Category Archives: News Updates

सुनिता विल्यम्स् प्रतिनिवृत्ता।

फ्लोरिडा- प्रतिपालनस्य विरामं संसूच्य सुनिता विल्यम्स् तस्याः सङ्गश्च सञ्चार्यमाणं क्रू-९ इति बहिराकाशपेटकं मेक्सिक्का अन्तस्समुद्रे फ्लोरिडा तीरसमीपे समुद्रे अवततार। स्पेस् एक्स्प्रस् संस्थानस्य एं वि मेगन् इति महानैका पेटकं यात्रिकान् च समुद्रात् स्वीकृत्य तीरं नेतुं यतते। एवं मासेभ्यः पूर्वम् आरब्धं दौत्यं ,फलं याति।
कुजवासरे भारतीयसमयः प्रातः १०-३५ वादने एव फ्रीडं ड्रागन् इति पेटकं अन्ताराष्ट्र बहिराकाशनिलयात् प्रस्थितमासीत्। निक् हेग्, सुनिता विल्यम्स्, बुच् विल्मोर् तथा रूस् राष्ट्रीय बहिराकाशसञ्चारी अलक्साण्डर् गोर्बुनोव् इत्येते आसीत् पेटकस्थाः यात्रिकाः। सुनिता विल्यम्स्, बुच् विल्मोर् च नवमासीयं दौत्यं सावेशं सम्पूर्यैव भूमिं प्रतिनिवृत्तौ।

अशीति आघोषः गुरु वन्दनञ्चl

पट्टाम्पि महाविद्यालये दशवर्षादधिकं वृत्तिमावहन्नासीत् डो . के जी पौलोस् वर्य : तथा तस्य पत्नी सरला च । दम्पत्योः अशीति जन्मदिनाघोषः तथा तच्छिष्याणां सङ्गमश्च पट्टाम्पि कोलेज् सभासदने संयोज्यते । अस्य मासस्य सप्तविंशत्यां दिने आघोष : आयोजितो वर्तते । गुरुवन्दनम् पट्टाम्पि इति नाम्ना उत्सवः समायोजितः अस्ति । तस्मिन् दिने प्रातः दशवादने केरलस्य तद्देशविकसनमन्त्रालयस्य सचिव : यम् बी राजेष् वर्यः गुरुवन्दनम् उद्धाटयिष्यति।

      केरल संसद् सदस्यः मुहम्मदु मुहसिन् अध्यक्षः भवेत् । मलयालं सर्वकलाशालायाः वैस् चान्सलर् डो . एल्. सुषुमावर्या मुख्यं भाषणं करिष्यति । दम्पत्योः शिष्याः पट्टाम्पी पौरमुख्याश्च अशीत्याघोषस्य सङ्घटकाः भवन्ति । पट्टाम्पि महाविद्यालयस्य अध्यापकाः छात्राश्च आघोषस्य विजयाय कटी बद्धाश्च वर्तन्ते ।

स्वकीयान् अर्भकान् स्वाश्रय-निजीयविद्यालये पाठयतां सार्वजनीनविद्यालयाध्यापकानाम् अनुसूचीं प्रकाशयिष्यति- वि शिवन् कुट्टि रlज्यशिक्षामन्त्री।

काञ्ञङ्ङाट्- सार्वजनीनविद्यालयं विहाय आङ्गलमाध्यमस्वाश्रय-निजीयविद्यालये स्वकीयान् अर्भकान् पाठयतां सार्वजनीनविद्यालयाध्यापकानाम् अनुसूचीं कृत्वा प्रकाशयिष्यति इति केरलीय-शिक्षामन्त्री वि शिवन् कुट्टिवर्यः प्रास्तौत्। ए-के-एस-टि-यु इति शिक्षकसंघस्य राज्यस्तरीये अधिवेशने विद्याभ्यासविचारसत्रम् उद्घाटयन् भाषमाणः आसीत् मन्त्रिवर्यः।

सार्वजनीनविद्यालयाः राज्यस्य सम्पदः भवन्ति। तेषां संरक्षणं समाजस्येव सर्वकारीणकर्मकराणां विशिष्य सार्वजनीनविद्यालयीयशिक्षकाणां दायित्वमस्ति। ते एव सार्वजनीनविद्यालयानां संरक्षकभटाः। केरलेषु बहवः अध्यापकाः स्वकीयान् अर्भकान् निजीयविद्यालयं नीत्वा पाठयन्ति। एषा प्रवृत्तिः सार्वजनीनविद्यालयान् प्रति समाजस्य विश्वासं शोषयति। एतादृशाः शिक्षकाः स्वयं विमृश्य तेषां पूर्वनिर्णयः परिवर्तयितुं यत्नं कुर्युः इत्यपि मन्त्री अवदत्।

कौमारोत्सवः कलाकिरीटं तृशूर् मण्डलेन अवाप्तम्।

तिरुवनन्तपुरम् – पञ्चदिवसपर्यन्तम् अनन्तपुरीनगरं कलाप्रकटनैः सन्दीप्य कौमारकलायाः यवनिका पतिता। अन्तिमनिमेषं यावत् आकाङ्क्षया पूरयन् तृशूर् मण्डलेन कलाकिरीटम् स्वायत्तीकृतम्।

पालक्काट् मण्डलेन सह अनुनिमिषं प्रतियोध्य एकमङ्कम् अधिकमवाप्य तृशूर् मण्डलं विजयकिरीटम् अधारयत्। २००८ अङ्कमवाप्यैव तृशूर् प्रथमस्थानं प्राप। २००७ अङ्केन पालक्काट् मण्डलं द्वितीयस्थाने वर्तते।

२३ संवत्सरानन्तरमेव तृशूर् पुनः विजयकिरीटमवाप। पूर्वं १९९४, १९९९ वत्सरेषु मण्डलेनानेन प्रथमस्थानमवाप्तमासीत्।

मन् मोहन् सिंङ् वर्यः दिवङ्गतः।

नवदिल्ली- भूतपूर्वः प्रधानमन्त्री तथा प्रसिद्धः अर्थशास्त्रपारङ्गतः डा-मन् मोहन् सिंङ् वर्यः(92) कालयवनिकायाम् अन्तरितः। नवदिल्ल्यां AIIMS चिकित्सालये गुरुवासरे रात्रावासीत् मृत्युः। वर्षद्वयपर्यन्तं स चिकित्सायामासीत्।

१९९१-९६ वर्षेषु नरसिंहरावु मन्त्रिमण्डले आर्थिककार्यमन्त्री आसीदयम्। आर्थिक उदारीकरणादि परिष्कारद्वारा राष्ट्रस्य आर्थिकव्यवस्थां परम्परागतमार्गात् परिवर्तितवान् डो मन् मोहन् सिंङ् वर्यः। २००४ तः २०१४ पर्यन्तं द्विवारं स भारतस्य प्रधानमन्त्रिपदम् अलञ्चकार।

अमृतसर् हिन्दू कलालयात् आर्थिकशास्त्रे बिरुदं, पञ्चाब् विश्वविद्यालयात् बिरुदानन्तरबिरुदं च सम्पाद्य केम्ब्रिड्ज् विश्वविद्यालयात् उन्नतबिरुदं, ओक्स्फोड् विश्वविद्यालयात् अर्थशास्त्रे विद्यावारिथि बिरुदं च अवाप्तवान्।

१९७२ तः ७६ पर्यन्तं प्रधानमन्त्रिणः मुख्यार्थिकोपदेष्टा, १९८२ तः ८५ पर्यन्तं रिजर्व् बैङ्क् गवर्णर्, १९८५ तः १९८७ पर्यन्तं आसूत्रणायोगस्य उपाध्यक्षश्चासीत्। मन् मोहन् सिङ् वर्यस्य वियोगमभिलक्ष्य राष्टे एकसप्ताहपर्यन्तं दुःखाचरणं घोषितम्।

एं टि वासुदेवन् नायर् महोदयः दिवङ्गतः।

कोषिक्कोट्- वरिष्ठः कैरलीसाहित्यकारः एं टि वासुदेवन् नायर् वर्यः कालकबलितोsभूत्। कोषिक्कोट् नगरे निजीयातुरालये ह्यस्तनरात्रावेवास्य अन्त्यमभूत्। दशदिनानि यावत् तत्र चिकित्सायामासीत्।

वरिष्ठः कथाकारः तथा अतुल्यः आख्यायिकाकारः नैकेषां चलच्चित्राणां पटकथाकारः चलचित्रनिदेशकश्चासीत् अतुल्यप्रतिभः एष महाशयः। मञ्ञ्, रण्टामूषम् इत्याद्याः अस्य आख्यायिकाः बहुधा प्रशस्तिमवापुः। भारतसर्वकारस्य केरलसर्वकारस्य च साहित्यपुरस्काराः अनेनावाप्ताः। ज्ञानपीठम्, पद्मश्री, साहित्य अक्कादमी पुरस्कारः, केरलश्री, जे सि डानियेल् पुरस्काराश्च तेष्वन्तर्भवन्ति। चलच्चित्र-साहित्यमण्डलस्थाः बहवः तथा प्रशासकाश्च अस्य वियोगे अनुशोचनं प्रकटयन्तः सन्ति।

दिवङ्गतस्यास्य भौतिकदेहसंस्कारः अन्त्येष्टिक्रियाश्च अद्य राजकीयबहुमत्या सह कोषिक्कोट् नगरे सम्पत्स्यते।

हरिप्रसाद् कटम्पूर् वर्यः नारायणीयपुरस्कारजेता।

गुरुवायूर्- २०२४-२५ वर्षस्य नारायणीयपुरस्काराय हरिप्रसाद् कटम्पूर् वर्यः अर्होsभवत्। नारायणीये दर्शनानां प्रभावः इति विषये अनेन कृतः प्रबन्ध एव पुरस्काराय परिगणितः। गुरुपवनपुरेशोपासकः अयं तलश्शेरि तिरुवङ्ङाट् सर्वकारीयविद्यालये संस्कृताध्यापकः भवति। नारायणीयमधिकृत्य नैके प्रबन्धाः अनेन विरचिताः। निमिषकविरयं नैकानि मुक्तकानि व्यरचयत्।

अर्णोस् पातिरि प्रतिभापुरस्कार : समर्पितः।

तृश्शिवपेरूर् – सहृदयवेदिकायाः अर्णोस् पातिरिप्रतिभापुरस्कारः सर्वकारीय पूर्वतनकार्यदर्शिना इ के भरत् भूषण् महाशेन डा सी टि फ्रान्सीस् वर्याय समर्पितः दश सहस्रमितरुप्यकाणि प्रशस्ति फलकञ्च पुरस्कारस्य स्वरूपम् । महानुभावस्य संस्कृतभाषायां अनन्यदृशपाण्डित्यं ‘ संस्कृत भाषायै तेन कृतं समग्रं योगदान ञ्च पुरस्कारसमर्पणाय हेतुभूतं मन्यते । तृश्शिवपुरस्थायां केरल साहित्य अक्कादमि सभामन्दिरे पुरस्कारसमर्पण सभा प्रचालिता आसीत् ।

शिवानन्दलहरी कैरलीभाषया सव्याख्यानं विवर्तिता।

पट्टं –  क्रिस्तुः कृष्णः शिवः नबी च ज्ञानिनां एकस्यैव सत्यस्य विविधाः भावाः एवेति उद्घोषयति कोच्चुत्रेस्या महाभागा। स बोध एव कोच्चुत्रेस्यां शिवानन्दलहरीं प्रति अनयत्। शङ्कराचार्येण विरचिता शिवानन्दलहरी इति संस्कृतकृतिः तया कैरलीभाषया सव्याख्यानं विवर्तिता। एकवर्षपरिमितस्य तपसः फलत्वेन कृतिरियं गतसप्ताहे प्रकाशिता।

    पट्टं सर्वकारीणोच्चतरविद्यालये प्रांशुपाला आसीत् बहुभाषानिष्णाता कोच्चुत्रेस्या। संस्कृतम् आङ्गलं मलयाळम् इत्यादिषु भाषासु सा स्नातकोत्तरबिरुदं सम्पादितवती। तत्रापि संस्कृतमेव प्रिया भाषा। भावस्थिराणि इति आख्यायिका नारायणीयस्य व्याख्यानं च पूर्णकल्पं भवति, अचिरादेव प्रकाशयिष्यति। क्रैस्तवाचारं परिपालयन्त्याः कोच्चुत्रेस्यायाः धर्मनिरपेक्षाम् आत्मीययात्रां बान्धवाः पुरोहिताश्च प्रोत्साहयन्तः वर्तन्ते।

रत्तन् टाट्टा वर्यः दिवङ्गतः। जीवकारुण्यप्रवर्तने विख्यातः उद्योगी आसीत्।

मुम्बै- उद्योगप्रमुखः तथा टाट्टा उद्योगस्य़ परमादरितो/ध्यक्षश्च रत्तन् टाट्टावर्यः कालकबलितः अभूत्। स ८६ वयस्कः आसीत्। मुम्बै ब्रीच् कान्डी चिकित्सालये आसीत् अस्य चरमः। वार्धक्यसहजेन आमयेन चिकित्सायामासीत्।

      जे आर् डि टाट्टा वर्यस्य दत्तकपुत्रस्य नवल् टाट्टा इत्याख्यस्य पुत्रः रत्तन् टाट्टा १९३७ डिसम्बर् २८ तमे दिनाङ्के भूजातः। मुम्बै नगरे एव प्राथमिकशिक्षा प्राप्ता। न्यूयोर्के कोर्णल् विश्वविद्यालयात् बिरुदं सम्पाद्य टेल्को इति टाट्टासङ्घस्य आदिमोद्योगकेन्द्रे १९६२ तमे वर्षे परिशीलनार्थं नियुक्तः। १९९१ तमे वर्षे टाट्टा उद्योगसङ्घस्य अध्यक्षो/भवत्। २०१२ वर्षपर्यन्तं स अध्यक्षपदमलञ्चकार।

      अनूढो/यम् उद्योगी जीवकारुण्यप्रवर्तने निरतः आसीत्। स्वदेशात् विदेशेभ्यश्च नैके पुरस्काराः तेन अवाप्ता।