Category Archives: News Updates

अस्मिन् वर्षे सर्वकारीण-श्रावणणोत्सवकार्यक्रमान् प्राजहत् इति मुख्यमन्त्री।

तिरुवनन्तपुरम्- प्रलयदुरन्तस्य भूमिकायाम् अस्मिन् वर्षे सर्वकारस्य श्रावणोत्सवकार्यक्रमान् प्रजहाति इति मुख्यमन्त्री पिणरायि विजयन् वर्यः प्रावोचत्। आघोषार्थं विभिन्नानां विभागानां कृते उद्घोषितं धनं प्रलयदुरिताश्वासनिधौ निक्षिप्यते। दुरितबाधितेभ्य साहाय्यदानार्थं सर्वे दत्तमनस्काः भवेयुरिति स अब्रवीत्।

सर्वकारीण-निजीयसंस्थासु विद्यमानाः कर्मकराः द्विदिवसीयपरिमितं वेतनं दुरिताश्वासनिधये दद्युरित्यपि मुख्यमन्त्री अवोचत्। एवं दीयमानं धनं सेवनशुल्कं विना स्वीकर्तुं वित्तकोशाः निर्दिष्टाः सन्ति। जलेपप्लवेन राज्ये २०००० गृहाणि भग्नानि, १०००० कि.मी.पर्यन्तं रथ्याः विनष्टाः इत्यपि स निजगाद।

पूर्वतनलोकसभाध्यक्षः सोमनाथचाट्टर्जीवर्यः दिवंगतः।

कोल्क्कत्ता – भारतस्य पूर्वतनलोकसभाध्यक्षः सि.पि.एम् दलनेता च सोमनाथचाट्टर्जीवर्यः कोल्क्कत्तायां दिवंगतः। गतचत्वारिशद्दिननि यावत्  श्वासनिरुद्धतया चिकित्सालये तीव्रपरिचरणविभागे प्रविष्टः। असमराज्ये तेजपुरे लब्धजन्मनः अस्य पितरौ निर्मल चाट्टर्जी, बीनापाणीदेबी च। दशवारं लोकसभासदस्यत्वेन कर्मनिरतः आसीदयं जनायत्तवादी २००४ तः २००९ पर्यन्तं यु.पि.ए सर्वकारस्य लोकसभाध्यक्षप्राप्त्या आभारतं प्रसिद्धिमाप्तवान्। अस्य भार्या रेणू, अनुराधा अनुषिला च अपत्ये।

नोबेल् पुरस्कृतः साहित्यकारः नेय्पालः दिवंगतः।

लण्टन् – सुप्रसिद्धः आगलेयसाहित्यकारः नोबेल पुरस्कारजेता च वि.एस् नेय्पालः(८५)  दिवंगतः। शनिवासरे लण्टन् नगरस्थायां स्वकीयवसत्यामेवासीदस्य मृतिः। भारजीयवंशजो∫यं  लिपिकारः २००१ तमे वर्षे साहित्यस्य कृते दीयमानेन नोबेलपुरस्कारेण आदृतः  भवति। अनेन त्रिंशदधिकाः ग्रन्था: रचिताः सन्ति। ‘इन् ए फ्री स्टेट्‘ नामकेन नोवल्ग्रन्थेन १९७१ तमे वर्षे बुक्कर् पुरस्कारः अपि अनेन स्वायत्तीकृतः। अयं ग्रन्थः विंशतितमशतकस्य महत्तमेषु १०० ग्रन्थेषु स्थानमवाप। १९९० तमे वर्षे ब्रिट्टीष् सर्वकारेण सर् स्थानमपि पुरस्कृतम्।

केरले आपातकालीनघटनाः निरीक्षितुं केन्द्रिय गृहमन्त्री आगच्छति।

तिरुवनन्तपुरम्- केरलराज्ये दिवसान् यावत् अनुवर्तमानां महतीं वृष्टिं तत्सम्बन्धीन् जलोपप्लवांश्च साक्षादवगन्तुं केन्द्रीयगृहमन्त्री राजनाथसिंह् वर्यः केरलानागच्छति। रविवासरे एव राजाथसिंहस्य नेतृत्वे केन्द्रसंघस्य आगमनम्। प्रलयबाधितप्रदेशे संघस्य सन्दर्शनं भविता। आपातकालीनसाहाय्यं केरलाय दातव्यमिति केरलस्थाः सभासदस्याः गृहमन्त्रिणं न्यवेदयन्।

     सममेव केरलस्य कृते अवश्यं साहाय्यं दास्यति इति केन्द्रसर्वकारः समसूचयत्। प्रधानमन्त्री नरेन्द्रमोदीवर्यः दूरवाणीद्वारा मुख्यमन्त्रिणमाहूय स्थितिगतीः अवालेकयत्। अस्माकं प्रातिवेशिकौ तमिल्नाटु-कर्णाटकप्रदेशौ अपि साहाय्यम् उदघोषयताम्।

इटुक्की सेतौ जलसञ्चयः २३९९ पादाः सञ्जाताः। पिधानोन्नयनार्थं ट्रयल् रण् आयोजयितुम् उद्यमः।

तोडुपुषा- ४८ होराः यावत् अनवरतेन वृष्टिपातेन इटुक्की सेतौ जलसञ्चयः २३९९ पादाः जाताः ट्रयल् रण् आयोजयितुम् उन्नततलाधिवेशने निर्णयः। वृष्टिप्रदेशे वृष्टिः अनुवर्तते इत्यतः अद्य मध्याह्नात् पूर्वं जलसञ्चयः सम्भरणशोषीम् अतिगच्छेयुः। अत एव ट्रयल् रण् आयोजयितुं राज्य वौद्युतनिगमः सज्जो भवति। इटमलयार् सोतोः पिधानम् अद्य प्रातः पञ्चवादने उन्नीतमासीत्। अद्य ११ वादने इटुक्की चेरुतोणी सेतोः एकं पिधानम् उन्नीयते। प्रदेशवासिनः जागरूकाः भवेयुः इति वैद्युतविभागमन्त्री एं.एं. मणीवर्यः अवदत्।

कलैञ्जर् करुणानिधिः दिवंगतः।

चेन्नै- द्राविड मुन्नेट्र कषकं दलस्य अध्यक्षः तथा तमिल् नाटु राज्यस्य भूतपूर्वः मुख्यमन्त्री श्रीमान् एम्. करुणानिधिवर्यः दिवंगतः। चलनचित्रमण्डले चिरप्रतिष्ठः अयं विख्यातः पटकथाकारः आसीत्। वार्धक्यसहजेन आमयेन कावेरी चिकित्सालये चिकित्सायामासीत्। अद्य सायं ६.४० वादने आमयः मूर्छितः, तेन अन्यश्च जातः।

पेरुवनं केरल लक्ष्मी संस्कृतविद्यालय: प्रत्यभिज्ञा प्रतिवार वार्ता।

ओ.एस्. राहुल्।

तृशूर् –  विद्यालये क्रियमाणानां पठननैपुणीनां बहिर्लोकप्रसारणय सर्वे अपि विद्यालयाः समुत्सुकाः भवन्ति। परं विघालयविशेषाणां प्रकाशनाय व्यत्यस्तः  मार्गः एव स्वीकृतः वर्तते केरल लक्ष्मीविद्यालयेन। विघालयीय कार्यक्रमाणां प्रसरणाय संस्कृत भाषया प्रत्यभिज्ञा इति नाम्ना प्रातिवारवार्ता कार्यक्रमं सवैभव सञ्चालयन् वर्तते अत्रत्यः संस्कृताध्यापकः ओ.एस् राहुल्। प्रतिस्प्ताहं विद्यालये प्रवृत्तान् विशिष्टकार्यक्रमान् संगृहय youtube माध्यमेन प्रतिभप्ताहं प्रकाश्यते। विद्यालयीय छात्राः एव वार्तानां संग्रहणं , प्रकाशनं च निर्वहन्तः सन्ति इति विषयः अस्य श्रेष्ठतां वर्धयति। २०१७ वर्षस्य जुण् मासे एव आसीत् प्रत्यभिज्ञा इति youtube दलस्य समारम्भः। अधुना विद्यालयस्य छात्रा: रक्षाकर्तारश्च कार्यक्रमेणानेन संस्कृतकार्येषु विद्यालयकार्येषु च अत्यधिकम् उत्‍साहिनः सन्ति। शस्त्राभिवृध्या संस्कृताभिवृद्धिः इति महत्वपूर्णं लक्ष्यं हृदि निधाय एव अस्य संरम्भस्य समायोजनम्।

कालटिदेशे संस्कृतविश्वविद्यालयकुलपतीनां राष्ट्रस्तरीयसम्मेलनस्य शुभारम्भः।

कालटी- राज्यस्थानां संस्कृतविश्वविद्यालयकुलपतीनां पण्डितानां च राष्ट्रस्तरीयं मेलनं कालटी श्रीशङ्कराचार्यसंस्कृतविश्वविद्यालयस्य मुख्यकेन्द्रे समारभत। सर्वकलाशाला रजतजयन्तीसमारोहस्य भागत्वेनैव द्विदिवसीयं मेलनम्।

संस्कृतपण्डितः तथा ज्ञानपीठविजेता च डो.सत्यव्रतशास्त्री सम्मेलनम् उदघाटयत्। श्रीशङ्कराचार्य-संस्कृतसर्वकलाशाला कुलपतिः डो. धर्मराज् अटाट्ट् वर्यः अध्यक्षः आसीत्। तिरुप्पति राष्ट्रिय-संस्कृतविश्वविद्यालयस्य कुलपतिः प्रोफ. वी. मुरलीधरशर्मा, ओडीषा कटक् जगद्गुरु कृपालु विश्वविद्यालयस्य कुलपतिः डो.एच् रामरत्नम्, हरिद्वार् संस्कृतविश्वविद्यालयस्य कुलपतिः प्रोफ. पीयूष् कान्त् दीक्षित्, रामटेक् कविकुलगुरु-कालिदास-संस्कृत-विश्वविद्यालयस्य कुलपतिः डो. श्रीनिवास वर्खेटि, नाषनल् मिषन् आफ् मानुस्क्रिप्ट् निदेशकः डो. दीपक् त्रिपाठी, कालटी संस्कृतविश्वविद्यालयस्य भूतपूर्वकुलपती डो. एन्.पी. उण्णी, डो.जे. प्रसाद्, केरलकलामण्डलं कुलपतिचरः डो. के.जी. पौलोस् प्रभृतयः अभाषन्त।
कालटी विश्वविद्यालयस्य संगीतविभागच्छात्राणां गीतसपर्यया कार्यक्रमः आरब्धः आसीत्।

तालीपत्ररामायणानां प्रदर्शनं पुरारेखासंसक्षणशाला च।

तिरुवनन्तपुरम्- क्रौञ्चमिथुनयोरेकस्य वियोगे इतरस्य शोक एव रामायणरूपेण आगतः इति कविप्रसिद्धि‌ः। रामस्य अयनमेव रामायणम्। रामस्य जीवितयात्रा प्रथमं काव्यरूपेण आविष्कृतवान् वाल्मीकिमहर्षिः। न केवलं भारते अपि तु समीपस्थानां राष्ट्राणां संस्कृतिषु रामकथायाः प्रबलं स्थानमस्ति। श्रीलंका टिबट्ट् इन्तोनेष्या लावोस् प्रभृतिषु राष्ट्रेषु रामकथायाः प्राभवं द्रष्टुं शक्यते। भारते अपि विभिन्नेषु प्रान्तेषु विभीन्नरूपेण रामायणमस्ति। वंगदेशे कृत्तिवासरीमायणम्, तेलुगु मलयालभाषातययोः अध्यात्मरामायणम्, तमिले कम्परामायणम्, हिन्द्यां तुलसीदासरामायणम् इत्यादीनि तेषु प्रसिद्धानि सन्ति।

केरलेषु प्रचुरप्रचारमस्ति अध्यात्मरामायणस्य। कुलीरमासे गृहेषु तस्यैव पारायणं भवति। तुञ्चत् रामानुजन् एषुत्तच्छन् इति मलयालभाषापितुः भाषानुवादरचनैव पारायणं कुर्वन्ति केरलीयाः। पूर्वस्मिन् काले रामायणस्य बहुस्वरता पालिता आसीत्।

राज्यपुरावस्तुविभागस्य अधीनतायां लब्धानां विविघानां रामायणानां तथा नारायलिखितानाम् अत्यपूर्वाणां ग्रन्थानां च प्रदर्शनं २०१८ आगस्त ८ तमे दिने भविता पुरावस्तु विभागस्य नालन्दाख्ये स्थले स्थितायां सिग्नेच्चर् इति शालायामेव प्रदर्शनमायोजितम्। नियमसभासामाजिक के.मुरलीधरन् वर्यः आध्यक्ष्यं निर्वक्ष्यति। पुरारेखाविभागमन्त्री कटन्नप्पल्लि रीमचन्द्रन् वर्यः प्रदर्शनम् उद्धाटयिष्यति। अस्मिन् समारोहे रामायणस्य कालिकी प्रसक्तिः इति विषये प्रोफ. वी. माधवन् पिल्ला वर्यस्य प्रभाषणमपि आयोजितम् वर्तते।

प्रजातन्त्रे राजनैतिकाक्रमणानां स्थानं नास्ति, राष्ट्रपतिः।

तिरुवनन्तपुरम्- केरलेषु सम्पत्स्यमानान् राजनैतिकान् आक्रमणान् राष्ट्रपतिः रामनाथ कोविन्द् वर्यः शक्तया भाषया अपालपत्।

     सर्वेषु कार्येषु अग्रे सरत्सु केरलेषु एतादृशी हत्या सङ्घर्षश्च निर्भाग्यकरः इति स अवदत्। राजनैतिक कारणेन हत्या विकसनप्रवर्तनान् पश्चात् गमयति। अपि च एतादृशाः सम्भवाः दुष्कीर्तिकराश्च भवन्ति। केरल विधानसभायाः वज्रजयन्तीसमारोहस्य समापनरूपं प्रजातन्त्रस्य उत्सवः इति समारोहम् उद्घाटयन् भाषमाण आसीत् राष्ट्रपतिः।

     त्रिदिवसीयसन्दर्शनार्थं ह्यः सायाह्ने एव राष्ट्रपतिः तिरुवनन्तपुरं प्राप्तः।अद्य श्वश्च केरले विविधेषु कार्यक्रमेषु स भागं भजिष्यति।