विश्वचषक पादकन्दुकक्रीडायाम् अर्जन्टीना विजयमवाप।

दोहा- खत्तर् राष्ट्रे प्रचलितायाः विश्वचषक पादकन्दुकक्रीडायाः अन्तिमचरणे फ्रान्स् क्रीडकसंघं ४-२ क्रीडाङ्कैः अभिभावयन् अर्जन्टीना क्रीडकसंघः विजयकिरीटं प्राप। क्रीडार्थं निश्चिते समये संघद्वयमपि द्वौ द्वौ क्रीडाङ्कौ अवाप्य तुल्यतां प्राप्तम्। पुनः अधिकसमयेपि एकैकं क्रीडाङ्कं सम्पाद्य पुनरपि द्वौ संघौ समावस्थां प्रापतुः। अनन्तरं षूट् औट् इति निर्णयरीतिमवलम्ब्य मत्सरः अनुवर्तितः। षूट् औट् क्रीडायाम् अर्जन्टीन चत्वारः क्रीडाङ्कः फ्रान्स् द्वौ क्रीडाङ्कौ च समासादितौ। एवम् अर्जन्टीना मत्सरेस्मिन् विजयपदमवाप।

अर्जन्टीना संघस्य लयणल् मेस्सी उत्कृष्टक्रीडकत्वेन चितः। तस्मै सुवर्णकन्दुकमदात्। विश्वचषकक्रीडायाम् २६ मत्सरे क्रीडितवान् इति ख्यातिरपि मेस्सी स्वायत्तीकृतवान्। अस्मिन् चरणे स सप्त क्रीडाङ्कान् समासादयत्।

फ्रान्स् संघस्य किलियन् एम्बाप्पे मत्सरेस्मिन् अधिकान् क्रीडाङ्कान् स्वायत्तीकृतवान्। अष्टक्रीडाङ्केन स गोल्टन् बूट् पुरस्कारमलभत। स विश्वचषकक्रीडायाम् अन्तिमचरणे महत्तरां क्रीडां प्रादर्शयत्।

Leave a Reply

Your email address will not be published. Required fields are marked *