Category Archives: Online Magazine
धीरदेशाभिमानिनः। Prepared by N. K. Ramachandran
संस्कृत दिनम्
श्रावणो मधुरः प्राप्तः
सर्वेभ्यश्च सुखप्रदः ।
मितशीतप्रदो मासः
कस्य नानन्ददायकः ?
मासेस्मिन् पौर्णमी प्राप्ता
संस्कृतदिनसूचिका ।
संस्कृतज्ञाः वयं जाताः
सन्तुष्ठाः साभिमानिनाः ॥
साहित्यधनिका भाषा
शास्त्रसागरसंभृता ।
काचिन्नास्ति हि लोकेषु
संस्कृतेन समा क्वचित् ॥
स्खालित्यरहिता दिव्या
शुद्धोच्चारणसाधिका ।
पठ्यते यदि भाषेयं
भवतः साहाय्यदायिका ॥
मातेव रक्षति भाषा
पितेव पथदर्शिका ।
भाषेभ्यो भारतीयेभ्यः
पदार्थाब्धिप्रदायिका ॥
पठेयुः संस्कृतं नित्यं
वदेयुः संस्कृतं महत् ।
भवतो रक्षणायैव
संस्कृतस्य चोद्भवः ॥
दिने च मङ्गले भूयात्
हृद्या हि शुभकामना ।
औन्नत्यमतुलं दीप्तं
भूयात्तव सुजीवितम् ॥
( सर्वेभ्य: संस्कृतदिनस्य शुभकामनाः)
Vijayan V Pattambi
छात्रेभ्यो शुभाशंसाः
आरब्धाः खलु विद्याशाला :
शलभाश्चात्र तु प्राप्ताः ।
नानावर्णै : शोभनगात्राः
विकसितनयनाः बालाः ॥
पुस्तकस्यूतैः नव्यसुवस्त्रैः
छत्रैर्वर्णमनोज्ञैः ।
अङ्कणमध्यं सम्प्राप्तास्ते
पुष्पैः मण्डितमखिलम् ॥
घण्टानादश्रवणमुहूर्ते
विशन्तु कक्ष्यामनघाम् ।
प्रणम्य वदत गुरवरमेव
संस्कृतपठनं कार्यम् ॥
सरसमनोज्ञकथाभिः पूर्णं
तावकसंस्कृतकुसुमम् ।
उपदेशशतैः ललितैः हृद्यै:
पुस्तकमेतत्भरितम् ॥
पठतात् संस्कृतं वदतान्नित्यं
संस्कृतभाषामनघाम् ।
लिखतान्मिन्त्र सुन्दरगात्रां
ललितमनोज्ञां भाषाम् ॥
उत्तमछात्राः भवन्तु सर्वै
सज्जनसेवां कुरुत।
भारतराष्ट्रसमुद्वहनाय
प्रयासमखिलं चरत ॥
Vijayan V Pattambi
पुष्पाणि l
केरलगीतम्।
केरवृक्षाणां निचया – देव
केरलनामकराज्यम् ।
काननं क्षेत्रं कदली – हन्त
सर्वहरितकभूमिः ।
नव्यतुलसीं धरन्ती – शीर्षे
कान्तिभरिता सुहासा ।
हेमन्तवस्त्रं धरन्ती मम
कैरली सुन्दरी कन्या ।
नीलाब्धिपर्यन्तां भूमिं : – पश्य
सुन्दरसैकततीरम् ।
कृष्णक्कुरुञ्ञिसुपुष्पै – सर्व-
सानवश्चाम्बरतुल्याः ।
तैय्य कलाकारै :सर्वैः -तथा
वर्णकथाकेलिनृत्तैः
ताललयन्वितनृत्ता : – सर्वे
व्याघ्रकलाकेलिसङ्घाः ।
राज्यमहान्तहृदेषु – हर्ष
यानानि कुर्वन्ति स्वर्धाम् ।
पद्मनाभस्य प्रभायां – भक्ताः
पश्यन्ति सर्पशयनम् ।
केरलं सौन्दर्यपूरात् – देश:
नाकसमानो कथितः ।
Vijayan V Pattambi
संस्कृतदिनगीतम् 2024
संस्कृतजीवनम्
संस्कृतभाषामधुरं पिबतु
मधुरं मधुमधुरम् ।
संस्कृतभाषां श्रृणुतान्नित्यं
मुरलीनिनदसमाम् ।
पठताद्भाषां ललितां सरलां
पावनचरितां ताम्
परमपवित्रां सागरतुल्यां
मधुरां पदललिताम् ।
वदतान्मानव ! संस्कृतभाषां
वीणाक्वणितसमाम्
लिखतान्नितं सरसमनोज्ञां
सारां चार्थभराम् ।
संस्कृतमेतत् जीवनमखिलं
सर्वजनानां मे
तस्मिन्नेव हि सततं भूयात्
स्नेहामृतवर्षम् ॥
Vijayan V Pattambi
प्रार्थये सुमङ्गलम् ।
मित्रका : ! मित्रकाः ! पाठशालां गच्छत
वर्णवस्त्रभूषिताः नव्यस्यूतसंयुताः ।
छत्रमेकं टोपिकाञ्च सञ्चयन्तु सत्वरम्
वर्षकालमस्ति मित्राः ! वर्षणं भविष्यति ।
सावधानं गच्छत यानमार्गमाश्रिताः
प्राप्य लक्ष्यं चावतरन्तु चोत्तमाश्च निर्भयम् ।
गुरुवरान् प्रणम्य भोः वर्गमेत्य सत्वरम्
आश्रयन्तु स्वस्यस्थानमाचरन्तु प्रार्थनाम् ।
संस्कृतं पठन्तु मित्राः संस्कृतं महत्तमम्
सर्वलोकवन्दितं सज्जनैः प्रवर्धितम् ।
संस्कृतेन सन्ततं भाषणं च मित्रकै :
संस्कृतेन सर्वमस्तु संस्कृतेन रक्ष्यते ।
व्यवहरन्तु साधु रीत्या सर्वकालं मित्रका :
उत्तमोत्तमाश्च सन्तु प्रार्थये सुमङ्गलम् ॥
विजयन् वि पट्टाम्पि ।
ജലാഷ്ടകം
ഗ്രീഷ്മാരംഭേ യഥാപൂർവം
സോഷ്ണം ജാതം മഹീതലം!
ജലദിനം സമായാതം (മാർച്ച് 22)
സ്മാരയജ്ജലവൈഭവം!!
ജലാത്തു ജായതെ ജീവ:
ജലേനൈവ വിവർധതെ!
ജലാഭാവേ ഭവേന്നാശ:
ജലം ഹി ജീവനൗഷധം!
കൂപാദ്ധി ജായതെ വാരി
നാളികായാസ്തു കർഹിചിത് !
തത്സർവം സലിലം ഹന്ത
വർഷാദേവ സമുദ്ഗതം!
ജലം ഭൂരി പിബേന്മർത്യ :
ജലം തേ ജീവനൗഷധം!
ജലാഭാവേ ഭവേദ്ദേഹം
സോഷ്ണമസ്വാസ്ഥ്യ പൂരിതം!
ജലം ന മലിനം കുര്യാത്
മൂത്രേണ ച മലേന ച
ജന്തൂനാം സ്നാപനം വർജ്യം
നിദാഘേഷു ജലാശയേ !
അമൃതം ജീവനം തോയം
പയോ ജീവനസാധകം!
നാമാന്തരാണി ചൈതാനി
പ്രസിദ്ധാനി മഹീതലേ !
ജലനാശോ ഭവേന്നൈവ
ജലം തു വിശ്വസംസ്ഥിതം!
രൂപാന്തരമവാപ്യൈതത്
നിലീനം ദേവതാസമം!
ജലാഷ്ടകമിദം നിത്യം
ഹൃദി കൃത്വാ വസേന്നര !
ആചരേച്ച യഥായോഗ്യം
നൂനം ഹി സ്വാസ്ഥ്യവാൻ ഭവേത്!!
Vijayan V Pattambi
नव्यगीतम्।
नव्यगीतम्।
नववर्षीयविभातं जातम्
दृष्टं मे दिनदर्शनपत्रम् ।
उदयास्तमयौ स्वापविनोदौ
जातौ दैनिकरीत्या भुवने ।
नववर्षामृतशुभवचनानि
निर्गलितानि शतशश्चात्र ।
चित्तान्यपि भुवि सर्वजनानां
दीप्तानि खलु नवसूर्यप्रभया ।
अतिवित्तार्जनचिन्ता त्यज्या
साधूनां ते खलु सेवा कार्या ।
परिवारीयं सेवनकार्य
करणीयं खलु भवता सततम् ।
बन्धुजनानथ मित्रजनांश्च
स्वजन समानान् कुरुत हृदिस्थान्
वचनान्यथ खलु क्षेमपराणि
वक्तव्यानि यथोचितरीत्या ॥
गृहिणी पुत्राःपरिपाल्या हि
तेनैवात्र तु जीवनमुक्ति : I
कर्मपरात्र हि मनसा वाचा
करणीया भुवि मानवसेवा ।
द्वेषानखिलान् मानसजन्यान्
त्यक्त्वा चित्तं विमलीकुर्या :।
सर्वानपरान् चात्मसमानान्
मत्वा चित्ते कुरु कर्माणि ॥
स्नेहादेव हि जन्यो लोक :
स्नेहेनेवाभ्युदयो भूयात् ।
स्नेही लभते सर्वसुखानि
नववर्षामृतदिव्यपराणि ॥
विजयन् वि. पट्टाम्बी
केरलं मनोहरम्|
केरलं मनोहरं
चारूवृक्षपूरितम्
हारकं चित्तपद्मनां
भूरिजननिवासिनाम्।
हरितशाद्वलैर्युतं
परित :सागरैर्भरम् ।
केरकेदा२सुन्दरं
वीरजनवर्धकम् ॥
‘ केरल ‘ नामैव सम्पन्नं
केरवृक्षकजालकैं : I
कार्यमेव वन्दनं तस्मै
केरलाय चाहर्निशम् ॥
वन्दनीयमुनिभिः
शङ्करैश्च कविभिः ।
सन्ततं सुसेवितं
सुन्दरं वर्णोद्यानम् ॥
Vijayan V Pattambi
















