Category Archives: News Updates

तया इति संस्कृतचलचित्रस्य प्रदर्शनम् इरिङ्ङालक्कुटा देशे।

इरिङ्ङालक्कुटा- राष्ट्रीय-अन्ताराष्ट्रीय चलचित्रोत्सवेषु प्रदर्शितं तथा बहून् पुरस्कारानवाप्तं तया इति संस्कृतचलचित्रम् अधुना सामान्यजनानां कृते प्रदर्शयिष्यति। उत्कृष्टचलचित्रपुरस्कारं, उत्कृष्टाभिनेत्र्याः कृते गोल्टन् स्पारो पुरस्कारम् इत्यादीन् बहून् पुरस्कारान् एतावत्पर्यन्तं चलचित्रम्दम् अन्ववाप।

गोकुलं गोपालवर्येण निर्मितस्य अस्य डा-जि- प्रभावर्यः रचनां निदेशनं च व्यदधात्। चलचित्रस्यास्य प्रदर्शनार्थम् इरिङ्ङालक्कुटा देशं कुतः स्वीकृतमिति चिन्तनीयमेव।
कलानां देश एव इरिङ्ङालक्कुटा। कथकलि आचार्यः उण्णायि वार्यर्, कूटियाट्टकुलपतिः अम्मन्नूर् माधवचाक्यार् च इरिङ्ङालक्कुटदेशस्थौ। चलचित्रनटः इन्नसेन्टं, गायकः पी जयचन्द्रन् च तत्रत्यावेव।

बह्यः संस्कृतपाठशालाः सन्ति इरिङ्ङालक्कुटायाम्। संस्कृताध्यापकसंघस्यापि ऊर्जस्वलं प्रवर्कनमत्रास्ति। तद्वारा नववाणी इति जालपुटः संस्कृतस्य कृते अत्र प्रवर्तते। अतः सामान्यजनानां कृते प्रदर्शनाय सर्वथा योग्यः देशः इरिङ्ङालक्कुटा एव।

डो -मुत्तलपुरं मोहन् दास् वर्यः कालकवलितो अभवत्।

एरनाकुलम्- केरलीयसंस्कृतमण्डले लब्धप्रतिष्ठः कविः, बालसाहित्यकारः, अध्यापकः, अध्यापकप्रशिक्षकः इत्यादिषु रंगेषु विख्यातःडो- मुत्तलपुरं मोहनदासवर्यः दिवङ्गतः। स आस्ट्रेलिया राष्ट्रे सपरिवारं पर्यटन्नासीत्। हृदयाघातेन दिनद्वयात् पूर्वं चिकित्सालये तीव्रपरिचरणविभागे प्रवेशितः आसीत्।सञ्चारप्रियः अयं बहुत्र पर्यटनं कृत्वा तत्सम्बन्धीनि लेखनानि आनुकालिकेषु प्रकाशितवान्। संस्कृते सञ्चारसाहित्यस्य सरणिः अनेन अनावृता।संस्कृतपाठपुस्तकेषु अनेनरचिताः कविताः लेखनानि च योजितानि सन्ति।नववाण्यमपि महाशयस्य कृतयः प्रकाशिताः सन्ति।
   एतस्य वियोगे नववाणीसंघस्य प्रणामाञ्जलयः समर्प्यन्ते।

पद्मपुरस्काराः घोषिताः।

नवदिल्ली- २०२३ वर्षस्य पद्मपुरस्काराः घोषिताः। षट् पद्मविभूषण् पुरस्काराः नव पद्मभूषण् पुरस्काराः ९१ पद्मश्रीपुरस्काराश्च घोषितेषु अन्तर्भवन्ति।

उत्तरप्रदेशस्य भूतपूर्वमुख्यमन्त्री मुलायं सिंह् यादवः, कर्णाटकस्य मुख्यमन्त्रिचरः एस्-एं कृष्ण, तबलवादकः सक्कीर् हुसैन्, ओ-आर्-एस्- प्रयोक्ता दिलीप् महलनोबिस्, वास्तुशिल्पी बालकृष्णदोषी, शास्त्रज्ञः श्रीनिवास वरदः इत्येते पद्मविभूषणेन पुरस्कृताः।

साहित्यविभागे एस्-एल् बैरप्पा,कपिल् कपूर् उद्योगे कुमारमङ्गलं बिर्ला, शास्त्रे दीपक् धरः, कलाविभागे गायिका वाणी जयराम्, सुमन् कल्याणपुर्, आध्यात्मिके स्वामी चिन्ना जीयार्,कमलेष् डी पट्टेल्, समाजसेवने सुधा मूर्ती इत्येते पद्मभूषणेन पुरस्कृताः।

पद्मश्रीपुरस्कृतेषु चत्वारः केरलीयाः सन्ति।स्वातन्त्रसमरसेनानी वि०पि० अप्पुक्कुट्टन् पोतुवाल्, कृषकः चेरुवयल् रामन्, इतिहासकारः सि०ऐ० ऐसक्, आयोधनकलाकारः एस्-आर्-डि- प्रसाद् इत्येते भवन्ति केरलीयाः

संस्कृतमहाविद्यालयस्य फ्रीडं वाल् इति भित्तिचित्रप्रदर्शनं भारतीय अभिलेख पुस्तके

तिरुवनन्तपुरम्- आजाति का अमृत महोत्सवमनुबन्ध्य तिरुवनन्तपुरस्थः राजकीय-संस्कृत-महाविद्यालयः फ्रीडं वाल् इति नाम्ना भित्तिचित्रप्रदर्शनं समायोजयत्। एतत् प्रदर्शनं भारतीय अभिलेख पुस्तके(India Books of Records) स्थानमलभत। कलाशालीय शिक्षाविभागः तथा राष्ट्रिय-सेवा-पद्धतिः(NSS)च संयुक्तरूपेणैव कार्यक्रममायोजितमासीत्। भित्तिचित्रस्य व्याप्ति २००० चतुरश्रपादमिता भवति।

भारतीयाभिलेखपुस्तकस्य केरलराज्यप्रितिनिधेः प्रिजीष् वर्यात् उन्नतशिक्षाविभागमन्त्री डो- आर् बिन्दु वर्या पुरस्कारं स्वीकृतवती। एतादृशया पद्धत्या राष्ट्रे प्रथमतया एव कलाशालायै पुरस्कारं अदात्।

पाठके द्विगुणीकृतमाधुर्यम्- पुत्री शिष्यश्च पाठकप्रयोक्तारौ।

कोषिक्कोट्- शिष्यः पुत्री च सममेव श्रेष्ठतामापन्नस्य सन्तोषे एव श्रीकुमार् वर्यः।

संस्कृतोत्सवे उच्चविद्यालयीयविभागे पाठकावतारकौ भवतः श्रीकुमारस्य शिष्यः एं-एस्- अभिषेकः तथा पुत्री नन्दना श्रीकुमारश्च। तौ विभागेस्मिन् ए ग्रेड् प्राप्तवन्तौ।

कारक्कोणं पि पि एम् उच्चतरविद्यालये अध्यापकः भवति श्रीकुमारः। स छात्रान् पाठकम् अध्यापयन्नस्ति। संस्कृतम् अक्कादमिकसमित्याः राज्यस्तरीयः कार्यदर्शी अपि भवत्ययम्।

संस्कृतविचारसत्रं सम्पन्नम् ।

केरल सर्वकारस्य आभिमुख्ये प्रचाल्यमानस्य केरल स्कूल् कलोत्सवस्य अङ्गभूतं संस्कृत विचारसत्रं कोषिक्कोट नागर सभामन्दिरे समायोजितम् । कोषिक्कोड नगरसभाध्यक्षा श्रीमती बीना फिलिप् दीपप्रज्वालनं कुर्वती उद्घाटनयत्। पण्डित श्रेष्ठस्य तथा भाषाप्रचारकस्य श्री पट्टयिल् प्रभाकरन् वर्यस्य स्मरणार्थं तस्य गृहाद् एव दोपशिखा प्रज्वालिता । पट्टयिल् प्रभाकस्य पुत्रीहस्तात् कार्यक्रमसमित्याः अध्यक्षेण श्री तोट्टत्तिल् २वीन्द्रेण स्वीकृता दीपशिखा शताधिकै : अध्यापकै : अनुगम्यमाना सभामन्दिरमानीता । तद्दीपात् अग्निमादाय एव मञ्चस्थः दीपः ज्वालितः । लोकसंसदसभाङ्गम् श्री यम् के राधवः मुख्यं भाषणं निरवहत् । केरलानां शिक्षा सचिव : श्री वि शिवन् कुट्टी वर्य : पण्डित समादरणं निरवहत् ।

” संस्कृत भाषा पौराणिका भाषा | कैश्चित् स्वार्थलाभाय भाषामेनां स्वकीयां कर्तुमुत्सहन्ते । संस्कृत भाषांजनकीयां कर्तुं अध्यापकैरेव प्रयत्नः करणीय :” इति शिक्षा सचिवः निरदिशत् ।
पद्मश्री कैतप्रं दामोदर न्नम्पूतिरि योगाचार्यः उण्णि रामन् मास्टर नाटकाचार्यः यम् के सुरेष् बाबू संस्कृत समस्या पूरणचतुरः कल्पत्तुरु नारायणन् मास्टर संस्कृत विशिष्टाधिकारिणी डा .टि डी सुनीति देवी च सभायां बहुमानीताः । सचिवः एतेभ्यः पट्टाम्बराणि प्रमाण पत्राणि च समार्पयत् ।
“कला साहित्यक्षेत्रे संस्कृतस्य योगदानम् “इति विषयमाधारीकृत्य तृप्पू पित्तुरा संस्कृत महाविद्यालय स्य व्याकरणशास्त्राचार्या डा जी ज्योत्स्ना प्रबन्धा वतरण मकरोत् । कालटी श्रीशङ्कर संस्कत सर्वकला शालाया : वेद न्त विभागस्य आचार्य : डा. फ्रान्सीस अर क्कल चर्चा याः क्रमी करण ञ्च कृतवान्। श्री टीके सन्तोष् कुमार , संस्कृतोत्सव सञ्चालक समित्या : अध्यक्षा श्रीमती रेखा , वी के राजेष् , सुधीर यम्, कोषिकोट शिक्षा धिकारी पि के धनेष्, श्री सुनिल , सी पि सनल् चन्द्रन् , सुरेष् बाबू , श्री बिजु काविल् च आशंसां भाषितवन्तः । केरल राज्यस्य विविध प्रान्तेभ्यः समागताः शतशः संस्कृताध्यापका : तत्र सन्निहिताः आसन् ।

पादकन्दुकक्रीडाप्रकाण्डं पेले वर्यः कालकबलितः अभूत्।

सावोपोलोः- ब्रसील पादकन्दुकक्रीडायाम् इतिहासं रचितवान् पेलेवर्यः दिवङ्गतः। सावोपोलो स्थले आल्बर्ट् ऐन्स्टिन् चिकित्सालये आसीत् अस्य अन्त्यम्। सः 82 वयस्कः आसीत्। स्वास्थ्यावस्थाां परिगणय्य एकमासावधिकं कालं चिकित्सालये आसीत्। अर्बुधबाधितः स रासायनिकचिकित्सया अपि विमुक्त्यभावात् सान्त्वनपरिचरविभागे चिकित्सायामासीत्। विश्वपादकन्दुकक्रीडायां ब्रसील् राष्ट्रस्य कृते सर्वाधिकं लक्ष्यकन्दुकम् अनेन सम्पादित्म्। 1958, 1962, 1970 वर्षेषु ब्रसीलस्य विश्वचषकविजये नायकत्वं पेले वर्यस्य आसीत्। आहत्य 92 मत्सरेषु 77 लक्ष्यकन्दुकानि अनेन सम्पादितानि।
1940ओक्टेबर् 13 तमे दिने सावोपोलो स्थले एकस्मिन् निर्धनपरिवारे आसीत् एड्सण् अरान्टेस् दो नासिमेन्टो इति यथार्थनामकस्य पेलेवर्यस्य जन्म। पादकन्दुकक्रीडातः विरतः अयं पादकन्दुकस्थानपतिरूपेण प्रवर्तितवान्।

विश्वचषक पादकन्दुकक्रीडायाम् अर्जन्टीना विजयमवाप।

दोहा- खत्तर् राष्ट्रे प्रचलितायाः विश्वचषक पादकन्दुकक्रीडायाः अन्तिमचरणे फ्रान्स् क्रीडकसंघं ४-२ क्रीडाङ्कैः अभिभावयन् अर्जन्टीना क्रीडकसंघः विजयकिरीटं प्राप। क्रीडार्थं निश्चिते समये संघद्वयमपि द्वौ द्वौ क्रीडाङ्कौ अवाप्य तुल्यतां प्राप्तम्। पुनः अधिकसमयेपि एकैकं क्रीडाङ्कं सम्पाद्य पुनरपि द्वौ संघौ समावस्थां प्रापतुः। अनन्तरं षूट् औट् इति निर्णयरीतिमवलम्ब्य मत्सरः अनुवर्तितः। षूट् औट् क्रीडायाम् अर्जन्टीन चत्वारः क्रीडाङ्कः फ्रान्स् द्वौ क्रीडाङ्कौ च समासादितौ। एवम् अर्जन्टीना मत्सरेस्मिन् विजयपदमवाप।

अर्जन्टीना संघस्य लयणल् मेस्सी उत्कृष्टक्रीडकत्वेन चितः। तस्मै सुवर्णकन्दुकमदात्। विश्वचषकक्रीडायाम् २६ मत्सरे क्रीडितवान् इति ख्यातिरपि मेस्सी स्वायत्तीकृतवान्। अस्मिन् चरणे स सप्त क्रीडाङ्कान् समासादयत्।

फ्रान्स् संघस्य किलियन् एम्बाप्पे मत्सरेस्मिन् अधिकान् क्रीडाङ्कान् स्वायत्तीकृतवान्। अष्टक्रीडाङ्केन स गोल्टन् बूट् पुरस्कारमलभत। स विश्वचषकक्रीडायाम् अन्तिमचरणे महत्तरां क्रीडां प्रादर्शयत्।

विश्वचषकस्पर्धा- अर्जन्टीना पूर्वान्तिमचक्रे, ब्रसील् स्पर्धायाः बहिर्गतम्।

दोहा-आवेशभरिते चतुर्थांशमत्सरे लयणल् मेस्सी वर्यस्य अर्जन्टीनाक्रीडकाः पूर्वान्तिमचक्रं प्राविशन्। परं अन्यस्मिन् चतुर्थाँशमत्सरे नेय्मर् वर्यस्य ब्रसील् संघः पराजयं प्राप। नेतर्लान्ट् संघं ४-३ लक्ष्यकन्दुकेन विजित्यैव अर्जन्टीन पूर्वान्तिमचक्रं प्राप। क्रोयेष्या संघं ४-२ लक्ष्यकन्दुकद्वारा ब्रसील् संघं विजित्य च पूर्वान्तिमचक्रं प्राप।

विषिञ्ञं प्रक्षोभः प्रतिनिवृत्तः, मुख्यमन्त्रिणा सार्धं समायोजितायां चर्चायां निर्णयः।

तिरुवनन्तपुरम्- विषिञ्ञं महानौकाश्रयनिर्माणं विरुध्य तीरदेशजनैः १४० दिनपर्यन्तं कृतः प्रक्षोभः प्रत्यावृत्तः। कुजवासरे सायं मुख्यमन्त्रिणा सह चर्चां कृत्वैव अयं निर्णयः स्वीकृतः। नौकाश्रयनिर्माणं स्थगितुं न शक्यते इति सर्वकारः प्रक्षोभकारिणः असूचयत्।

सर्वकारनिर्णयस्य पालनाय मुख्यसचिवस्य नेतृत्वे अवलोकनसमितिः रूपवत्क्रियते इति सर्वकारः तानबोधयत्।

अदानिसंघस्य व्यवहारं बुधवासरे उच्चन्यायालयः परिगणयिष्यतीति पूर्वं सूचितम्। तन्मध्ये एव अधुना समरस्य परिसमाप्तिः अजायत।