आशंसा वचनम्।

आशंसा वचनम्॥
संस्कृताध्ययने नित्यं 
संस्कृतस्य प्रचारणे । 
गुरुः नारायणो भाति
 यथा सूर्यो नभस्थले ॥
विनयधनसम्पन्नः
 विमलकुलसम्भव : ।
आजीवं संस्कृताय स
नैजं सर्वं समार्पयत् ॥
  व्याकरणेषु निष्णातः 
काव्यमर्मज्ञवाक्पटुः ।
प्रवेशकस्य व्याख्याता 
निपुणश्च प्रभाषणे ॥
यस्मात्तु  विनयनं लेब्धं 
केन्द्रात् तस्माच्च माचिरम् ।
पारितोषिकसम्प्राप्ति :
कस्मिन्न क्रियते सुखम्॥
 असुलभे मुहूर्तेस्मिन्
सुहृदस्तस्य सज्जनाः ।
परभृत समाः जाताः
वसन्ते मघुना भृशम् ॥
आयुशरोग्यसम्पन्नः
पुत्रपौत्रादिसंयुतः ।
सभार्य : स्नेहसम्पन्नः
वसेच्च शरदां शतम् ॥
विजयन् वि. पट्टाम्पि

 

2 Responses to आशंसा वचनम्।

  1. SANKARANARAYANAN says:

    सम्यक्

  2. ''Narayanan ..N says:

    ഉത്തമേമേവ.
    നാരായണ: എൻ.

Leave a Reply

Your email address will not be published. Required fields are marked *