Category Archives: News Updates

केरलपुनर्निर्मितिः, ऐक्यराष्ट्रसभानिर्देशम् उपदेशकसमितिः अङ्गीचकार।

तिरुवनन्तपुरम्- प्रलयानन्तरं केरलस्य पुनर्निर्माणविषये ऐक्यराष्टट्रसभायाः निर्देशान् तदर्थं रूपवत्कृता उपदेशकसमितिः अङ्गीचकार। आवेदनं समग्रं तथा सर्वप्रान्तस्पर्शनं चेति समित्यङ्गानामभिप्रायः। नदीसंसक्षणार्थं केरला रिवर् बेसिन् अथोरिट्टी अत्यावश्यकम् इत्यपि अधिवेशने अभिप्रायः समायातः।

     कुट्टनाट् प्रदेशे जनानां जीवनं कार्षिकवृत्तिश्च कथं संरक्षणीयं इति विषये आसूत्रणसमितिः पठनं करिष्यति। जलविभवविभागस्य सहकरणेन भवेत् इदं पठनम्।

     उपदेशकसमितेः द्वितीयम् अघिवेशनमेव ह्यस्तने आयोदितम्। अङ्गानां निर्देशान् समग्रतया अवधार्य आवेदनमायोजयितुं निरणयत्। मुख्यमन्त्री पिणराय् विजयन् वर्यः अध्यक्ष‌ आसीत्।

रोष्नी पद्धतिः राष्ट्रे आदर्शभूता,- मुख्यमन्त्री।

कोच्ची- राज्यान्तरेभ्यः वृत्यर्थं केरलमागतानां कर्मकराणाम् अपत्यानि केरलीयविद्यालयेषु पठन्ति। तेषां पठनगतेः समीकरणाय आसूत्रिता रोष्नी इति पद्धतिः आदर्शपद्धतिर्भवतीति मुख्यमन्त्री पिणरायि विजयन् वर्यः अब्रवीत्।

     पद्धतेः जालपुटस्य उद्घाटनं, समीक्षा इति मलयालभाषापरिज्ञानरेखायाः उद्घाटनं च विधास्यन् भाषमाण आसीत् सः।

     विश्वस्य यस्मिन् कस्मिंश्चित् कोणो स्थित्वा अपि जीवनोपाधेः स्वयमार्जनाय केरलीयाः प्रभवन्ति। अतः वृत्यर्थम् अत्रागतानाम् अतिथिकर्मकराणां विकारसमस्यादीन् स्वयमेवावगन्तुं ते समर्थाः इत्यपि स असूचयत्।

     अतिथिकर्मकराणां कृते सर्वान् अधिकारान् देशभाषाभेदं विना वयं दद्मः, तादृशं राज्यं भवति केरलम् इत्यपि अनेन सूचितम्।

वयलार् पुरस्कारविजेतारं के.वी. मोहन् कुमार् वर्यम् अभ्यनन्दयत्।

तिरुवनन्तपुरम्- सार्वजनीनशिक्षाविभागस्य अधीनतायां स्थिताः विविघाः संस्था‌ एकीभूय आयोजिते अधिवेशने शिक्षा निदेशकः के.वी. मोहन् कुमार् वर्यः अभिनन्दितः। अस्य वर्षस्य वयलार् साहित्य पुरस्कारेण आदृतः आसीत् एषः वर्यः।

     एस.सी.इ.आर्.टी. संस्थायाम् आयोजिते समारोहे शिक्षामन्त्री प्रोफ. रवीन्द्रनाथ् वर्य़ः एनं बह्वमन्यत। जे. प्रसाद् वर्यः स्वागतभाषणमकरोत्। उच्चतरशिक्षा निदेशकः, सीमाट् निदेशकः, कैट् संस्था निदेशकः प्रभृतयः आशंसामर्पयामासुः।

शास्त्ररंगम् इति शास्त्रीयां शिक्षारीतिं प्रचालयिष्यति- शिक्षामन्त्री।

तिरुवनन्तपुरम्- शास्त्रीयशिक्षारीतिः इति विख्यातां शास्त्ररंगं पद्धतिं प्रचालयिष्यतीति शिक्षामन्त्री प्रोफ. सी. रवीन्द्रनाथ् वर्यः अवदत्। छात्राणां नैपुण्यं प्रत्यभिज्ञाय तेषां परिपालनमेव एषा रीतिः।  मनसः अऩ्धविश्वासान् दूरीकृत्य छात्रान् शास्त्रपटून् कुर्यात्।

     छात्राणां चोद्यानि समाधायैव शास्त्ररंगं पुरोगमिष्यति। सार्वजनीन-शिक्षा-संरक्षणयज्ञस्य भागत्वेन आसूत्रिता मुख्या पद्धतिरेषा। छात्राणां सर्गशेषिं प्रत्यभिज्ञाय तेषां नैपुण्यानुसारं संवर्धनमेव यथार्था शिक्षा।

     परन्तु अद्य छात्राणाम् इच्छां विगणय्य मातापितृणां आग्रहानुसारमेव शिक्षां प्रचलति। तामरक्कुलं उच्चतर विद्यीलये शास्त्ररंगं कार्यक्रमस्य उद्घाटनं विधास्यन् भाषमाण आसीत् मन्त्रिवर्यः।

 

वायुमलिनीकरणं, कृतकवृष्टिवर्षापणार्थं केन्द्रीय मलिनीकरण-नियन्त्रणमण्डलम्।

नवदिल्ली- वायुमलिनीकरणस्य क्रमातीतायां वर्धनायां केन्द्रीय-मलिनीकरम-नियन्त्रण मण्डलम् इति संस्था कृतकवृष्टिं वर्षापयितुं प्रयत्नमारभत। एतत् दीपावली समारोहानन्तरं कर्तुं निरचिनोत्। वर्षापातेन अन्तरिक्षे मलिनीकरणं न्यूनं भवेत् इति  अस्याः संस्थायाः प्रतीक्षा।

     राष्ट्रे सर्वाधिकं मलिनीकरणं दिल्लीनगरे एवास्ति। गते दिने अतितरां वायुमलिनीकरणस्थितिं तत्रैव  रेखाङ्कितं वर्तते। दीपावलीसमारोहानन्तरं अस्य स्थितिः एतस्मादपि उच्चश्रेणीं प्राप्स्यति। अस्मिन् साहचर्ये एव अन्तरिक्षे मालिन्यस्य परिमाणन्यूनीकरणार्थं कृतकवृष्टिवर्षापणार्थं संस्था यतते।

     क्लौड् सीडिंग्  इति तान्त्रिकविद्यया एव कृतकवर्षापणं भविता। सिल्वर् अयोडैय्ड्, शुष्कहिमं, लवणम् इत्यादीनि रासपदार्थानि मेघोपरि विकीर्य तेषां भारं वर्धापयित्वा वर्षापणमेव एषा रीतिः।

सिख् धर्मविकारः व्रणीकृतः, सीरो चलचित्रं विरुध्य व्यवहारः।

मुम्बै- षा रू खान् वर्यस्य नूतनचलचित्रं सीरो इत्यस्य प्रचारणचित्रे धर्मविकारः व्रणीकृतः इत्याक्षेपमुन्नीय न्यायालये व्यवहारः। षा रू खान् इति नटं , चलचित्रस्य भूमिकाप्रवर्तकान् च विरुध्यैव व्यवहारः। अकाली दलस्य दिल्ली सदस्यः मजीन्दर् सिंह् सिर्सा वर्यः एव न्यायालये व्यवहारं दत्तवान्। सिख् धर्मस्य आक्षेपयुक्तं कार्यं चलचित्रे अस्तीति स वदति। सिख् धर्मानुयायिभिः उपयुज्यमानः कक्कार् इति आयुधं तेषाम् अवहेलनरूपेण वज्ञापनपत्रे प्रादर्शयत् इति तद्धर्मानुयायिनामारोपः।

सिख् धर्मानुयायिभिः बहुमानरूपेण पश्यमानं तम् आयुधं साधारणरूपेण विज्ञप्तिपत्रे प्रादर्शयत्। एषा प्रवृत्तिः असमीचीना इति मजीन्दर् सिंह् वर्यः वदति स्म।

स्त्रीषु नवोत्थानं न संजातं, केवलं परिष्कार एव सञ्जातः – सारा जोसफ्।

तृशूर् – केरलेषु स्त्रीणां मध्ये नवोत्थानं नाभवत्, केचन परिष्कारा एव केवलं संजात इति विख्याता साहित्यनेत्री सारा जोसफ् वर्या अवदत्। २० तमे दिनाङ्के तृशूर् नगरे सम्पत्स्यमानस्य समत्वसंगमस्य भागत्वेन आमुखभाषणं कुर्वन्ती आसीत् सा।
आद्यकाले नवोत्थानप्रस्थानानि लिङ्गनीतिविषये सामञ्जस्यं स्वीकृतवन्ति। चान्नार् समरादिषु लिङ्गनीति सम्बन्धः आशयः आसीत्। तथापि स आशय़ः पश्चात् उपेक्षितः।
अनन्तरं वामपक्षमन्तर्भूय सर्वे संघटनाः मतदानस्य कृते एव स्त्रीन् गणयामासु। १९८० वर्षात् पश्चादेव स्त्रीविमोचनप्रस्थानानि आविर्भूतानि। अधुनापि पुरुषाधिपत्यम् अन्तरीकृत्यैव शबरिमलादिषु विषयेषु स्त्रीणां प्रवृत्तिः इत्यपि सा अवादीत्।

धर्मनिरपेक्षताभञ्जनार्थम् उद्यमः राज्याय कष्टतरः मुख्यमन्त्री।

कण्णूर – धर्मनिरपेक्षतां नाशयितुं केषाञ्चन परिश्रमः राज्यम् आपदि नेषेयतीति मुख्यमन्त्री पिणरायि विजयन् महाशयः अवदत्। ते धर्मनिरपेक्षतामेव अापदं पश्यन्ति, अत एव ते धर्मनिरपेक्षताभञ्जनम् इच्छन्ति। एतत् अतीव गौरवरूपेण पश्यामः इति स सूचितवान्। रक्षिदलम् आक्रम्य निरवीर्यं कर्तुं ते परिश्रमं कुर्वन्ति। एषा अवस्था प्रजातन्त्रसमाजेन  एकीभूय प्रतिरोद्धव्या। जाति-धर्मरूपेण रक्षिदलस्य वृत्तयः ते निरीक्षन्ते। परं रक्षिदलस्य एका जातिः एकैव धर्मः स रक्षिदलमेव  इत्यपि स असूचयत्।  धर्मनिरपेक्षतायै रक्षिदलस्य परिश्रमः श्लाघनीय इत्यपि मुख्यमन्त्री अवदत्।

अद्य केरलराज्यस्य जन्मदिनम्।

केरलराज्यं रूपवत्कृतं नवम्बर् १ दिनाङ्कः केरलजन्मदिनत्वेनाचर्यते। १९५७ तमे वर्षे भारतं ब्रिट्टन् शासनात् मुक्तमभवत्। ततः आरभ्य ऐक्यकेरलार्थं प्रक्षोभाः शक्तमभवन्। १९५६ तमे वर्षे राज्यपुन‌ःसंघटनानियमम् अनुसृत्यैव केरलं इतराणि राज्यानि च रूपवत्कृतानि। भाषायाः आधारेणैव एषा पुनःसंघटना जाता। तिरुवितांकूर् कोच्ची राज्यानि मद्रास् प्रविश्यायाः भागभूतः मलबार् प्रदेशः एवं मलयालं मुख्यभाषारूपेण स्वीकृतान् प्रदेशान् संयोज्य १९५६ नवम्बर् प्रथमे दिने केरलराज्य रूपवदकरोत्।

केरलराज्ये रूपीकृते भारतस्य १४ राज्येषु लघुतमं राज्यमासीत् केरलम्। केवलं ५ पञ्च मण्डलान्येव अस्मिन्नासीत्। तथापि शिॆक्षाक्षेत्रे अग्रेसरमासीत् केरलराज्यम्।
फसल् अलि वर्यस्य नेतृत्वे सर्दार् के.एं. पणिक्कर्, हृदयनाथ कुण्ड्रु एतौ अङ्गत्वेन च पुनःसंघटना आयोगः रूपवत्कृत आसीत् १९५३ तमे वर्षे। १९५५ तमे वर्षे आयोगस्य आवेदनं समर्पितम्। तस्मिन् केरलराज्य-रूपवत्करणार्थं निदेशमासीत्।

नवम्बर् प्रथमे दिने श्री चित्तिरतिरुनाल् महाराजः तिरुक्कोच्चि राजप्रमुखस्थानात् विरराम। राजप्रमुखस्य स्थाने बी. रामकृष्णरावु प्रथमः राज्यपालो बभूव। प्रथमं निर्वाचनं १९५७ फिब्रुवरी २७ दिनाङ्के संजातम्।

विश्वे बृहत्तमा प्रतिमा प्रधानमन्त्री राष्ट्राय समार्पयत्।

अहम्मदाबाद् – सर्दार् वल्लभभाय् पट्टेल् वर्यस्य प्रतिमां स्टाच्यू आफ् यूणिट्टी नामिकां प्रधानमन्त्री नरेन्द्रमोदीवर्यः राष्ट्राय समर्पितवान्।

     विश्वे बृहत्तमा एषा प्रतिमा गुर्जरे नर्मदानद्यां सरोवर् जलबन्धस्याभिमुखमेव निर्मिता वर्तते। अस्याः उन्नतिः १८२ मीट्टर् परिमिता वर्तते। अमेरिक्कायाः स्टाच्यू आफ् लिबर्टी नामिकायाः प्रतिमायाः सार्धद्विगुणीकृता उन्नतिरेव पट्टेल् प्रतिमायाः अस्ति।

     प्रतिमायाः समीपं निर्मितम् ऐक्यस्य प्राकारमपि प्रधानमन्त्री उदघाटयत्। उद्घाटनवेलायां वायुसेनाविमानानि आकाशे त्रिवर्णपताकां व्यरचयन्। एतद् अतिकुतुकावहमासीत्।

     सर्दार् पट्टेल् म्यूसियम्, अधिवेशनकेन्द्रं, कुसुमानामुपत्यका प्रभृतयः नैकाः पद्धतयः प्रतिमासमुच्चये अन्तर्भवति।

     गुर्जरे दरिद्रतमा नानापिपाली स्थले एव ३००० कोटि रूप्यकाणि व्ययीकृत्य प्रतिमामेनां निरमादिति विमर्शकाः वदन्ति। प्रतिमया सह त्रिनक्षत्रवसतिगृहं गवेषणकेन्द्रं वस्तुसंग्रहालयः(म्यूसियम्) इत्यादीनां निर्माणमपि लक्ष्यीक्रियते।