Category Archives: News Updates

तया इति संस्कृतचलच्चित्रं अन्ताराष्ट्रचलच्चित्रोत्सवे प्रदर्शयिष्यति।

तृशूर्- श्रीगोकुलं चलचित्रपताकाभूमिकायां श्रीमता गोगुलं गोपालेन प्रायोजितं डो जि प्रभावर्येण निदेशितं तया इति संस्कृतचलचित्रम् अन्ताराष्ट्रचलचित्रोत्सवे भागं भजते। कोस्टारिक्कायां सान्जोस् अन्ताराष्ट्र चलचित्रोत्सवः, ब्रसीले बस् विष्यस् अन्ताराष्ट्रचलचित्रोत्सवः, ओस्ट्रेलियायां टैटन् चलचित्रोत्सवः, लण्टन् चलचित्रोत्सवः, आफ्रिक्का चलचित्रोत्सवः इत्यादिषु चलचित्रमिदं प्रदर्शयिष्यति।

पूर्वं नेचर्लान्ट् चलचित्रोत्सवेषु चितमिदं चलचित्रम्। भारतेषु कोल्कत्ता, पूणे, दिल्ली इत्यादिस्थलेषु अन्ताराष्ट्रचलचित्रोत्सवार्थमपि चितमासीत्।

केरलीये इतिहासे प्रसिद्धा कुरियेटत्त् तात्री इत्यस्याः जीवनकथा पृथक् वीक्षणकोणे अस्मिन् चलचित्रे अवतार्यते।

कैरलीचलचित्रे प्रसिद्धाः नेटुमुटि वेणु, अनुमोल्, नेल्लियोट् वासुदेवन् प्रभृतयः अभिनेतारः चलचित्रेस्मिन् विविधानि कथापात्राणि अवतारयन्ति।

विद्यालयेषु सूचनाप्रौद्योगिकाध्ययनम्- केरलस्य श्रेष्ठता।

नवदिल्ली- विद्यालयीयशिक्षणे केरलराज्यं राष्ट्रियश्रेष्ठतामवाप। छात्राणां कृते सङ्गणकं, अन्तर्जालं, प्रोजेक्टर् इत्यादीनां सौविद्यप्रदाने केरलराज्यं श्रेष्ठतामवाप इति केन्द्रीय-शिक्षामन्त्रालयस्य आवेदनम्।

२०२१-२२ वर्षे य-डि-ऐ-एस-इ संस्थायाः अवलोकनावेदने एवायं विषयः सूचितः। विद्यालयेभ्य संगणकयन्त्रप्रदाने ९९.६ शतमितं श्रेष्ठतया पञ्चाबराज्यं प्रथमस्थानमवाप। तद्राज्यं सर्वेभ्यो सर्वकारीणविद्यालयेभ्यो सङ्गणकयन्त्रं प्रादात्। परं सर्वकारीणधनादत्तविद्यालयेभ्भ्यो केवलं ९२.४ शतमितमेव तेषां स्थानम्। तत्र प्रथमस्थानं केरलमवाप।

राज्यस्तरीयः विद्यालयीयकलोत्सवः जनुवरिमासे कोषिक्कोच् नगरे सम्पत्स्यते।

कोषिक्कोट्- केरलेषु राज्य-विद्यालयीयकलोत्सवः २०२३ जनुवरिमासस्य तृतीयदिनाङ्कात् सप्तमदिनाङ्कं यावत् कोषिक्कोट् नगरे आयोजयिष्यति। वेस्ट् हिल् विक्रं केलिस्थलमेव मुख्या वेदिका भविता। विविधमण्डलस्थेभ्यः विद्यालयेभ्यः १४००० छात्राः कौमारकलाप्रतियोगितासु भागभाजः भवितारः।

१९५६ तमे वर्षे समारब्धः अयं कलोत्सवः एष्याभूखण्डे बृहत्तम‌ः कौमारकलोत्सवः इति विशिष्यते। कोविड् महामारिकारणेन वर्षद्वयपर्यन्तं विराममभवत्। अस्मिन् वर्षे यथाविधि मत्सराः भविष्यन्ति।

इतः पूर्वं २०२० जनुवरिमासे आयोजिते कलोत्सवे पालक्काट् मण्डलं प्रथमस्थानमावहत्।

संस्कृतप्रणयभाजनं पि टी कुरियाक्कुमास्टर् अनुस्मरणम् ।

पावरट्टी – साहित्यदीपिका संस्कृत विद्यालयसंस्थापकस्य संस्कृतप्रणयभाजनस्य पि टी कुरियाक्कुमास्टर् वर्यस्य अनुस्मरणं तन्नाम्नि आयोजितस्य पारितोषिकस्य समर्पणञ्च सुसम्पन्नम् । गुरुवायूर परिसरे समायोजितां सभां

केन्द्रीय संस्कृत सर्वकलाशालाया: वि सी प्रो: श्रीनिवास वरखेडीवर्यः उदघाटयत् । संस्कृत अक्कादमी अध्यक्ष: डा. के टी माधवन् अध्यक्ष पदमलङ्कृतवान् । कोषिक्कोट् सर्वकलाशालायाः संस्कृतविभाग अध्यक्षपदाद् विरताय डो पि नारायणन् नम्पूतिरिमहोदयाय तेन पुरस्कारश्च समर्पितः। 25000 रुप्यकाणि प्रशस्तिपत्रं फलकं च भवति पुरस्का२स्वरूपम्। कालटि श्रीशङ्कराचार्य संस्कृत सर्वकलाशालाया: वि सी  डा एम वी नारायणः मुख्यं भाषणमकरोत् । प्रो. के एल् सेबास्थ्यन् कुरियाककु मास्टर अनुस्मरणप्रभाषणं निरवहत् । डा. पि सी मुरलीमाधवन् गुस्वायूर केन्द्रस्य निदेशक: डा ललित कुमा२ साहु, डा सी टी फ्रान्सीस्, डो एम् वी नटेशन्, गुरुवायूर देवस्वम् अध्यक्षः डा वि के विजयन्, अध्यापकप्रतिनिधयः छात्रप्रतिनिधियश्च भाषितवन्तः ।

पुरनाट्टुकरायां समायोजिता अनुसमरणसभा अन्यूना प्रौढोज्वला चासीत् । प्रतिवर्षम् अनुस्मणं तथा पुरस्कारसमर्पणम् च प्रचलिष्यतीति सङ्घटकाः अवदन् ।

राष्ट्रिय कायिकक्रीडापुरस्कारः घोषितः। शरत् कमल् – खेल् रत्न, एच् एस् प्रणोय् एल्दो पोल् च – अर्जुनपुरस्कारः।

नवदिल्ली- राष्ट्रिय-कायिकक्रीडापुरस्काराः घोषिताः। टेबिल् टेन्नीस् क्रीडकः तथा कोमण् वेल्त् कायिकक्रीडायां सुवर्णपतकजेता च अजन्ता शरत् कमल् वर्यः मेजर् ध्यान् चन्द् पुरस्काराय अर्हः अभवत्। सोमवासरे एव राष्ट्रीय कायिकक्रीडामन्त्रालयः पुरस्कारान् अघोषयत्।

केरलीय क्रीडकौ एच् एस् प्रणोय(बाट्मिन्टन्), एल्दो पोल्(ट्रिप्पिल् जम्प्) इत्येतौ अर्जुनपुरस्काराय अर्हावभवताम्।

भारतीय क्रिक्केट् संघनायकस्य रोहित् शर्मणः परिशीलकाय दिनेश् जवहर् लाट् वर्याय द्रोणाचार्यपुरस्कारं दास्यति। क्रिक्केट् क्रीडार्थं तस्य योगदानं परिगणय्य एवायं पुरस्कारः।

कुरियाकु मास्टर स्मारक पुरस्कार समर्पणम् नवम्बर18 तमे दिनाङ्के ।

कुरियाकुमास्टर स्मारक पुरस्कार समर्पणं तथा स्मारकप्रभाषणं च अस्य मासस्य 18 तमे दिनाङ्के प्रातः सार्धदश वादने पुरनाटुकरा संस्कृत महाविद्यालयपरिसरे भविता । केन्द्रीय संस्कृत सर्वकलाशाला वैस् चान्सलर प्रोः श्रीनिवास वरखेडी वर्यः पुरस्का२समर्पणं करोति। कोषिक्कोट सर्वकलागला संस्कृतविभागा- ध्यक्षपदवीतः विरतोडा पि नारायणन् नम्पूतिरिः भवति पुरस्कार विजेता। 25000 रुप्यकाणि फलकं प्रशस्तिपत्रञ्च भवति पुरस्कारस्वरूपम् ।
संस्कृतप्रणयभाजनं पि टि कुरियाकु मास्टर पावर्टी संस्कृत महाविद्यालयस्य स्थापकः भवति । संस्कृतपण्डितेन तेन संस्थापितः महाविद्यालय एव अद्य केन्द्रीय संस्कृत सर्वकलाशालात्वेन पुरनाट्टु करायां देदीप्यते । अवसरे चास्मिन् “केरलीय संस्कृतपठनस्य धर्मेतरत्वं सार्वलौकिकत्वम् च ” इति विषय मधिकृत्य कालटि संस्कृत सर्वकला शलाया : वै स् चान्सलर वर्यस्य प्रो एम् वी नारायणस्य भाषणं च भविता । संस्कृत अक्कादमी अध्यक्षस्य के टी माधवस्य आध्यक्ष्ये सभैषा प्रच लि ष्यति । डाः पि सी मुरली माधवन् वर्येण. विशिष्टव्यक्तीनां परिचायनं क्रियते । गुरुवायुरु देवस्वं अध्यक्ष : डा वि के विजयन् महाविद्यालयाध्यक्षः प्रो ललितकुमार साहु छात्रकल्याण समित्याः अध्यक्ष : चन्द्रकान्त गिरिगडे छात्र प्रतिनिधयः मणि रामन ठाकूर सुप्ता पूर्वविद्यार्थी प्रो सी टि फ्रान्सीस् के एल् सेबास्ट्यन् डो .एम् वी नटेश :च तत्र भागं भजन्ते ।

पाठ्यचर्यानवीकरणचर्चायां ४८ लक्षं छात्राः तेषां रक्षितारश्च भागं गृहीष्यन्ति।

तिरुवनन्तपुरम्- पाठ्यचर्यानवीकरणविषये विद्यालयेषु छात्राणां चर्चा समारब्धा। अस्याः राज्यस्तरीयम् उद्घाटनं भरतन्नूर् उच्चतरविद्यालये शिक्षामन्त्रिणा वि शिवन् कुट्टिवर्येण निर्व्यूढम्।

राज्ये ४८ लक्षं छात्राः तेषां रक्षितारश्च पाठ्यपद्धतिनवीकरणे भागभाजः भविष्यन्ति। एषा प्रक्रिया विश्वे प्रथमतया अत्रैव सम्पद्यते इति मन्त्रिणा निगदितम्।

छात्राणाम् अभिप्रायाः विद्यालयतले बि आर् सि तले च क्रोडीकृत्य राज्य-शैक्षिकानुसन्धान-प्रशिक्षणपरिषदे समर्पयिष्यते इत्यपि तेन निगदितम्।

पी टी कुर्याक्कोस् स्मारकपुरस्काराय डो-पि नारायणन् नम्पूतिरिवर्यः चितः।

तृशूर्- केरल संस्कृत अकादमी संस्थया आयोजितं पी टी कुर्याक्कोस् स्मारक वैशिष्ट्य पुरस्कारं अस्मिन् वर्षे डो पि नारायणन् नम्पूतिरिवर्याय दास्यति। संस्कृतपण्डितः, कालिक्कट् विश्वविद्यालयस्य प्राध्यापकचरः तथा विख्यातः लेखकश्च भवति डो- नारायणन् नम्पूतिरिवर्यः। नवम्पर् मासस्य अष्टादशे दिनाङ्के केन्द्रिय संस्कृत विश्वविद्यालयस्य गुरुवायूर् परिसरे पुरस्कारदानं भविता।

हरितविद्यालयम्- विद्याभ्यास-वास्तविकप्रदर्शनम्(रियालिट्टी षो)

कोच्ची-सार्वजनिकविद्यालयानां श्रेष्ठताम् अवतारयितुं हरितविद्यालयं रियालिट्टी षो पुनरपि आयोजयति। तदर्थं आवेदनम् अधुना समर्पयितुं शक्यते। २०२० जूण् प्रथमदिनादारभ्य विद्यालयानां प्रवर्तनम् अवतारयितुं सार्वजनीनविद्यालयाः प्रभवन्ति। कोविड् कालेषु विद्यालयीयप्रवर्तनानाम् अङ्कनमेव लक्ष्यमस्ति।

प्रथम,द्वितीय,तृतीयस्थानमाप्तानां यथाक्रमं २० लक्षं, १५ लक्षं, १० लक्षं रूप्यकाणां पुरस्कारं दास्यति। अन्तिमचरणं प्राप्तानां विद्यालयानां कृते द्विलक्षरूप्यकाणां साहाय्यमस्ति।

न्यायाधीशः डी वै चन्द्रचूडः सर्वोच्चन्यायालये मुख्यन्यायाधीशपदव्यां नियुक्तः।

नवदिल्ली- राष्ट्रे पञ्चाशत् तमः मुख्यन्यायाधीशः ज- डी वै चन्द्रचूडः भविता। अस्यां पदव्यां चन्द्रचूडं नियुज्य घोषिते आदेशे राष्ट्रपतिना द्रौपदी मुर्मू वर्यया हस्ताक्षरम् अङ्कितम्। विरम्यमाणः मुख्यन्यायाधीशः यु यु ललित् वर्यः ज-चन्द्रचूडं नामनिर्देशं कृतवानासीत्।

नवम्बर् मासस्य अष्टमतिथावेव ज- यु यु ललित् वर्यस्य विरामः भविष्यति। तद्दिने एव ज-चन्द्रचूडः मुख्यन्यायाधीशत्वेन सत्यशपथं ग्रहीष्यति।