Category Archives: News Updates
अद्यतन वार्ताः – 03-05-2025
🎈🎈🎈🎈🎈🎈
**क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य त्रीणि मेय् २०२५ (पंचविशत्यधिक द्विसहस्रम्) शनि वासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी। **
🎈🎈🎈🎈🎈🎈
🎈विशिञ्जंम् अन्तर्राष्ट्रीयपत्तनं प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्राय समर्पितम्।
🎈विशिञ्जं पत्तनस्य शुभाशयाः सर्वाः निवेदयामि इति विपक्षनेता वी.डी. सतीशन् उक्तवान्।
🎈विश्वश्रमिकदिने एव के.एस्.आर्.टी.सी. कर्मकर्तृभ्यः वेतनं दातुं शक्यम् इत्यस्य हर्षं परिवहनमन्त्रि: के.बी. गणेशकुमारः प्रकाशितवान्।
🎈आशावर्धिकानां आग्रहाणि सरकारेण स्वीकृतानि न सन्ति इति कारणेन सचिवालयस्य द्वारे निराहारव्रतम् आशावर्धिकाः परित्यक्तवन्तः।
🎈२०२४-२५ अध्ययनवर्षस्य सी.बी.एस्.ई. दशमद्वादशकक्ष्यायाः परिणामः मेई-मासस्य अष्टमदिनात् पूर्वं प्रकाश्यते इति अधिकृतैः सूचना दत्ता।
🎈भारत-पाकिस्तानयोः सीमायाम् जामकानि स्थाप्य भारतदेशेन पञ्चाशत् विमानपथेषु पाकिस्तानविमानानां प्रवेशः ३० एप्रिल् तः २३ मेई पर्यन्तं निषिद्धः।
🎈पाकिस्तानदेशेन विमानसीमा रुद्धा इत्यस्मात् कारणात् जातस्य अतिकर्षस्य व्ययस्य कृते क्षतिपूर्तिपद्धतिः आवश्यकेति एअर् इण्डिया इत्यनेन केन्द्रसर्वकारं प्रति निवेदनं कृतम्।
🎈 राष्ट्रीयशिक्षणप्रशिक्षण योजनायाः अन्तर्गतं विविधसंस्थासु प्रशिक्षणार्थिनां अधिकानामवसरः लब्धः।
🎈लाटिन-अमेरिकादेशेषु अर्जेन्टीना नाम्ने राष्ट्रे महत् भूकम्पः सम्पन्नः। रेक्टर्-मापकयन्त्रे ७.४ तीव्रता अंकितम्।
🎈 राज्यस्य फाइन्-आर्ट्स् महाविद्यालयेषु पाठ्यक्रमाः अकादमिक् क्रियाशीलताः च कालानुसारं परिष्कृताः भविष्यन्ति इति उच्चशिक्षाविभागमन्त्री आर्. बिन्दु उवाच।
🎈राज्ये त्रिषु आवर्तेषु अतीववृष्टेः पूर्वसूचना प्रदत्ता अस्ति।
धन्यवादः
शुभदिनम्
🎈🎈🎈🎈🎈🎈
अद्यतन वार्ताः -02-05-2025
**क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य द्वे मेइ २०२५ (पंचविशत्यधिक द्विसहस्रम्) शुक्रवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🌸🌸🌸🌸🌸🌸
🌸 क्रीडासमयं न प्रदत्तमिति बालानां नित्यं शिकायतिः समाः।
विद्यालयेषु क्रीडाविषयकपाठाय विशेषं समयं निर्दिष्टं स्यात्, तस्मिन् अन्यविषयाः न पाठनीयाः इति आदेशः दत्तः।
🌸 विऴिञ्ञं बंदरस्य औपचारिक उद्घाटनं प्रधानमंत्री नरेंद्रमोदी कर्तुं नियुक्तः।
🌸सरकारकर्मचारिणां निवृत्तजनानां च वैद्यसेवानिर्भरबीमा योजना ‘मेडिसेप्’ निरन्तरं स्थापनीया इति सिफारिशः।
🌸नियंत्रणरेखायाम् अकारणं निरन्तरं चालितव्या गोळीवृष्टिः इत्यस्मिन् विषये भारतदेशेन पाकिस्तानं प्रति चेतावनी प्रदत्ता।
🌸 ए.टी.एम् शुल्केषु मेई १ दिनाङ्कतः परिवर्तनम् । विनिमयसेवायै भारतीयरिजर्वबैंकस्य निर्देशानुसारं शुल्कवृद्धिः भवति।
🌸 नव-राष्ट्रीयशिक्षानीत्यनुसारं विश्वविद्यालयाधीनानि सर्वाणि महाविद्यालयानि तेषां शिक्षापाठ्यक्रमं परिवर्तयितुं यूजीसी आदेशं दत्तम्।
🌸प्रदूषणमुक्तं यानव्यवस्था सुनिश्चितुं केन्द्रसरकारेण विहितेषु उपायेषु एकं प्रमुखं उपायं भवति विद्युत्-यानानां प्रोत्साहनम्।
🌸सर्वदेशीयश्रमिकानां एकीकरणं प्रार्थयन् ह्यः ‘मेद्दिनम्’ उत्सवः आयोज्यते स्म।
🌸संयुक्तारबएमीरात्सेषु तापमानं तीव्रं जातम्। देशव्याप्तं उष्णता आर्द्रता च व्याप्ते।
अद्यतन वार्ताः – 01-05-2025
*क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य एकं मेय् २०२५ (पंचविशत्यधिक द्विसहस्रम्) गुरु वासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🌾🌾🌾🌾🌾🌾 🌾
काश्मीरे निर्दोषानां प्राणान् हरन् राष्ट्रस्य सुरक्षा संकटं च जनयन् येन आतंकवादिना कृतं कर्म, तस्मै सम्यक् प्रत्युत्तरं दातुं केन्द्रसर्वकारः सज्जः भवितव्यमिति मुख्यमन्त्री पिणरायि विजयः उक्तवान्।
🌾दक्षिणएशियायाः प्रथमं स्वयंचालितं समुद्रपत्तनं यः, तस्मात् विऴिञ्ञम् अन्तरराष्ट्रीयपत्तनं मेय् द्वितीये दिनाङ्के राष्ट्राय समर्प्यते।
🌾मेय् चतुर्थे दिने आयोज्यमानेषु वैद्यक-अनुबन्ध-पाठ्यक्रमेषु प्रवेशाय राष्ट्रियपरीक्षा नीट्-यूजी इत्यस्य आयोजनाय केरलराज्येन यथाविधि प्रबन्धाः कृताः।
🌾निर्दिष्टं तिरुनावाय-तवनूर् सेतुपथस्य वर्तमानरेखाङ्कनं प्रश्नीकृत्य मेट्रोमान् ई. श्रीधरस्य द्वितीयं निवेदन विषये चतुर्दशदिनाभ्यन्तरे निर्णयः करणीयः इति उच्चन्यायालयेन उक्तम्।
🌾पहलगाम् प्रदेशे येन आतङ्कवादिना आक्रमणं कृतं, तेन चैनायाः संप्रेषणप्रणाली उपयोगिता इति ज्ञायते।
🌾पहलगाम् आतङ्कप्रसङ्गानन्तरं भारत-पाकिस्तानयोः कूटनीतिकसंबन्धः दुरवस्थां प्राप्तः, संघर्षाः च वृद्धिं गताः। अस्मिन् सन्दर्भे संयुक्तराष्ट्रसंस्था मध्यस्थं कर्तुम् प्रयत्नं आरब्धम्।
🌾विऴिञ्ञम् पत्तनस्य उद्घाटनसमारोहे विपक्षनेता वी.डी. सतीशन भागं न स्वीकरिष्यतीति सूचितम्।
🌾“अन्यं युद्धं जगत् सहितुं न शक्नोति”, इत्युक्त्वा भारत-पाकिस्तानयोः संयमं धारयितुं आवश्यकमिति तुर्किराष्ट्रपतिः रजब् त्वय्यिब् उर्दुगान् आह।
🌾वाहनशिक्षणकेन्द्रेषु सामान्ययानानां प्रयोगं निरोद्धुं मोटरयानविभागेन उपायाः आरब्धाः।
🌾संयुक्तअरब इमीरात् देशे उष्णतायाः तीव्रता वर्धमाने, शालाकालस्य संक्षेपः शिक्षामन्त्रालयेन कृतः।
🌾देशे ICSE दशमकक्षायाः, ISC द्वादशकक्षायाः परीक्षा-फलम् उद्घोषितम्। धन्यवादः शुभदिनम्।
🌾🌾🌾🌾🌾
अद्यतन वार्ताः -30-04-2025
🌲🌲🌲🌲🌲🌲🌲
**क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य त्रिंशत् एप्रिल् २०२५ (पंचविशत्यधिक द्विसहस्रम्) बुधवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।**
🌲🌲🌲🌲🌲🌲🌲
🌲 विलिञ्ञं नाम अन्तर्राष्ट्रीयपत्तनस्य उद्घाटनसमारम्भाय प्रधानमन्त्री नरेन्द्रमोदी आगमिष्यतीति सुनिश्चितम्।
🌲मलिनजलद्वारा भोजनद्रव्यैश्च विसूचिकायाः प्रसरणस्य सम्भावनया सावधानता आवश्यकीति आरोग्यमन्त्रिणी वीणा जॉर्ज इत्यनेन सूचितम्।
🌲केरल-कर्णाटकराज्ययोः सीमायाम् बन्धिपुरं नाम स्थले रात्रौ यात्रानिषेधसंबन्धे कर्णाटका सभापतिना यु.डी. खादर इत्यनेन स्थितिः स्पष्टीकृता।
🌲पहलगाम् प्रदेशे आतंकवादिनां आक्रमणस्य पृष्ठभूमौ, जम्मूकाश्मीरप्रदेशे ८७ पर्यटनकेन्द्रेषु ४८ केन्द्राः तात्कालिकतया बन्दानि कृतानि।
🌲कण्णूर-अन्तरराष्ट्रीय विमानपत्तनात् दमाम् गन्तव्ये विमानयात्रायाः मूल्यं न्यूनीकृतम् इति एअर् इण्डिया एक्सप्रेस् इत्यनेन विज्ञापितम्।
🌲दीर्घयात्रायै केएसआरटीसी-यानानां वातानुकूलनव्यवस्था नास्तीत्यस्य समस्यायाः समाधानाय केएसआरटीसी संस्था प्रस्तुतिः कृतम्
🌲भारतदेशेन पाकिस्तानस्य विमानानां नौकानां च अनुमतिः निषेधनीयत्वे विचारः क्रियते।
🌲कोटिसंख्याः डॉलर्-मूल्ययुक्तं अमेरिका युद्धविमानं रक्तसागरे (Red sea) पतितम्।
🌲🌲🌲🌲🌲🌲🌲
धन्यवादः
शुभदिनम्
अद्यतनवार्ताः 29-04-2025
🪔🪔🪔🪔🪔
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य नवविंशतिः एप्रिल् २०२५ (पंचविशत्यधिक द्विसहस्रम्) मङ्गलवासरः । वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
वार्ताम् वाचयति-ललितांबिका ए एन, पालक्काड्।
🪔🪔🪔🪔🪔🪔
🪔उचिते मूल्ये कृषकान् आकर्षयन् अनानसफलस्य मूल्यं ग्रीष्मवर्षया सह अर्धेन अपचक्रत।
🪔 दीर्घविरामानन्तरं आगामिमासे रेशन् आपणेभ्यः मृत्तिकातैलस्य
प्राप्तिः भविष्यतीति सूचना अस्ति।
🪔 नवमार्पापां चयितुं कत्तोलिका कर्दिनालानां सभा मेय् ७ दिने आरभ्यते इति वतिकानस्य सूचना।
🪔 करं विना सेवां कुर्वत्सु अन्यराज्यपर्यटनयानेषु मोटर्-यान-विभागेन दण्डः आरोपितः।
🪔 विद्युत् वितरणे व्यवधानं युरोपदेशेषु जातम्। स्पेन्, फ्रांस्, पोर्तुगाल् इत्यादिषु देशेषु विद्युत् वितरणं अवरुद्धम्।
🪔२०२५ आर्थिकवर्षे भारतरिजर्व्बैंक् ५७.५ टनं सुवर्णं अधिगच्छत्।
🪔 पहलगाम् आतंकाक्रमणस्य पार्श्वभूमौ कश्मीरप्रदेशे महत्वपूर्णकेन्द्राणां सुरक्षा वर्धिता।
🪔 उच्चमाध्यमिके, अपि च नव्य-व्यवसायिक-उच्चमाध्यमिके शिक्षकेभ्यः नियुक्त्यर्थं राज्यपात्रतापरीक्षा एप्रिल् २८ दिनाङ्कात् आरभ्य आवेदनं कर्तुं शक्यते।
🪔 आई पी एल् स्पर्धायाम् द्वितीयखेलने डेल्हीकेपिटल्स् दलं षड्विकेट्स् अन्तर्येन रॉयल् चैलेन्जर्स् बेंगळूरु नामकदलेन पराजितम्।
धन्यवादः
शुभदिनम्
कस्तूरि रङ्गन् वर्यः दिवमगात्।
भारत-पाकिस्तान् सीमाप्रदेशः पिहितः, नयतन्त्रकार्यवाहकाः बहिर्नीताः, सिन्धुनदीजलसमयः संशीतीकृतश्च।
नवदिल्ली- जम्मू-काश्मीरदेशे पहल्गां स्थले संजाते भीकराक्रमणे पाकिस्तानं विरुध्य नयतन्त्रतले भारतेन कर्शनं कार्यान्वयं स्वीकृतम्। सिन्धुनदीजलसमयः संशीतीकृतः, पाकिस्तानपौराणां कृते SVES VISA इतः परं न दास्यति। भारतस्थाः पाक् नयतन्त्र कार्यालयस्थाः डिफन्स् अट्टाषे इति नयतान्त्रिकाः बहिर्नीताः। ते एकसप्ताहाभ्यन्तरे राष्ट्रादस्मात् गन्तव्याः इति आदिष्टम्। वागा अट्टारी इति सीमाप्रदेशौ पिहितौ। इत्यादयः भारतस्य निर्णयाः।
प्रधानमन्त्रिणः नरेन्द्रमोदीवर्यस्य आध्यक्ष्ये समायोजिते मन्त्रिमण्डलाधिवेशने अयं निर्णयः अभूत्।
संस्कृतोत्सवः सुसम्पन्नः।
तिरुवनन्तपुरम् – सर्वाकारीयसंस्कृतकलालयस्य पठितपूर्वाणां छात्राणां अध्यापकानां च मेलनस्य भागत्वेन विद्यालयीयसंस्कृतछात्राणां कृते आयोजिता कलासाहित्यस्पर्धा प्रशस्तकविना गिरीष् पुलियूर् वर्येण समुद्घाटिता। पूर्वतनछात्रसमितेः अध्यक्षः डा राजन् महाभागः, कार्यदर्शी अड्व.एस्.अरुण्, संकृतकौण्सिल् राज्यस्तरीयाध्यक्षः सुनिल् वेम्पायम्, डा. षाजी मात्यू वटक्कन्, श्री एन्. सदानन्दन् च भाषणं कृतवन्तः।
यु.पि., हैस्कू्ल्विभागेषु शताधिकाः छात्राः स्पर्धायां भागमभजन्। कवितारचना, कथारचना, उपन्यासरचना, अक्षरश्लोकस्पर्धा, पद्योच्चारणं, गानालपनं इत्यादिषु स्पर्धाः आयोजिताः। विजयिनां कृते पुरस्काराः २७ तमे प्रत्यागमनसमारोहे वितरिष्यन्तीति समायोजकाः विज्ञापयन्ति।
गुरु वन्दनम् पट्टाम्पि सम्पन्नम्l
पट्टाम्पि – श्री नीलकण्ठ संस्कृत महाविद्यालये दशमितवर्षाणि संस्कृतविभागस्य अध्यक्ष पदमलङ्कुर्वतः डा के जी पौलोस् वर्यस्य श्रीमती टी के सरलायाश्च अशीति जन्मदिनाघोषः- “गुरु वन्दनं पट्टाम्पि ” इति नामकः सम्पन्न :। पट्टाम्पि महाविद्यालये मार्च् मासस्य सप्तविंशतितमे आसीत् अयम् आघोषः । महाविद्यालयस्य सुसज्जीकृते सभामण्डपे पट्टाम्पी संसदीयः श्री मुहम्मद् मुहसिन् आघोषस्य औपचारिकम् उद्घाटनं निरवहत् । मानवानां एकीकरणे भाषायाः महत्स्थानमस्तीति तेनानुस्मारितम् । संस्कृतं मानवानाम् एकीकरणाय तथा समाजस्य परिष्कराणाय सप्रयोजकं करणीयमिति स उक्तवान् ।
उद्घाटनसभायां महाविद्यालयस्य प्राचार्यः ङा दिलीप् सी डी आध्यक्षपदम् अलङ्कृतवान् । सङ्घाटकसमित्या : कार्यदशी श्री उण्णिकृष्णन् चाषियाट् आमुख भाषणम् अकरोत् । मलयाल सर्वकलाशालायाः उपकुलपति : डा एल् . सुषमा मुख्यं भाषणं कृतवती । श्री मुहम्मद् मोहसिन् आदर फलकं दम्पत्योः अदात् । डा राजेष् कुमार् . ( कुलसचिवःकेरल कलामण्डलम् , ) डा पि एम् वारियर् (कोट्टककल् आर्यवैद्य शालायाः मुख्यवैद्यः) डो सी पी चित्रभानु ( प्रोफ्सर पट्टाम्पी महाविद्यालय : ) डा षर्मिला के तङ्कप्पन् ‘ ( कार्यदर्शी AKGCT महाविद्यालयः) च आशंसाभाषणानि अकुर्वन् । डा के जी पौलोस् टी के सरला च प्रतिवचनभाषणं चाकुरुताम् । सभायां विविधानां ग्रन्थानां प्रकाशनमपि सम्पन्नम् । संस्कृत विभागस्य अध्यक्ष : डा वासु महोदयः सभायै स्वागतमाशशंस । सङ्घाटकसमित्या : उपाध्यक्षः श्री एम् एस् शर्मा कृतज्ञताभाषणं च अवदत् ।
ङा पी वी रामन् कुट्टी, डा के एच् सुब्रह्मण्यः, डो सी एम् नील कण्ठ: , श्री जीव ( विद्यार्थी )डा.पी के मुहम्मद् कुट्टी ,पी एम् वासुदेवन्, श्री के एम् परमेश्वरन् च गुरुवन्दनस्य सङ्घाटने प्रचालने च प्रयतितवन्तः आसन् । अशीति आघोषवस्य भागत्वेन विशिष्टा सग्धिः च सम्पन्ना । शिष्याः छात्राः पौरमुख्याश्च त्रिशतमिताः भागभाज : आसन् ।
डो के जी पौलस् तृप्पूणितुरा संस्कृत महाविद्यालयस्य प्राचार्य : श्रीशडकर संस्कृत सर्वकलाशालायाः प्रथमः कुलसचिवः ‘केरल कलामण्डलं कल्पित सर्वकलाशालायाः उपकुलपति : कोटककल् आयुर्वेद वैद्यशालायाः ग्रन्थ प्रकाशनाध्यक्ष : इत्यादिषु पदेषु अपि विराजमानः आसीत् । आङगले तथा कैरल्यां च अनेन पञ्चाशदधिका ग्रन्था : रचिताः सन्ति । नटाङ्कुश कूटियाट्टम् कैरली परिभाषा कूटियाट्टत्तिनु ओरामुखम्, बालबोधनम् लघुसंस्कृतम् इत्याद्याः तेषु प्रमुखाः सन्ति । 2023 तमे वर्ष केन्द्र साहित्य अक्कादमी संस्थायाः भाषा संस्थान् पुरस्कारेणापि आदृत: अयं महानुभावः ।
विनोद् कुमार् शुक्लवर्यः ज्ञानपीठेन पुरस्कृतः।
नवदिल्ली- एकोनषष्टितमः ज्ञानपीठपुरस्कारः घोषितः। हिन्दी साहित्यकारः विनोद् कुमार् शुक्लवर्यः पुरस्काराय चितः। छत्तीस्गढ् राज्यात् ज्ञानपीठेन पुरस्कृता प्रथमा व्यक्तिः भवति विनोद् कुमार् शुक्ला। समकालिक हिन्दीसाहित्ये विख्यातो भवत्ययम्। हिन्दीसाहित्यात् ज्ञानपीठेनपुरस्कृतः द्वादशतमश्च भवत्ययं महानुभावः। ज्ञानपीठजेत्र्या प्रतिभा राय् वर्यया नेतृत्वमापन्ना समितिरेव पुरस्कारनिर्णयमकरोत्। एकादशलक्षं रूप्यकाणि फलकं च पुरस्कारे अन्तर्भवति।















