप्रणयभाजनं पि टि कुरियाक्कुमास्टर । संस्कृतप्रणयि नस्तस्य पञ्चाशत्तमे चरमवार्षि कावसरे केरल संस्कृत अक्कादमी संस्थया तद्बहुमानार्थं 25000 रुपयकात्मकः पारितोषिकः तथा स्मारकप्रभाषपणञ्च आयोजितमस्ति । धन्ये अस्मिन् मुहूर्ते महदौचित्यमेवैतत् महानुभावस्य जीवितस्य तथा प्रवर्तनानां च स्मरणम् । १८८९ तमे वर्षे अक्तूबूर मासस्य चतुर्थे दिने तृशूर प्रान्ते ओरूमयूर् ग्रामे कुरियाकुमास्टर् जनिमलभत। पुलिकोट्टिल् पोरि ञ्चुतारु तथा वटक्कूट्ट् एलियम्मा चास्तां तस्य पितरौ। ग्रामस्थे प्राथमिकविद्यालये तथा पालयूरु विद्यालये चासीत्तस्य अध्ययनम् ।
औपचारिक पठने अतत्परः आङ्ग्लपठनविरोधी चासौ चावक्काट् बोर्ट् विद्यालये पठनार्थ नियुक्तोfपि तस्मान्निवृत्तः अनौपचारिकरीत्या संस्कृतं पठितुमारभत । काव्य नाटाकदिषु असामान्यां व्युत्पत्तिं सम्पादितवानयं पश्चात् कोषिकोटु देशीयात् वाग्भटानन्द : इति नाम्ना प्रसिद्धात् वयलेलेि कुञ्जिक्कण्णन् गुरुक्कल् इत्याचार्याद् . व्याकरणम् अधीतवान् । ततः१९१० तमे वर्षे कोट्टेककाट पोरिञ्चुपुत्री कोच्चुमट रिया तस्य प्रियपत्नी अभवत् । तस्यां पञ्च अपत्यानि जातानि यानि सर्वाणि यथाकालं संस्कृतपठने नियोजितवान् स भाषास्नेही ।
तदन्तरे कुरियाक्कु मास्टर स्वभवने संस्कृताध्यापनं समारभत । बहवः छात्रास्तत्र पठनाय समागताश्च । १९११ तमे वर्षे समीस्थं मन्दिरं स्वीकृत्य तत्र वैपुल्येन संस्कृत पाठनमायोजयत् । अचिरादेव १९१६ तमे बर्षे तदर्थं मद्रास् सर्वका२स्य अड्डीका२लब्धिश्चाभवत् । ततः १९३२ तमे वर्षे
संस्कृत विद्वान् साहित्यशिरोमणिः इत्यादिषु तत्र अध्ययनं प्रवृत्तम् । वियालयः अयं महाविद्यालयत्वेन परिणतोभवत् । अस्मिन् कर्मणि पुन्नश्शेरी गुरुनाथस्य मार्गदर्शन तस्मै मुपलब्धमासीत् ।
१९३८ तमे वर्षे विद्यालयस्य आवश्यकं भवनस्य तथा भूमेश्च सम्पादनाय मद्रास् सर्वकारसभा सदस्यस्य एन् गोपाल मेनवस्य गणित पण्डितस्य कोरुमास्टर वर्यस्य तथा पावरट्टी ग्रामाघिकारिणः वि जे जोसफ़ वर्यस्य चापि प्रयत्न: सफलो जातः । महाविघालये चास्मि न्१९६६ वर्षपर्यन्तं प्रांशुपालपद मलड्कृतवान् कुरियाकु मास्टर । पूवत्तूर चेलिश्शरी वासु देवन् इलयत् तत्पुत्रः पि सी वासुदेवन् इलयत्, प्रो के पि नारायण पिषारटि, प्रो यम् पि शङ्कुण्णि नायर , प्रो : एन् डि कृष्णनुण्णी , स्वपुत्रौ पि के प्रान्सिस् , के पि जोस् पि श्रीकु मार न् नायर श्रीमती पि के पद्मावती च तत्र अध्यापकवृत्तिमनुष्ठितवत्सु प्रमुखा आसन् । १९७३ वर्षेस्य फेब्रुवरि मासस्य २३ दिनाङ्के स महात्मा मृत्यवशगः अभूत् ।
मनीषिणा कुरियाककुमास्टर वर्येण संस्थापितः साहित्यदीपिका संस्कृतमहाविद्यालय: एव पश्चात् पुरनाटुकरा केन्द्रीय संस्कृत महाविद्यालयरूपेण विकासपरिणाममाप्तः। तदात्वे धर्मान्धताभरिते के२लीयसमाजे संस्कृतपठनमवलम्ब्य नवोत्थानप्रवर्तनेषु आमग्नः कुरियाकुमास्टर आदरणीयो भवति तस्य अनुस्मरणम् अभिमानवर्धकमानन्दजनकञ्च ।
” आजीवं स्वीकृतं येन संस्कृतं जीव नव्रतम्।
अर्पये सादरं तस्मै योगिवर्याय वन्दनम्” ॥
विजयन् वि. पट्टाम्पि
കുര്യാകുമാസ്റ്റർ മഹോദയം അധികൃത്യ ലിഖിതം ലേഖനം വിജ്ഞാനപ്രദം അസ്തി. ഏതദ് പഠിത്വാ തം വരേണ്യം പ്രതി മാമാദര:ദ്വിഗുണീഭൂത:. മഹോദയ, സംസ്കൃത പ്രണയ ഭാജനസ്യ ഭവതാം കീർത്തി:ന കേവലം ഭാരതെ പരന്തു സമസ്തെ ഭൂവനെ പ്രസാരയേത്.
उत्तमं विवरणम्।👌👌👌🌷🙏
കുര്യക്കുമാസ്റ്റർ മഹോദയം പ്രതി ലീഖിതം ലേഖനം വിജ്ഞാനപ്രദം അസ്ഥി, ഏതദ് പഠിത്വാ തം വരേണ്യം പ്രതി മാമദാരഹ:ദ്വിഗുണീഭൂത:. മഹോദയ,സംസ്കൃത പ്രണയഭാജനം ഇതി പ്രഥിതസ്യ ഭവത:നാമ ഉത്തരോത്തരം പ്രശസ്തിം ആപ്നുയാത്.